वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ अरिष्टभण्गाध्यायः ॥ ८॥
सर्वानिमानतिबलः स्फुरदंशुजालो
लग्नस्थितः प्रशमयेत्सुरराजमन्त्री ।
एको बहूनि दुरितानि सुदुस्तराणि
भक्त्या प्रयुक्त इव शूलधरप्रणामः ॥ १॥
लग्नाधिपोऽतिबलवानशुभैरदृष्टः
केन्द्रस्थितैः शुभखगैरवलोक्यमानः ।
मृत्युं विधूय विदधाति शुदीर्घमायुः
सार्द्धं गुणैर्बहुभिरूर्जितया च अक्ष्म्या ॥ २॥
लग्नादष्टमवर्त्यपि बुधगुरुभार्गवदृकाणगश्चन्द्रः ।
मृत्युं प्राप्तमपि नरं परिरक्षत्येव निर्व्याजम् ॥ ३॥
चन्द्रः सपूर्णतनुः सौम्यर्क्षगतः स्थितः शुभस्यान्तः ।
प्रकरोति रिष्टभङ्गं विशेषतः शुक्रसन्दृष्टः ॥ ४॥
बुधभार्गवजीवानामेकतमः केन्द्रमागतो बलवान् ।
क्रूरसहायो यद्यपि सद्यो रिष्टस्य भङ्गाय ॥ ५॥
रिपुभवनगतोऽपि शशीगुरुसितचन्द्रात्मजदृकाणस्थः ।
गुरुड इव भोगिदष्टं परिरक्षत्येव निर्व्याजम् ॥ ६॥
सौम्यद्व्यमध्यगतः सम्पूर्णः स्निग्धमण्डलः शशभृत् ।
निःशेषरिष्टहन्ता भुजङ्गलोकस्य गरुड इव ॥ ७॥
शशभृति पूर्णशरीरे शुक्ले पक्षे निशाभवे काले ।
रिपुनिधनस्थे रिष्टं प्रभवति नैवात्र जातस्य ॥ ८॥
प्रस्फुरितकिरणजाले स्निग्धामलमण्डले बलोपेते ।
सुरमन्त्रिणी केन्द्रगते सर्वारिष्टं शमं याति ॥ ९॥
सौम्यभवनोपयाताः सौम्यांशकगाः सौम्यदृक्काणस्थ्हाः ।
गुरुचन्द्रकाब्यशशिजाः सर्वेऽरिष्टस्य हन्तारः ॥ १०॥
चन्द्राध्यासितरशेरधिपः लेन्द्रे शुभग्रहो वापि ।
प्रशमयति रिष्टयोगं पापानि यथा हरिस्मरणम् ॥ ११॥
पापा यदि शुभ्वर्गे सौम्यैर्दृष्टाः शुभेशवर्गस्थैः ।
निघ्नन्ति तदा पार्तिं विरक्ता यथा युवतिः ॥ १२॥
राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षितः सद्यः ।
नाशयति सर्वदुरितं मरुत इव तूलसङ्घातम् ॥ १३॥
शीर्षोदयेषु राशिषु सर्वे गगनाधिवासिनः सूतौ ।
प्रकृतिस्थञ्चारिष्टं विलीयते धृतमिवाग्निस्थम् ॥ १४॥
तत्काले यदि विजयी शुभग्रहः शुभनिरीक्षितोऽवश्यम् ।
नाशयति यर्वारिष्टं मारुत इब पादपान् प्रबलः ॥ १५॥
पक्षे सिते भवति जन्म यदि क्षपायां
कृष्णे तथाऽह्नि शुभाशुभद्ऱ्६इश्यमानः ।
तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना-
दापत्सु रक्षति पितेव शिर्शु न हन्ति ॥ १६॥
॥ इति लघुजातके अरिष्टमभङ्गाध्यायोऽष्टमः ॥

No comments