वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ राशिशीलनिरुपणम् ॥ १२॥

अस्थिरविभूतिशित्रं चलनमटनं स्खलितनियममपि चरभे ।
स्थिरभे तद्विपरीतं क्षमान्वितं दीर्घसूत्रं (दीर्घसून्नं) च ॥ १॥

द्विशरीरे त्यागयुतं कृतज्ञमुत्साहितं विविधचेष्टम् ।
ग्राम्यारण्यजलोद्भवराशिषु विद्याच्च तच्छीलान् ॥ २॥

क्षेत्राधिपसन्दृष्टे शशिनि नृपस्तत्सुहृद्भिरापि धनवान् ।
द्रेष्काणांशपैर्वा प्रायः सीम्यैः शुभं नान्यैः ॥ ३॥

पुष्णन्ति शुभा भावान्मूयार्दीन् घ्नन्ति संस्थिताः पापाः ।
सौम्याः षष्ठेऽरिष्णाः सर्वेऽरिष्टा व्ययाष्टमगाः ॥ ४॥

कर्कवृषाजोपगते चन्द्रे लग्ने धनी सुरूपश्च ।
विकलाङ्गजडरिद्राः शेषेषु विशेषतः कृष्णे ॥ ५॥

विकलेक्षनोऽर्कलग्ने तैमिरिकोऽजे स्वभे तु राव्यन्घः ।
बुद्बुद्दृष्टः कर्किणि काणो व्ययगे शशाङ्के वा ॥ ६॥

इष्टं पादविवृद्ध्या मित्रस्वगृहत्रिकोणतुङ्गंषु ।
रिपुभेऽल्पं फलमर्कोपगतस्य पापं शुभं नैव ॥ ७॥

इति राशिशीलनिरूपणम् ।।

Post a Comment

0 Comments