Header Ads

  • Breaking News

    वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

    Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

    edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

    अथ लघुजातकम् । आश्रययोग निरूपणम् ॥ १४॥

    तस्करभोक्तृविचक्षणधनिनृपतिनपुंसका।भयदरिद्राः ।
    ख(स्व)लपापोग्नोकृष्टा मेषादीनां नवांशभवा ॥ १॥

    कुलतुल्यकुलाधिकबन्धुमान्यधिनभोगिनृपसमनरेन्द्राः ।
    स्वर्क्षगतैकविवृद्धया किञ्चिन्न्युनाः सुहृद्गृहगैः ॥ २॥

    त्रिप्रभृतिभरुच्चस्थैर्नृपवंशभवा भवन्ति राजानः ।
    पञ्चादिभिरन्यकुलोद्भवाश्च तद्वत्त्रिकोणगतैः ॥ ३॥

    निर्धनदुःखितमूढव्याधितबन्धाभितप्तवधभाजः ।
    एकोत्तरपरिवृद्ध्या नीचगतैः शत्रुगृघगैर्वा ॥ ४॥

    एकोऽपि नृपतिजन्मप्रदो ग्रहः स्वोच्चगः सुहृद्दृष्टः ।
    बलिभिः केन्द्रोपगतैस्त्रिप्रभृतिभिरवनिपालभवः ॥ ५॥

    वर्गोत्तमगे चन्द्रे चतुराद्यैर्वीक्षिते विलग्ने वा ।
    नृपजन्म भवति राज्यं नृपयोगे बलयुतदशायाम् ॥ ६॥

    उडुपतियोगसमागमभशीलसदर्शनानि भावाश्च ।
    आश्रयराज्यप्रभावाश्चाध्यायेऽस्मिन् क्रमेणोक्ताः ॥ ७॥

    इति लघुजातके प्रकीर्णाध्यायः द्वादशः ।।

    No comments

    Post Top Ad

    Post Bottom Ad