वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.
Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes, Silvassa.
edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983
अथ लघुजातकम् । अथ अरिष्टाध्यायः ॥ ७॥
षष्टेऽष्टमेऽपि चन्द्रः सद्यो मरणाय पापसन्दृष्टः ।
अष्टाभिः शुभदृष्टो वर्षैर्मश्रिस्तदर्धेन ॥ १॥
शशिवत्सौम्याः पापैर्वक्रिभिरवलोकिता न शुभदृष्टाः ।
मासेन मरणदाः स्युः पापजितो लग्नपश्चास्ते ॥ २॥
राश्यन्तस्थैः पापैः सन्ध्यायां हिममयूखहोरायाम् ।
मृत्युः प्रत्येलस्थैः केन्द्रेषु शशाङ्कपापैश्च ॥ ३॥
चक्रपाक्पश्चार्द्धे पापशुभैः कीटभोदये मृत्युः ।
निधनचतुष्टयगैर्वा क्रूरेः क्षीणे शशिन्युदये ॥ ४॥
सप्ताष्टान्त्योदयगे शशिनि सपापे शुभेक्षणवियुक्ते ।
न च कण्टकेऽस्ति कश्चिच्छुभस्रदा मृत्युरादेश्यः ॥ ५॥
क्षीणेन्दौ द्वदशगे लग्नाष्टम्राशिसंस्थितैः पापैः ।
सौम्यरहिते च केन्द्रे सद्यो मृत्युर्विनिर्देश्यः ॥ ६॥
चतुरस्रे सप्तमगः पापान्तस्थः शशी मरणदाता ।
उदयगतो वा चन्द्रः सप्तमराशिस्थितैः पापैः ॥ ७॥
सोपप्लवे शशाङ्के सक्रूरे लग्नगे कुजेऽष्टमगे ।
मृत्युर्मात्रा सार्द्ध चन्द्रवदर्के च शस्त्रेण ॥ ८॥
लग्न-द्वादश-नवमाऽष्टमसंस्थैश्चन्द्र-सौरि-सूर्य।आरैः ।
जातस्य भवति मरणं यदि न बलयुतः पतिर्वचसाम् ॥ ९॥
सुतमदननवान्त्पलग्नरन्ध्रेष्वशुभयुतो मरणाय शीतरश्मिः ।
भृगुसुतशशिपुत्रदेवपूज्यैर्य्र्यदि बलिभिर्न युतोऽवलोकितो वा ॥ १०॥
योगे स्थानं गतवति बलिनश्चन्द्रे स्वं वा तनुगृहमथवा ।
पापैर्दृष्टे बलवति मरणं वर्षस्यान्तः किल मुनिगदितम् ॥ ११॥
॥ इति लघुजातके अरिष्टाध्यायः सप्तमः ॥

No comments