वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ आयुर्दयाध्यायः ॥ ९॥

राश्यंशकला गुणिता द्वादशनवभिर्ग्रहस्य भगणेभ्यः ।
द्वादसहृतावशेषेऽब्दमासदिननाडिकाः कपशः (कृपशः) ॥ १॥

होरादायोऽप्येवं बलयुक्ताऽन्यानि राशितुल्यानि ।
वर्षाणि सम्प्रयच्छत्यनुपाताच्चांशकादिफलम् ॥ २॥

वर्गोत्तमस्वराशिद्रेष्काणनवांशके सकृद्द्विगुणम् ।
वक्रोच्चयोस्त्रिगुणितं द्वित्रिगुणत्वे सकृत्रिगुणम् ॥ ३॥

त्रंशमवक्रो रिपुभे नीचेऽर्घ सूर्यलुप्तकिरणश्च ।
क्षपयति स्वायुर्दायान्नास्तं यातौ राविजशुक्रौ ॥ ४॥

सर्वार्धत्रिचतुर्थेन्द्रियर्तुभागान् व्ययाद्धरन्त्यशुभाः ।
सन्तोऽर्धमतो वामं बलवानेकर्क्षगेष्वेकः ॥ ५॥

इति लघुजातके आयुर्दायाध्यायः नवमः ॥

Post a Comment

0 Comments