श्री लक्ष्मी स्तोत्रम् ।। Astro Classes.
Shri Maha Lakxmi Hridaya Stotra.
श्री लक्ष्मी हृदय स्तोत्रम् ।। Astro Classes, Silvassa.


       ।। श्रीगणेशाय नमः ।।
         ।। हरिः ॐ ।।

नारायणस्य हृदये भवती यथाऽऽस्ते, नारायणोऽपि तव हृत्कमले यथास्ते ।
नारायणस्त्वमपि नित्य विभू तथैव, तौ तिष्ठतां ममापि दयान्वितौ श्रीः ॥

यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं विष्णुना सह ॥

योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ  स्थिरं श्रीविष्णुना सह ॥

लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
     त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तिक फलस्फुटं कमलवासिनि श्रीरिमां
     समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥

 सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी।

विलुप्तमूर्धन्यलिपिक्रमाणां सुरेन्द्रचूडापदलालितानाम् ।
त्वदङ्घ्रिराजीवरजःकणानां भूयान् प्रसदो मयि नाथ भूयात् ॥

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

यावद् भ्रियते जठरं तावत् स्वत्त्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं हृदये कुरु श्रीः ।
दयासुवृष्टिं  कुरुतां मयि श्रीः सुवर्णवृष्टिं कुरु मे करे श्रीः ॥

श्रीशाङ्घ्रिभक्तिं हरिदास्यदास्यं प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे
     यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
     त्वत्पादाम्भोरुहयुगगता निश्च्ला भक्तिरस्तु ॥

सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
     निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
हरिरपि निजलोकं सर्वथा तं विहाय
     प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥

महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।
                   लभ्यतेऽपि तत्कृपयैव ।
तस्मिंस्तत्जने भेदाभावात् ।
           तदेव साध्यतां, तदेव साध्यताम् ॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥

     ॥ ॐ तत्सत्॥

अथ श्रीमहालक्ष्मीहृदयस्तोत्रम् ।।

अस्य श्री आद्यादि श्रीमहालक्ष्मी-हृदय-स्तोत्र- महामन्त्रस्य भार्गव ऋषिः, अनुष्टुबादि नानाछन्दांसि, आद्यादि-श्रीमहालक्ष्मी सहित नारायणो देवता ॥

      । ॐ बीजं, ह्रीं शक्तिः, ऐं कीलकम् ।
आद्यादि-श्रीमहालक्ष्मी-प्रसादसिद्ध्यर्थं जपे विनियोगः॥

ॐ आद्यादि-श्रीमहालक्ष्मी देवतयै नमः हृदये, श्रीं बीजायै नमः गुह्ये, ह्रीं शक्त्यै नमः पादयोः, ऐं बलायै नमः मूर्धादि-पाद-पर्यन्तं विन्यसेत् ॥

ॐ श्रीं ह्रीं ऐं करतल-करपार्श्वयोः, श्रीं अङ्गुष्ठाभ्यं नमः,
ह्रीं तर्जनीभ्यां नमः, ऐं मध्यमाभ्यां नमः, श्रीं अनामिकाभ्यां नमः,
ह्रीं कनिष्टिकाभ्यां नमः, ऐं करतल करपृष्ठाभ्यां नमः॥

ॐ हृदयाय नमः, ह्रीं शिरसे स्वाहा, ऐं शिखायै  वौषट्, श्रीं कवचाय हुम्, ह्रीं नेत्राभ्यां वौषट्, भूर्भुवस्सुवरों इति दिग्बन्धः॥

                     ॥ अथ ध्यानम्॥

हस्तद्वयेन कमले धाअरयन्तीं स्वलीलया॥

हार-नूपुर-संयुक्तां महालक्ष्मीं विचिन्तयेत्॥

कौशेय-पीतवसनां अरविन्दनेत्राम्
     पद्मद्वयाभय-वरोद्यत-पद्महस्ताम्।
उद्यच्छतार्क-सदृशां परमाङ्क-संस्थां
     ध्यायेत् विधीशनत-पादयुगां जनित्रीम्॥

  ॥श्रीलक्ष्मी-कमलधारिण्यै सिंहवाहिन्यै स्वाहा॥

पीतवस्त्रां सुवर्णाङ्गीं पद्महस्त-द्वयान्विताम्।
लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत् पृथिवीपतिः॥

मातुलङ्ग-गदाखेटे पाणौ पात्रञ्च बिभ्रती।
वागलिङ्गञ्च मानञ्च बिभ्रती नृपमूर्धनि॥

             । ओं श्रीं ह्रीं ऐं।
वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां
     तेजोरूपां कनक-वसनां सर्वभूषोज्ज्वलाङ्गीम् ।
बीजापूरं कनक-कलशं हेमपद्मं दधानाम्
     आद्यां शक्‍तिं सकलजननीं विष्णु-वामाङ्कसंस्थाम् ॥ १॥

श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
सर्वकाम-फलावाप्ति-साधनैक-सुखावहाम् ॥ २॥

स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ३॥

समस्त-सम्पत्सुखदां महाश्रियं
     समस्त-कल्याणकरीं महाश्रियम् ।
समस्त-सौभाग्यकरीं महाश्रियं
     भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ४॥

विज्ञानसम्पत्सुखदां  महाश्रियं
     विचित्र-वाग्भूतिकरीं मनोहराम् ।
अनन्त-सौभाग्य-सुखप्रदायिनीं
     नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ५॥

समस्त-भूतान्तरसंस्थिता त्वं
     समस्त-भक्तेश्श्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्‍तवस्तु
     त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ६॥

दारिद्र्य-दुःखौघ-तमोपहन्‍त्रि त्वत्-पादपद्मं मयि सन्निधत्स्व ।
दीनार्ति-विच्छेदन-हेतुभूतैः कृपाकटाक्षैरभिषिञ्‍च मां श्रीः ॥ ७॥

विष्णु-स्तुतिपरां लक्ष्मीं स्वर्णवर्ण-स्तुति-प्रियाम्।
वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे॥८॥

अम्ब प्रसीद करुणा-परिपूर्ण-दृष्ट्या
मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणत-हृद्गत-शोकहन्‍त्रि
त्वत्पाद-पद्मयुगलं प्रणमाम्यहं श्रीः ॥ ९॥

शान्त्यै नमोऽस्तु शरणागत-रक्षणायै
     कान्त्यै नमोऽस्तु कमनीय-गुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षय-कारणायै
     धात्र्यै नमोऽस्तु धन-धान्य-समृद्धिदायै ॥ १०॥

शक्‍त्यै नमोऽस्तु शशिशेखर-संस्थितायै
     रत्यै नमोऽस्तु रजनीकर-सोदरायै ।
भक्‍त्यै नमोऽस्तु भवसागर-तारकायै
     मत्यै नमोऽस्तु मधुसूदन-वल्लभायै ॥ ११॥

लक्ष्म्यै नमोऽस्तु शुभ-लक्षण-लक्षितायै
     सिद्ध्यै नमोऽस्तु सुर-सिद्ध-सुपूजितायै ।
धृत्यै नमोऽस्तु मम दुर्गति-भञ्‍जनायै
     गत्यै नमोऽस्तु वरसद्गति-दायकायै ॥ १२॥

देव्यै नमोऽस्तु दिवि देवगणार्चितायै
     भूत्यै नमोऽस्तु भुवनार्ति-विनाशनायै ।
शान्त्यै नमोऽस्तु धरणीधर-वल्लभायै
     पुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभायै ॥ १३॥

सुतीव्र-दारिद्र्य-तमोपहन्‍त्र्यै नमोऽस्तु ते सर्व-भयापहन्‍त्र्यै ।
श्रीविष्णु-वक्षःस्थल-संस्थितायै नमो नमः सर्व-विभूति-दायै ॥ १४॥

जयतु जयतु लक्ष्मीः लक्षणालङ्कृताङ्गी
     जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णु-वामाङ्क-संस्था
     जयतु जयतु सम्यक् सर्व-सम्पत्करी श्रीः ॥ १५॥

जयतु जयतु देवी देवसङ्घाभिपूज्या
     जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या
     जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १६॥

जयतु जयतु रम्या रत्‍नगर्भान्तरस्था
     जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी
     जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ १७॥

यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्‍तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ १८॥

          ॥ मुखबीजम् ॥ ॐ-ह्रां-ह्रीं-अं-आं-यं-दुं-लं-वम्॥

लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
     त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तिकफल्स्फुटं कमलवासिनि श्रीरिमां
     समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १९॥

॥ पादबीजम् ॥ ॐ-अं-आं-ईं-एं-ऐं-कं-लं-रं॥

कलया ते यथा देवि जीवन्ति सचराचराः ।
तथा सम्पत्करी लक्ष्मि सर्वदा सम्प्रसीद मे ॥ २०॥

यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् ।
तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ २१॥

सर्वसौख्यप्रदे देवि भक्‍तानामभयप्रदे ।
अचलां कुरु यत्‍नेन कलां मयि निवेशिताम् ॥ २२॥

मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
     सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
     श्रियश्वेतद्वीपे निवसतु कला मे स्व-करयोः ॥ २३॥

॥ नेत्रबीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रें-घ्रैं-घ्रों-घ्रौं-घ्रं-घ्रः॥

तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियौ ॥ २४॥

सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
आद्यादिश्रीर्महालक्ष्मीस्त्वत्कला मयि तिष्ठतु ॥ २५॥

अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ २६॥

अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २७॥

ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलायां निधीयते ।
मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २८॥

भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ २९॥

पुनासि मां त्वत्कलयैव यस्मात्
     अतस्समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना
     मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ ३०॥

श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ ३१॥

सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
वासुदेवेन सहिता प्रसीद वरदा भव ॥ ३२॥

श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
विष्णुना सहिता देवि जगन्मातः प्रसीद मे ॥ ३३॥

क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवे ।
त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ ३४॥

रत्‍नगर्भस्थिते लक्ष्मि परिपूर्णहिरण्मयि ।
समागच्छ समागच्छ स्थित्वाशु पुरतो मम ॥ ३५॥

स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
प्रसन्नकमले देवि प्रसन्नहृदया भव ॥ ३६॥

श्रीधरे श्रीमहालक्ष्मि त्वदन्तःस्थं महानिधिम् ।
शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३७॥

वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि ।
त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ ३८॥

विष्णुप्रिये रत्‍नगर्भे समस्तफलदे शिवे ।
त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ ३९॥

रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ ४०॥

आविर्भव मनोवेगात्  शीघ्रमागच्छ मे पुरः ।
मा वत्स भैरिहेत्युक्‍त्वा कामं गौरिव रक्ष माम् ॥ ४१॥

देवि शीघ्रं ममागच्छ धरणीगर्भसंस्थिते ।
मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४२॥

उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४३॥

निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
समुन्नतानना भूत्वा सम्यग्धेहि धरातलात् ॥ ४४॥

मत्सन्निधिं समागच्छ मदाहितकृपारसा ।
प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ॥ ४५॥

अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयी ।
सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ॥ ४६॥

आनीतांस्तु त्वया देवि निधीन्मे सम्प्रदर्शय ।
अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४७॥

मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ॥ ४८॥

समागच्छ महालक्ष्मि शुद्धजाम्बूनद-स्थिते ।
प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ४९॥

लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ५०॥

क्रीडन्ती  बहुधा भूमौ परिपूर्णकृपा मयि ।
मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५१॥

फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि ।
प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५२॥

अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
विभवैर्विविधैर्युक्‍तैः समागच्छ मुदान्विते ॥ ५३॥

समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
करुणारसनिष्यन्दनेत्रद्वयविशालिनि ॥ ५४॥

सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
करुणासुधया मां त्वमभिषिच्य स्थिउरं कुरु ॥ ५५॥

सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते ।
स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाभयं कुरु ॥ ५६॥

सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय ।
सर्वराजस्थिते लक्ष्मी त्वत्कला मयि तिष्ठतु ॥ ५७॥

आद्यादि श्रीर्महालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ ५८॥

प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ॥ ५९॥

यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्र-दिवाकरौ ।
यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ ६०॥

चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने ।
तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६१॥

यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६२॥

योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६३॥

नारायणस्य हृदये भवती यथाऽऽस्ते
     नारायणोऽपि तव हृत्कमले यथाऽऽस्ते ।
नारायणस्त्वमपि नित्यविभू तथैव
     तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ ६४॥

विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ ६५॥

न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्‍ति-चिन्तामणि-कामधेनो ।
न मां त्यजेथा भव सुप्रसन्ने गृहे कलत्रेषु च पुत्रवर्गे ॥ ६६॥

॥ कुक्षिबीजम् ॥ ओं-अं-आं-ईं-एं-ऐं॥

आद्यादिमाये त्वमजाण्डबीजं त्वमेव साकार-निराकृती त्वम् ।
त्वया धृताश्चाब्‍जभवाण्डसङ्घाः ह्चित्रं चरित्रं तव देवि विष्णोः ॥ ६७॥

ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्‍नुयुः ।
महिमानं तव स्तोतुं मन्दोऽहं शक्‍नुयां कथम् ॥ ६८॥

अम्ब त्वद्वत्सवाक्यानि सूक्‍तासूक्‍तानि यानि च ।
तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ ६९॥

भवन्तं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
इति सञ्‍चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ ७०॥

अनन्ता नित्यसुखिनः त्वद्भक्‍तास्त्वत्परायणाः ।
इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ ७१॥

तव प्रतिज्ञा मद्भक्‍ता न नश्यन्तीत्यपि क्वचित् ।
इति सञ्‍चिन्त्य सञ्‍चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ ७२॥

त्वदधीनस्त्वहं मातः त्वत्कृपा मयि विद्यते ।
यावत्सम्पूर्णकामः स्यां तावद्देहि दयानिधे ॥ ७३॥

क्षणमात्रं न शक्‍नोमि जीवितुं त्वत्कृपां विना ।
न हि जीवन्ति  जलजा जलं त्यक्‍त्वा जलाश्रयाः ॥ ७४॥

यथा हि पुत्रवात्सल्यात् जननी प्रस्‍नुतस्तनी ।
वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ ७५॥

यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
दयापयोधर-स्तन्य-सुधाभिरभिषिञ्‍च माम् ॥ ७६॥

मृग्यो न गुणलेशोऽपि मयि दोषैक-मन्दिरे ।
पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ ७७॥

पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७८॥

विधिनाहं न सृष्टश्चेत् न स्यात्तव दयालुता ।
आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ ७९॥

कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ ८०॥

माता पिता त्वं गुरुः सद्गतिः श्रीः
     त्वमेव सञ्‍जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे
      त्वमेव सर्वं मम देवि सत्यम् ॥ ८१॥

॥ हृदय बीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रूं-घ्रें-घ्रों-घ्रः-हुं फट् कुरु कुरु स्वाहा॥

आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्रि ।
अज्ञानहन्‍त्री त्रिगुणातिरिक्‍ता प्रज्ञाननेत्री भव सुप्रसन्ना ॥ ८२॥

अशेषवाग्जाड्य-मलापहन्‍त्री नवं नवं सुष्टु सुवाक्यदायिनी ।
ममैव जिह्वाग्रसुरङ्गवर्तिनी भव प्रसन्ना वदने च मे श्रीः ॥ ८३॥

समस्तसम्पत्सु विराजमाना समस्ततेजस्सु विभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना ॥ ८४॥

सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदयाप्रदोग्ध्रि ।
सुवर्णदे त्वं सुमुखी भव श्रीर्हिरण्मयी मे नयने प्रसन्ना ॥ ८५॥

सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्‍त्री ।
सर्वोन्नता त्वं सुमुखी च नः श्रीर्हिरण्मयी मे भव सुप्रसन्ना ॥ ८६॥

समस्त-विघ्नौघ-विनाशकारिणी समस्त-भक्‍तोद्धरणे विचक्षणा ।
अनन्तसम्मोद-सुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ ८७॥

देवि प्रसीद दयनीयतमाय मह्यं
     देवाधिनाथ-भव-देवगणाभिवन्द्ये ।
मातस्तथैव भव सन्निहिता दृशोर्मे
     पत्या समं मम मुखे भव सुप्रसन्ना ॥ ८८॥

मा वत्स भैरभयदानकरोऽर्पितस्ते
     मौलौ ममेति मयि दीनदयानुकम्पे ।
मातः समर्पय मुदा करुणाकटाक्षं
     माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ ८९॥

॥ कण्ठबीजम् ॥ ॐ-श्रां-श्रीं-श्रूं-श्रैं-श्रौं-श्रं-श्राः॥

कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः
     करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे ।
भवेत्तव दयारसो मम रसायनं चान्वहं
     मुखं तव कलानिधिर्विविध-वाञ्छितार्थप्रदम् ॥ ९०॥

यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनानां अमङ्गलानामपि मङ्गलत्वम् ॥ ९१॥

देहीति नास्तीति वचः प्रवेशाद् भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदास्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ ९२॥

कल्पद्रुमेण मणिना सहिता सुरम्या
     श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तामतो मम च दृक्करपाणिपाद-
     स्पृष्ट्याः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ ९३॥

आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मम सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ ९४॥

आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाढयः तदन्वये श्रीः स्थिरतां प्रयाति ॥ ९५॥

यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ ९६॥

इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
जपः पञ्‍चसहस्रं तु पुरश्चरणमुच्यते ॥ ९७॥

त्रिकालं एककालं वा नरो भक्‍तिसमन्वितः ।
यः पठेत् शृणुयाद्वापि स याति परमां श्रियम् ॥ ९८॥

महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
इदं श्रीहृदयं जप्त्वा पञ्‍चवारं धनी भवेत् ॥ ९९॥

अनेन हृदयेनान्नं गर्भिण्या अभिमन्‍त्रितम् ।
ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ १००॥

नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्‍त्रिते ।
जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ १०१॥

य आश्वयुङ्मासि च शुक्लपक्षे रमोत्सवे सन्निहिते च भक्‍त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ १०२॥

य एकभक्‍त्याऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी ।
स मन्दभाग्योऽपि रमाकटाक्षात् भवेत्सहस्राक्षशताधिकश्रीः ॥ १०३॥

श्रीशाङ्घ्रिभक्‍तिं हरिदासदास्यं प्रपन्नमन्‍त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ १०४॥

पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे देवि पुनःपुनस्त्वम् ॥ १०५॥

वादार्थसिद्धिं बहुलोकवश्यं वयःस्थिरत्वं ललनासु भोगम् ।
पआत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ १०६॥

सुवर्णवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरू मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ १०७॥

॥ शिरो बीजम् ॥ ॐ-यं-हं-कं-लं- वं-श्रीम् ॥

ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
     विद्युत्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
     भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ १०८॥

॥ इति श्री‍अथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥

Post a Comment

0 Comments