Header Ads

  • Breaking News

    श्री महालक्ष्मी स्तोत्रम् - देवकृतम् ।। Astro Classes.

    Shri Maha Lakxmi Stotra, Deva Kritam.
    श्री महालक्ष्मी स्तोत्रम् - देवकृतम् ।। Astro Classes, Silvassa.

    क्षमस्व भगवन्त्यव क्षमाशीले परात्परे ।
    शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥

    उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।
    त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥

    सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।
    रासेश्वर्यधि देवी त्वं त्वत्कलाः सर्वयोषितः ॥

    कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका ।
    स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥

    वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती ।
    गङ्गा च तुलसी त्वं च सावित्री ब्रह्मालोकतः ॥

    कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् ।
    रासे रासेश्वरी त्वं च वृन्दावन वने-वने ॥

    कृष्णा प्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ।
    विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥

    पद्मावती पद्मवने मालती मालतीवने ।
    कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥

    कदम्बमाला त्वं देवी कदम्बकाननेऽपि च ।
    राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥

    इत्युक्‍त्वा देवताः सर्वा मुनयो मनवस्तथा ।
    रूरूदुर्नम्रवदनाः शुष्ककण्ठोष्ठ तालुकाः ॥

    इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।
    यः पठेत्प्रातरूत्थाय स वै सर्वै लभेद् ध्रुवम् ॥

    अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् ।
    सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम् ॥

    पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् ।
    अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ।
    परमैश्वर्ययुक्‍तं च विद्यावन्तं यशस्विनम् ।
    भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥

    हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् ।
    कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद् ध्रुवम् ॥

    सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम् ।
    हर्षानन्दकरं शश्वद्धर्म मोक्षसुहृत्प्रदम् ॥

    ॥ इति श्रीदेवकृत लक्ष्मीस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad