Header Ads

  • Breaking News

    श्री लक्ष्मी स्तोत्रम् ।। Astro Classes.

    Shri Maha Lakxmi Hridaya Stotra.
    श्री लक्ष्मी हृदय स्तोत्रम् ।। Astro Classes, Silvassa.


           ।। श्रीगणेशाय नमः ।।
             ।। हरिः ॐ ।।

    नारायणस्य हृदये भवती यथाऽऽस्ते, नारायणोऽपि तव हृत्कमले यथास्ते ।
    नारायणस्त्वमपि नित्य विभू तथैव, तौ तिष्ठतां ममापि दयान्वितौ श्रीः ॥

    यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
    तथा मद्भवने तिष्ठ स्थिरं विष्णुना सह ॥

    योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
    तथा मद्भवने तिष्ठ  स्थिरं श्रीविष्णुना सह ॥

    लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
         त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
    तदन्तिक फलस्फुटं कमलवासिनि श्रीरिमां
         समर्पय समुद्रिकां सकलभाग्यसंसूचिकाम् ॥

     सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी।

    विलुप्तमूर्धन्यलिपिक्रमाणां सुरेन्द्रचूडापदलालितानाम् ।
    त्वदङ्घ्रिराजीवरजःकणानां भूयान् प्रसदो मयि नाथ भूयात् ॥

    मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।

    यावद् भ्रियते जठरं तावत् स्वत्त्वं हि देहिनाम् ।
    अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

    विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं हृदये कुरु श्रीः ।
    दयासुवृष्टिं  कुरुतां मयि श्रीः सुवर्णवृष्टिं कुरु मे करे श्रीः ॥

    श्रीशाङ्घ्रिभक्तिं हरिदास्यदास्यं प्रसन्नमन्त्रार्थदृढैकनिष्ठाम् ।
    गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥

    नास्था धर्मे न वसुनिचये नैव कामोपभोगे
         यद्यद्भव्यं भवतु भगवन् पूर्वकर्मानुरूपम् ।
    एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि
         त्वत्पादाम्भोरुहयुगगता निश्च्ला भक्तिरस्तु ॥

    सकलभुवनमध्ये निर्धनास्तेऽपि धन्या
         निवसति हृदि येषां श्रीहरेर्भक्तिरेका ।
    हरिरपि निजलोकं सर्वथा तं विहाय
         प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः ॥

    महत्सङ्गस्तु दुर्लभोऽगम्योऽमोघश्च ।
                       लभ्यतेऽपि तत्कृपयैव ।
    तस्मिंस्तत्जने भेदाभावात् ।
               तदेव साध्यतां, तदेव साध्यताम् ॥

    विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
    सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥

         ॥ ॐ तत्सत्॥

    अथ श्रीमहालक्ष्मीहृदयस्तोत्रम् ।।

    अस्य श्री आद्यादि श्रीमहालक्ष्मी-हृदय-स्तोत्र- महामन्त्रस्य भार्गव ऋषिः, अनुष्टुबादि नानाछन्दांसि, आद्यादि-श्रीमहालक्ष्मी सहित नारायणो देवता ॥

          । ॐ बीजं, ह्रीं शक्तिः, ऐं कीलकम् ।
    आद्यादि-श्रीमहालक्ष्मी-प्रसादसिद्ध्यर्थं जपे विनियोगः॥

    ॐ आद्यादि-श्रीमहालक्ष्मी देवतयै नमः हृदये, श्रीं बीजायै नमः गुह्ये, ह्रीं शक्त्यै नमः पादयोः, ऐं बलायै नमः मूर्धादि-पाद-पर्यन्तं विन्यसेत् ॥

    ॐ श्रीं ह्रीं ऐं करतल-करपार्श्वयोः, श्रीं अङ्गुष्ठाभ्यं नमः,
    ह्रीं तर्जनीभ्यां नमः, ऐं मध्यमाभ्यां नमः, श्रीं अनामिकाभ्यां नमः,
    ह्रीं कनिष्टिकाभ्यां नमः, ऐं करतल करपृष्ठाभ्यां नमः॥

    ॐ हृदयाय नमः, ह्रीं शिरसे स्वाहा, ऐं शिखायै  वौषट्, श्रीं कवचाय हुम्, ह्रीं नेत्राभ्यां वौषट्, भूर्भुवस्सुवरों इति दिग्बन्धः॥

                         ॥ अथ ध्यानम्॥

    हस्तद्वयेन कमले धाअरयन्तीं स्वलीलया॥

    हार-नूपुर-संयुक्तां महालक्ष्मीं विचिन्तयेत्॥

    कौशेय-पीतवसनां अरविन्दनेत्राम्
         पद्मद्वयाभय-वरोद्यत-पद्महस्ताम्।
    उद्यच्छतार्क-सदृशां परमाङ्क-संस्थां
         ध्यायेत् विधीशनत-पादयुगां जनित्रीम्॥

      ॥श्रीलक्ष्मी-कमलधारिण्यै सिंहवाहिन्यै स्वाहा॥

    पीतवस्त्रां सुवर्णाङ्गीं पद्महस्त-द्वयान्विताम्।
    लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत् पृथिवीपतिः॥

    मातुलङ्ग-गदाखेटे पाणौ पात्रञ्च बिभ्रती।
    वागलिङ्गञ्च मानञ्च बिभ्रती नृपमूर्धनि॥

                 । ओं श्रीं ह्रीं ऐं।
    वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां
         तेजोरूपां कनक-वसनां सर्वभूषोज्ज्वलाङ्गीम् ।
    बीजापूरं कनक-कलशं हेमपद्मं दधानाम्
         आद्यां शक्‍तिं सकलजननीं विष्णु-वामाङ्कसंस्थाम् ॥ १॥

    श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् ।
    सर्वकाम-फलावाप्ति-साधनैक-सुखावहाम् ॥ २॥

    स्मरामि नित्यं देवेशि त्वया प्रेरितमानसः ।
    त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ॥ ३॥

    समस्त-सम्पत्सुखदां महाश्रियं
         समस्त-कल्याणकरीं महाश्रियम् ।
    समस्त-सौभाग्यकरीं महाश्रियं
         भजाम्यहं ज्ञानकरीं महाश्रियम् ॥ ४॥

    विज्ञानसम्पत्सुखदां  महाश्रियं
         विचित्र-वाग्भूतिकरीं मनोहराम् ।
    अनन्त-सौभाग्य-सुखप्रदायिनीं
         नमाम्यहं भूतिकरीं हरिप्रियाम् ॥ ५॥

    समस्त-भूतान्तरसंस्थिता त्वं
         समस्त-भक्तेश्श्वरि विश्वरूपे ।
    तन्नास्ति यत्त्वद्व्यतिरिक्‍तवस्तु
         त्वत्पादपद्मं प्रणमाम्यहं श्रीः ॥ ६॥

    दारिद्र्य-दुःखौघ-तमोपहन्‍त्रि त्वत्-पादपद्मं मयि सन्निधत्स्व ।
    दीनार्ति-विच्छेदन-हेतुभूतैः कृपाकटाक्षैरभिषिञ्‍च मां श्रीः ॥ ७॥

    विष्णु-स्तुतिपरां लक्ष्मीं स्वर्णवर्ण-स्तुति-प्रियाम्।
    वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे॥८॥

    अम्ब प्रसीद करुणा-परिपूर्ण-दृष्ट्या
    मां त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
    आलोकय प्रणत-हृद्गत-शोकहन्‍त्रि
    त्वत्पाद-पद्मयुगलं प्रणमाम्यहं श्रीः ॥ ९॥

    शान्त्यै नमोऽस्तु शरणागत-रक्षणायै
         कान्त्यै नमोऽस्तु कमनीय-गुणाश्रयायै ।
    क्षान्त्यै नमोऽस्तु दुरितक्षय-कारणायै
         धात्र्यै नमोऽस्तु धन-धान्य-समृद्धिदायै ॥ १०॥

    शक्‍त्यै नमोऽस्तु शशिशेखर-संस्थितायै
         रत्यै नमोऽस्तु रजनीकर-सोदरायै ।
    भक्‍त्यै नमोऽस्तु भवसागर-तारकायै
         मत्यै नमोऽस्तु मधुसूदन-वल्लभायै ॥ ११॥

    लक्ष्म्यै नमोऽस्तु शुभ-लक्षण-लक्षितायै
         सिद्ध्यै नमोऽस्तु सुर-सिद्ध-सुपूजितायै ।
    धृत्यै नमोऽस्तु मम दुर्गति-भञ्‍जनायै
         गत्यै नमोऽस्तु वरसद्गति-दायकायै ॥ १२॥

    देव्यै नमोऽस्तु दिवि देवगणार्चितायै
         भूत्यै नमोऽस्तु भुवनार्ति-विनाशनायै ।
    शान्त्यै नमोऽस्तु धरणीधर-वल्लभायै
         पुष्ट्यै नमोऽस्तु पुरुषोत्तम-वल्लभायै ॥ १३॥

    सुतीव्र-दारिद्र्य-तमोपहन्‍त्र्यै नमोऽस्तु ते सर्व-भयापहन्‍त्र्यै ।
    श्रीविष्णु-वक्षःस्थल-संस्थितायै नमो नमः सर्व-विभूति-दायै ॥ १४॥

    जयतु जयतु लक्ष्मीः लक्षणालङ्कृताङ्गी
         जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
    जयतु जयतु विद्या विष्णु-वामाङ्क-संस्था
         जयतु जयतु सम्यक् सर्व-सम्पत्करी श्रीः ॥ १५॥

    जयतु जयतु देवी देवसङ्घाभिपूज्या
         जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
    जयतु जयतु नित्या निर्मलज्ञानवेद्या
         जयतु जयतु सत्या सर्वभूतान्तरस्था ॥ १६॥

    जयतु जयतु रम्या रत्‍नगर्भान्तरस्था
         जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
    जयतु जयतु कान्ता कान्तिमद्भासिताङ्गी
         जयतु जयतु शान्ता शीघ्रमागच्छ सौम्ये ॥ १७॥

    यस्याः कलायाः कमलोद्भवाद्या रुद्राश्च शक्रप्रमुखाश्च देवाः ।
    जीवन्ति सर्वेऽपि सशक्‍तयस्ते प्रभुत्वमाप्ताः परमायुषस्ते ॥ १८॥

              ॥ मुखबीजम् ॥ ॐ-ह्रां-ह्रीं-अं-आं-यं-दुं-लं-वम्॥

    लिलेख निटिले विधिर्मम लिपिं विसृज्यान्तरं
         त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
    तदन्तिकफल्स्फुटं कमलवासिनि श्रीरिमां
         समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ॥ १९॥

    ॥ पादबीजम् ॥ ॐ-अं-आं-ईं-एं-ऐं-कं-लं-रं॥

    कलया ते यथा देवि जीवन्ति सचराचराः ।
    तथा सम्पत्करी लक्ष्मि सर्वदा सम्प्रसीद मे ॥ २०॥

    यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् ।
    तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ॥ २१॥

    सर्वसौख्यप्रदे देवि भक्‍तानामभयप्रदे ।
    अचलां कुरु यत्‍नेन कलां मयि निवेशिताम् ॥ २२॥

    मुदास्तां मत्फाले परमपदलक्ष्मीः स्फुटकला
         सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
    वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला
         श्रियश्वेतद्वीपे निवसतु कला मे स्व-करयोः ॥ २३॥

    ॥ नेत्रबीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रें-घ्रैं-घ्रों-घ्रौं-घ्रं-घ्रः॥

    तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् ।
    सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियौ ॥ २४॥

    सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता ।
    आद्यादिश्रीर्महालक्ष्मीस्त्वत्कला मयि तिष्ठतु ॥ २५॥

    अज्ञानतिमिरं हन्तुं शुद्धज्ञानप्रकाशिका ।
    सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ॥ २६॥

    अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा ।
    वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ॥ २७॥

    ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलायां निधीयते ।
    मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ॥ २८॥

    भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि ।
    त्वत्प्रसादात्पवित्रोऽहं लोकमातर्नमोऽस्तु ते ॥ २९॥

    पुनासि मां त्वत्कलयैव यस्मात्
         अतस्समागच्छ ममाग्रतस्त्वम् ।
    परं पदं श्रीर्भव सुप्रसन्ना
         मय्यच्युतेन प्रविशादिलक्ष्मीः ॥ ३०॥

    श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः ।
    नारायणेन सह मां कृपादृष्ट्याऽवलोकय ॥ ३१॥

    सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् ।
    वासुदेवेन सहिता प्रसीद वरदा भव ॥ ३२॥

    श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते ।
    विष्णुना सहिता देवि जगन्मातः प्रसीद मे ॥ ३३॥

    क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवे ।
    त्वत्कृपादृष्टिसुधया सततं मां विलोकय ॥ ३४॥

    रत्‍नगर्भस्थिते लक्ष्मि परिपूर्णहिरण्मयि ।
    समागच्छ समागच्छ स्थित्वाशु पुरतो मम ॥ ३५॥

    स्थिरा भव महालक्ष्मि निश्चला भव निर्मले ।
    प्रसन्नकमले देवि प्रसन्नहृदया भव ॥ ३६॥

    श्रीधरे श्रीमहालक्ष्मि त्वदन्तःस्थं महानिधिम् ।
    शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ॥ ३७॥

    वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि ।
    त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ॥ ३८॥

    विष्णुप्रिये रत्‍नगर्भे समस्तफलदे शिवे ।
    त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ॥ ३९॥

    रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः ।
    न जाने परमं रूपं मातर्मे सम्प्रदर्शय ॥ ४०॥

    आविर्भव मनोवेगात्  शीघ्रमागच्छ मे पुरः ।
    मा वत्स भैरिहेत्युक्‍त्वा कामं गौरिव रक्ष माम् ॥ ४१॥

    देवि शीघ्रं ममागच्छ धरणीगर्भसंस्थिते ।
    मातस्त्वद्भृत्यभृत्योऽहं मृगये त्वां कुतूहलात् ॥ ४२॥

    उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि ।
    अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ॥ ४३॥

    निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः ।
    समुन्नतानना भूत्वा सम्यग्धेहि धरातलात् ॥ ४४॥

    मत्सन्निधिं समागच्छ मदाहितकृपारसा ।
    प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ॥ ४५॥

    अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयी ।
    सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ॥ ४६॥

    आनीतांस्तु त्वया देवि निधीन्मे सम्प्रदर्शय ।
    अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ॥ ४७॥

    मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि ।
    अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ॥ ४८॥

    समागच्छ महालक्ष्मि शुद्धजाम्बूनद-स्थिते ।
    प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ॥ ४९॥

    लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्मयी ।
    तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ॥ ५०॥

    क्रीडन्ती  बहुधा भूमौ परिपूर्णकृपा मयि ।
    मम मूर्धनि ते हस्तमविलम्बितमर्पय ॥ ५१॥

    फलद्भाग्योदये लक्ष्मि समस्तपुरवासिनि ।
    प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ॥ ५२॥

    अयोध्यादिषु सर्वेषु नगरेषु समास्थिते ।
    विभवैर्विविधैर्युक्‍तैः समागच्छ मुदान्विते ॥ ५३॥

    समागच्छ समागच्छ ममाग्रे भव सुस्थिरा ।
    करुणारसनिष्यन्दनेत्रद्वयविशालिनि ॥ ५४॥

    सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके ।
    करुणासुधया मां त्वमभिषिच्य स्थिउरं कुरु ॥ ५५॥

    सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते ।
    स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाभयं कुरु ॥ ५६॥

    सादरं मस्तके हस्तं मम त्वं कृपयाऽर्पय ।
    सर्वराजस्थिते लक्ष्मी त्वत्कला मयि तिष्ठतु ॥ ५७॥

    आद्यादि श्रीर्महालक्ष्मि विष्णुवामाङ्कसंस्थिते ।
    प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ॥ ५८॥

    प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे ।
    अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ॥ ५९॥

    यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्र-दिवाकरौ ।
    यावद्विष्णुश्च यावत्त्वं तावत्कुरु कृपां मयि ॥ ६०॥

    चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने ।
    तथा दया ते मय्येव वर्धतामभिवर्धताम् ॥ ६१॥

    यथा वैकुण्ठनगरे यथा वै क्षीरसागरे ।
    तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६२॥

    योगिनां हृदये नित्यं यथा तिष्ठसि विष्णुना ।
    तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ॥ ६३॥

    नारायणस्य हृदये भवती यथाऽऽस्ते
         नारायणोऽपि तव हृत्कमले यथाऽऽस्ते ।
    नारायणस्त्वमपि नित्यविभू तथैव
         तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ॥ ६४॥

    विज्ञानवृद्धिं हृदये कुरु श्रीः सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
    दयासुवृद्धिं कुरुतां मयि श्रीः सुवर्णवृद्धिं कुरु मे गृहे श्रीः ॥ ६५॥

    न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्‍ति-चिन्तामणि-कामधेनो ।
    न मां त्यजेथा भव सुप्रसन्ने गृहे कलत्रेषु च पुत्रवर्गे ॥ ६६॥

    ॥ कुक्षिबीजम् ॥ ओं-अं-आं-ईं-एं-ऐं॥

    आद्यादिमाये त्वमजाण्डबीजं त्वमेव साकार-निराकृती त्वम् ।
    त्वया धृताश्चाब्‍जभवाण्डसङ्घाः ह्चित्रं चरित्रं तव देवि विष्णोः ॥ ६७॥

    ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्‍नुयुः ।
    महिमानं तव स्तोतुं मन्दोऽहं शक्‍नुयां कथम् ॥ ६८॥

    अम्ब त्वद्वत्सवाक्यानि सूक्‍तासूक्‍तानि यानि च ।
    तानि स्वीकुरु सर्वज्ञे दयालुत्वेन सादरम् ॥ ६९॥

    भवन्तं शरणं गत्वा कृतार्थाः स्युः पुरातनाः ।
    इति सञ्‍चिन्त्य मनसा त्वामहं शरणं व्रजे ॥ ७०॥

    अनन्ता नित्यसुखिनः त्वद्भक्‍तास्त्वत्परायणाः ।
    इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ॥ ७१॥

    तव प्रतिज्ञा मद्भक्‍ता न नश्यन्तीत्यपि क्वचित् ।
    इति सञ्‍चिन्त्य सञ्‍चिन्त्य प्राणान् सन्धारयाम्यहम् ॥ ७२॥

    त्वदधीनस्त्वहं मातः त्वत्कृपा मयि विद्यते ।
    यावत्सम्पूर्णकामः स्यां तावद्देहि दयानिधे ॥ ७३॥

    क्षणमात्रं न शक्‍नोमि जीवितुं त्वत्कृपां विना ।
    न हि जीवन्ति  जलजा जलं त्यक्‍त्वा जलाश्रयाः ॥ ७४॥

    यथा हि पुत्रवात्सल्यात् जननी प्रस्‍नुतस्तनी ।
    वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ॥ ७५॥

    यदि स्यां तव पुत्रोऽहं माता त्वं यदि मामकी ।
    दयापयोधर-स्तन्य-सुधाभिरभिषिञ्‍च माम् ॥ ७६॥

    मृग्यो न गुणलेशोऽपि मयि दोषैक-मन्दिरे ।
    पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ॥ ७७॥

    पापिनामहमेकाग्रो दयालूनां त्वमग्रणीः ।
    दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥ ७८॥

    विधिनाहं न सृष्टश्चेत् न स्यात्तव दयालुता ।
    आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ॥ ७९॥

    कृपा मदग्रजा किं ते अहं किं वा तदग्रजः ।
    विचार्य देहि मे वित्तं तव देवि दयानिधे ॥ ८०॥

    माता पिता त्वं गुरुः सद्गतिः श्रीः
         त्वमेव सञ्‍जीवनहेतुभूता ।
    अन्यं न मन्ये जगदेकनाथे
          त्वमेव सर्वं मम देवि सत्यम् ॥ ८१॥

    ॥ हृदय बीजम् ॥ ॐ-घ्रां-घ्रीं-घ्रूं-घ्रें-घ्रों-घ्रः-हुं फट् कुरु कुरु स्वाहा॥

    आद्यादिलक्ष्मीर्भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्रि ।
    अज्ञानहन्‍त्री त्रिगुणातिरिक्‍ता प्रज्ञाननेत्री भव सुप्रसन्ना ॥ ८२॥

    अशेषवाग्जाड्य-मलापहन्‍त्री नवं नवं सुष्टु सुवाक्यदायिनी ।
    ममैव जिह्वाग्रसुरङ्गवर्तिनी भव प्रसन्ना वदने च मे श्रीः ॥ ८३॥

    समस्तसम्पत्सु विराजमाना समस्ततेजस्सु विभासमाना ।
    विष्णुप्रिये त्वं भव दीप्यमाना वाग्देवता मे नयने प्रसन्ना ॥ ८४॥

    सर्वप्रदर्शे सकलार्थदे त्वं प्रभासुलावण्यदयाप्रदोग्ध्रि ।
    सुवर्णदे त्वं सुमुखी भव श्रीर्हिरण्मयी मे नयने प्रसन्ना ॥ ८५॥

    सर्वार्थदा सर्वजगत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्‍त्री ।
    सर्वोन्नता त्वं सुमुखी च नः श्रीर्हिरण्मयी मे भव सुप्रसन्ना ॥ ८६॥

    समस्त-विघ्नौघ-विनाशकारिणी समस्त-भक्‍तोद्धरणे विचक्षणा ।
    अनन्तसम्मोद-सुखप्रदायिनी हिरण्मयी मे नयने प्रसन्ना ॥ ८७॥

    देवि प्रसीद दयनीयतमाय मह्यं
         देवाधिनाथ-भव-देवगणाभिवन्द्ये ।
    मातस्तथैव भव सन्निहिता दृशोर्मे
         पत्या समं मम मुखे भव सुप्रसन्ना ॥ ८८॥

    मा वत्स भैरभयदानकरोऽर्पितस्ते
         मौलौ ममेति मयि दीनदयानुकम्पे ।
    मातः समर्पय मुदा करुणाकटाक्षं
         माङ्गल्यबीजमिह नः सृज जन्म मातः ॥ ८९॥

    ॥ कण्ठबीजम् ॥ ॐ-श्रां-श्रीं-श्रूं-श्रैं-श्रौं-श्रं-श्राः॥

    कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः
         करः सुरतरुः सदा नवनिधिस्त्वमेवेन्दिरे ।
    भवेत्तव दयारसो मम रसायनं चान्वहं
         मुखं तव कलानिधिर्विविध-वाञ्छितार्थप्रदम् ॥ ९०॥

    यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता स्यात्कमले तथा ते ।
    कटाक्षसंस्पर्शनतो जनानां अमङ्गलानामपि मङ्गलत्वम् ॥ ९१॥

    देहीति नास्तीति वचः प्रवेशाद् भीतो रमे त्वां शरणं प्रपद्ये ।
    अतः सदास्मिन्नभयप्रदा त्वं सहैव पत्या मयि सन्निधेहि ॥ ९२॥

    कल्पद्रुमेण मणिना सहिता सुरम्या
         श्रीस्ते कला मयि रसेन रसायनेन ।
    आस्तामतो मम च दृक्करपाणिपाद-
         स्पृष्ट्याः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ॥ ९३॥

    आद्यादिविष्णोः स्थिरधर्मपत्नी त्वमेव पत्या मम सन्निधेहि ।
    आद्यादिलक्ष्मि त्वदनुग्रहेण पदे पदे मे निधिदर्शनं स्यात् ॥ ९४॥

    आद्यादिलक्ष्मीहृदयं पठेद्यः स राज्यलक्ष्मीमचलां तनोति ।
    महादरिद्रोऽपि भवेद्धनाढयः तदन्वये श्रीः स्थिरतां प्रयाति ॥ ९५॥

    यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा ।
    तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ॥ ९६॥

    इदं रहस्यं हृदयं सर्वकामफलप्रदम् ।
    जपः पञ्‍चसहस्रं तु पुरश्चरणमुच्यते ॥ ९७॥

    त्रिकालं एककालं वा नरो भक्‍तिसमन्वितः ।
    यः पठेत् शृणुयाद्वापि स याति परमां श्रियम् ॥ ९८॥

    महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे ।
    इदं श्रीहृदयं जप्त्वा पञ्‍चवारं धनी भवेत् ॥ ९९॥

    अनेन हृदयेनान्नं गर्भिण्या अभिमन्‍त्रितम् ।
    ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ॥ १००॥

    नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्‍त्रिते ।
    जले पीते च तद्वंशे मन्दभाग्यो न जायते ॥ १०१॥

    य आश्वयुङ्मासि च शुक्लपक्षे रमोत्सवे सन्निहिते च भक्‍त्या ।
    पठेत्तथैकोत्तरवारवृद्ध्या लभेत्स सौवर्णमयीं सुवृष्टिम् ॥ १०२॥

    य एकभक्‍त्याऽन्वहमेकवर्षं विशुद्धधीः सप्ततिवारजापी ।
    स मन्दभाग्योऽपि रमाकटाक्षात् भवेत्सहस्राक्षशताधिकश्रीः ॥ १०३॥

    श्रीशाङ्घ्रिभक्‍तिं हरिदासदास्यं प्रपन्नमन्‍त्रार्थदृढैकनिष्ठाम् ।
    गुरोः स्मृतिं निर्मलबोधबुद्धिं प्रदेहि मातः परमं पदं श्रीः ॥ १०४॥

    पृथ्वीपतित्वं पुरुषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
    सम्पूर्णकीर्तिं बहुवर्षभोगं प्रदेहि मे देवि पुनःपुनस्त्वम् ॥ १०५॥

    वादार्थसिद्धिं बहुलोकवश्यं वयःस्थिरत्वं ललनासु भोगम् ।
    पआत्रादिलब्धिं सकलार्थसिद्धिं प्रदेहि मे भार्गवि जन्मजन्मनि ॥ १०६॥

    सुवर्णवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरू मे गृहे श्रीः ।
    कल्याणवृद्धिं कुरु मे गृहे श्रीः विभूतिवृद्धिं कुरु मे गृहे श्रीः ॥ १०७॥

    ॥ शिरो बीजम् ॥ ॐ-यं-हं-कं-लं- वं-श्रीम् ॥

    ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां
         विद्युत्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
    बीजापूरं सरसिजयुगं बिभ्रतीं स्वर्णपात्रं
         भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ॥ १०८॥

    ॥ इति श्री‍अथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad