Header Ads

  • Breaking News

    Phaladipika. फलदीपिका ।। Astro Classes.

    Phaladipika. फलदीपिका ।। Astro Classes, Silvassa.

    नवमोऽध्यायः ।। राशिफल ।।

    वृत्तेक्षणो दुर्बलजानुरुग्रो भीरुर्जले स्याल्लघुभुक् सुकामी ।
    सञ्चारशीलश्चपलोऽनृतोक्तिव्रर्णाण्किताण्गः क्रियभे प्रजातः ॥ १॥
    पृथूरुवक्त्रः कृषिकर्मकृत्स्यान्-
    मध्यान्तसौख्यः प्रमदाप्रियश्च ।
    स्यागी क्षमी क्लेससहश्च गोमान्
    पृष्ठास्यपश्वेर्ऽण्कयुतो पृषोत्थः ॥ २॥
    श्यमेक्षणः कुञ्चितमुर्द्धजः स्त्रीक्रीडानुरक्तश्च परेण्गितज्ञः ।
    उत्तुण्गनासः प्रियगीतनृत्तो वसन् सदान्तः सदने च युग्मे ॥ ३॥
    स्त्रीनिर्जितः पीनगलः समित्रो बह्वालयस्तुण्गकटिर्धनाढ्यः ।
    ह्लस्वश्च वक्रो द्रुतगः कुलीरे मेधान्वितस्तोयरतोऽल्पपुत्रः ॥ ४॥
    पिण्गोक्षणः स्थूलहनुर्विशालवक्त्रोऽभिमानी सपराक्रमः स्यात् ।
    कुप्यत्यकार्ये वनशैलगामि मातुर्विधेयः स्थिरधीर्मृगेन्द्रे ॥ ५॥
    स्रस्तांसबाहुः परवित्तगेहैः सम्पूजते सत्यरतः प्रियोक्तिः ।
    व्रीडालसाक्षः सुरतप्रियः स्याच्छास्त्रार्थ्विच्चाल्पसुतोऽण्गनायाम् ॥ ६॥
    चलत्कृशाण्गोऽल्पसुतोऽतोभक्तो देवद्विजानामटनो द्विनामा ।
    प्रांशुश्च दक्षः क्रयविक्रयेषु धीरोऽदयस्तौलिनि मध्यवादी ॥ ७॥
    वृत्तोरुजण्ढः पृथुनेत्रवक्षा
    रोगी शिशुत्वे गुरुतातहीनः ।
    क्रूरक्रियो राजकुलाभिमुख्यः
    कीटेऽब्जरेखाण्कितपाणिपादः ॥ ८॥
    दीर्घास्यकण्ठः पृथुकर्णनासः
    कर्मोद्यतः कुब्जतनुनृपेष्टः ।
    प्रागल्भ्यवाक्त्यागयुतोऽरिहन्ता
    साम्नैकसाध्योऽश्विभवो बलाधयः ॥ ९॥
    अधः कृशः सत्त्वयुतो गृहीत-
    वाक्योऽलसोऽगम्यजराण्गनेष्टः
    धर्मध्वजो भाग्ययुतोऽटनश्च
    वातार्दितो नक्रभवो विलज्जः ॥ १०॥
    प्रच्छन्नपापो घटतुल्यदेहो
    विघातदक्षोऽध्वसहोऽल्पवित्तः ।
    लुब्धः परार्थी क्षयवृद्धियुक्तो
    घटोद्भवः स्यात्प्रियगन्धपुष्पः ॥ ११॥
    भ्रत्यम्बुपानः समचारुदेहः
    स्वदारगस्तोयजवित्तभोक्ता ।
    विद्वान्कृतज्ञोऽभिभवत्यमित्रान्
    शुबेक्षणो भाग्ययुतोऽन्त्यराशौ ॥ १२॥
    राशेः स्वभावाश्रयरूपर्वणान्
    ज्ञत्वानुरूपाणि फलानि तस्य ।
    युक्त्त्या वदेदत्र फलं विलग्ने
    यच्चन्द्रलग्नेऽपि तदेव वाच्यम् ॥ १३॥
    प्रहे सति निजोच्चगे भवति रत्नगर्भधिपो
    महीपतिकृतस्तुतिर्महितसम्पदामालयः
    उदारगुणसंयुतो जयति विक्रमार्को यथा
    नये यशसि विक्रमे वितरणे धृतौ कौशले ॥ १४॥
    स्वमिन्दरगते ग्रहे प्रभुपरिग्रहादार्यतिं
    प्रभुत्वमपि वा गृहस्थतिमचञ्चलां प्राप्नुयात् ।
    नवं भुवनमुर्वराक्षितिमुपैति काले स्वके
    जने बहुमातिं पुनः सकलनष्टवस्तून्यपि ॥ १५॥
    ग्रहः सुहृत्क्षेत्रगतः सुहृद्भिः
    कार्यस्य सिर्द्धि नवसौहृदं च ।
    सत्पुत्रजायाधनधान्यभाग्यं
    ददात्ययं सर्वजनानुकूल्यम् ॥ १६॥
    गते ग्रहे शत्रुगृहं निकृष्टतां
    परान्नवृत्ति परमन्दिरस्थितिम् ।
    अर्किचनत्वं रिपुपीडनं सदा
    स्निग्धोऽपि तस्यातिरिपुत्वमाप्नुयात् ॥ १७॥
    नीचे ग्रहेऽधः पतनं स्ववृत्तेर्दैन्यं दुराचारमृणाप्तिमाहुः ।
    नीचाश्रयं कीकटदेशवासं मृत्यत्वमध्वानमनर्थकार्यम् ॥ १८॥
    ग्रहो मौढ्यं प्राप्तो मरणमचिरात् स्त्रीसुतधनैः
    प्रहीणत्वं व्यर्थे कलहमपवादं परिभवम् ।
    समर्क्षस्थः खेतो न कलयति वैशेषिकफलं
    सुखम् वा दुःखं या जनयति यथापूर्वमचलम् ॥ १९॥
    वक्रं गतः स्वोच्चफलं विदध्या
    त्सपत्ननीचर्क्षगतोऽपि खेतः ।
    वर्गोत्तमंशस्थिखेचरोऽपि
    स्वक्षेत्रगस्योक्तफलानि तद्वत् ॥ २०॥

    No comments

    Post Top Ad

    Post Bottom Ad