Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    एकादशोऽध्यायः ।। स्त्री जातक ।।

    यद्यट्पुम्प्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्-
    माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् ।
    भर्तारं शुभगत्वमस्त भवनात्सङ्गं स्तीत्वं सुखात्
    सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं ॥ १॥
    उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ
    सुतनयपतिभूषासम्पदुत्कृष्टशीला ।
    अशुभसहितदृष्टौ चोजगौ पुंस्वभावा
    कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा ॥ २॥
    सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति-
    र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो ।
    आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत्
    क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः ॥ ३॥
    सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया
    यमारार्कांशर्क्षे मदनसदने सामयभगा ।
    सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो-
    र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता ॥ ४॥
    शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती
    विधाः सत्सम्बन्धेऽप्युदयुखयोः साध्वियतिगुणा ।
    त्रिकोणे सौम्याश्चेत्सुखसुतमम्पद्गुणवती
    बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना ॥ ५॥
    चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात्
    दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी ।
    शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता
    ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका ॥ ६॥
    स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता
    चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी ।
    मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद्
    दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता ॥ ७॥
    शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् ।
    बलाबलविकल्पेन तयोरेवं विचिन्तयेत् ॥ ८॥
    ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्
    ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः ।
    चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा
    वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना ॥ ९॥
    चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः
    पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता
    भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती
    तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे ॥ १०॥
    शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते
    जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलं ।
    दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान्
    अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते ॥ ११॥

    No comments

    Post Top Ad

    Post Bottom Ad