Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    दशमोऽध्यायः ।। कलत्र भाव ।।

    शुभाधिपयुतेक्षिते सुतकलत्रभे लग्नतो
    विधोरपि तयोः शुभं त्वितरथान सिद्धिस्तयोः ।
    सिताव्द्ययसुखाष्टगैः खरखगैरसन्नध्यगे
    सितेऽप्यथ शुभेतरेक्षितयुते च जायावधः ॥ १॥
    दारेशे सुतगे प्रणष्टवनितोऽपुत्रोऽथवा धीश्वरो
    द्यूने वा निधनेश्श्वरोऽपि कुरुते पत्नीविनाशं ध्रुवम् ।
    क्षीणेन्दौ सुतगे व्ययास्ततनुगैः पापैरदारात्मजः
    स्त्रीसङ्गाद्धननाशनं मदगयाः स्वर्भनुभान्वोर्वदेत् ॥ २॥
    शुक्रे दृश्चकगे मदे मृतवधूः कामे वृषस्थे बुधे
    स्त्रीनाशस्त्वथ नीचगे सुरगुरौ द्यूनाधिरुढे तथा ।
    जामित्रे भुषगे शनौ सति तथा भौमेऽथवा स्त्रीमृति-
    श्चन्द्रक्षेत्रगयोर्मदेऽर्किकुजयोः पत्नी सति शोभना ॥ ३॥
    अस्ते वास्तपतावसद्ग्रहयुते दृष्टेऽप्यसन्मध्यगे
    नीचारातिगृहेऽर्ककान्त्यभिहते ब्रूयात्कलत्रच्युतिम् ।
    कमे वा सुतभाग्ययोर्विकलदारोऽसौ सपापे भृगौ
    शुक्रे वा कुजमन्दवर्गसहिते दृष्टे परस्त्रीरतः ॥ ४॥
    भौमार्क्यस्ते भॄगुजशशिनोर्दाहीनोऽसुतो वा
    क्लीबेऽस्ते वा भवति भवगौ द्वौ ग्रहौ स्त्रीद्वयं स्यात् ।
    द्वन्द्वर्क्षाशे मदपतिसितौ तस्य जायाद्वयं स्यात्
    ताम्यां युक्तैर्गगननिलयैर्दारसङ्ख्यां वदन्तु ॥ ५॥
    स्त्रीसङ्ख्यां मदगैर्ग्रहैर्मृर्तिमसत्खेटैश्च सब्धिः स्थिती
    द्यूनेशे सबले शुभे सति वधुः साध्वी सुपुत्रान्विता ।
    पापोऽपि स्वगृहं गतः शुभकरः पत्न्याश्चकामस्थिता
    हित्वा षड्व्ययरन्ध्रपान्मदनगाः सौम्यास्तु सौख्यावहाः ॥ ६॥
    भार्यानाशस्त्वशुभसहितौ वीक्षितौ वार्थकामौ
    तत्र प्राहुस्त्वशुभफलदां क्रूरदृष्टि विशेषात् ।
    एवं पत्न्या अपि सति मदे चाष्मे वास्ति दोषः
    सौम्यैर्दृष्टे सति शुभयुते दम्पती भाग्यवन्तौ ॥ ७॥
    चन्द्रे समन्दे मदगे पुन्रभूः
    पतिर्भवेद्वाप्यसुतो विदारः ।
    नीचारिभस्थैरशुभैर्मदे स्त्री-
    पुंसोर्मृतिः स्यान्निधने धने वा ॥ ८॥
    लग्नात्कलत्रभवने समराशिसंज्ञे
    भावाधिपेऽपि च तथैव गतेऽसुरेड्ये ।
    सूर्याभितप्तरहिते सुतदारनाथे
    वीर्यन्विते तु जननं ससुतं कलत्रं ॥ ९॥
    कुटुम्बदारव्ययराशिनाथा
    जीवेक्षिताः कोणचतुष्टयस्थाः ।
    दारेश्चराद्वित्तकलत्रलाभे
    सौम्याः कलत्रं ससुतं सुखाढ्यम् ॥ १०॥
    लग्नास्तनाथस्थितभांशकोणे
    नीचोच्चभे स्त्रीजननं च पत्युः ।
    चन्द्राष्टवर्गेधिककिन्दुराशौ
    कलत्रजन्मेति तथा धवस्य ॥ ११॥
    कामस्थकामाधिप्भार्गवाना
    मृक्षं दिशं शंसति तस्य पत्न्याः ।
    शुक्रोऽस्तपो वा नतुनाथभांश-
    त्रिकोणमायाति तदा विवाहः ॥ १२॥
    कलत्रसंस्थस्य कलत्रदृष्टे
    दर्शागमेवाथ कलत्रपस्य ।
    यदा विलग्नाधिपतिः प्रयाति
    कलत्रभं तत्र कलत्रलाभः ॥ १३॥
    कलत्रनाथस्थितभांशकेशयोः
    सितक्षपानायकयोर्बलीयसः ।
    दशागमे द्यूनपयुक्तभांशक-
    लत्रिकोणगे देवगुरौ करग्रहः ॥ १४॥
    कलत्रनाथे रिपुनीचसंस्थे
    मूढेऽथवा पापनिरीक्षिते वा
    कलत्रभे पापयुतेऽथ दृष्टे
    कलत्रहानी प्रवदन्ति सन्तः ॥ १५॥

    No comments

    Post Top Ad

    Post Bottom Ad