वराहमिहिराचार्यस्य लघुजातकम् ।। Astro Classes.

Laghu Jatakam. वराहमिहिराचार्यस्य लघुजातकम्  ।। Astro Classes, Silvassa.

edition: KRISHNADAS ACADEMY, VARANASI-221001, 1983

अथ लघुजातकम् । अथ प्रकीर्णाध्यायः ॥ १२॥

राविवर्ज्यं द्वादश्गैरनफा चन्द्राद्द्वितीयगैः सुनफा ।
उभयस्थितैर्दुरुधरा केमद्रुमसंज्ञकोऽतोऽन्यः ॥ १॥

सच्छिलं विषयसुखान्वितं प्रभु ख्यातियुक्तमनफायाम् ।
सुनफयां धीधनकिर्तितयुक्तशात्मार्जितैश्वर्याम् ॥ २॥

बहुभृत्यकुटुम्बारम्भं सुखभोगान्वितं च दौर्धरिके ।
भृतकं दुखितमधनं जात केमद्रुमे विद्यात् ॥ ३॥

भौमः शूरश्चण्डो महाधनो ज्ञानवान् बुधो निपुणः ।
ऋद्धः शुक्रः सुखितो गुरुर्गुणाढ्यो नृपतिपूज्यः ॥ ४॥

बह्वारम्भः सौरिर्बहुभृत्यः पूजितो गुणैर्विद्धः
एषां गुणैः समगुणा ज्ञेया योगोद्भवाः पुरुषाः ॥ ५॥

सूर्याद्द्वितीयमृक्षं विशेस्थानं प्रकीर्तितं यवनैः ।
तच्चेष्टग्रहयुक्तं जन्मनि चेष्टासु च विलग्नम् ॥ ६॥

यन्त्रज्ञं पापरतं निपुणं क्रूरं च शस्त्रवृत्तिं च ।
धातुज्ञं च क्रमशश्चन्द्रादिभिरन्वितः सूर्यः ॥ ७॥

चन्द्रोऽङ्गारकपूर्वैः कूटज्ञं प्रश्रितं कुलाभ्यधिकम् ।
वस्त्रव्यवहारज्ञं क्रमेण पौनर्भवं चापि ॥ ८॥

मल्लो रक्षोऽन्यस्त्रीसक्तो दुःखान्वितः कुजो ज्ञाद्यैः ।
ज्ञौ जीवाद्यैर्गीतज्ञं वाग्मिनं महेन्द्रजालज्ञम् ॥ ९॥

जीवः सितेन बहुगुणमसितेन समन्वितोऽत्र घटकारम् ।
स्त्रीस्वं मन्देन सितस्त्रिभिरप्येवं फलानि वदेत् ॥ १०॥

चतुरादिभिरेकस्यैः प्रव्रज्यां स्वां ग्रहः करोति बली ।
बहुवीर्यैस्ताव्त्यः प्रथमा वीर्याधिकस्यैव ॥ ११॥

तापसवृद्धश्रावकर्क्तवटाजीविभिक्षुचरकाणाम् ।
निर्ग्रन्थानां चार्कात् पराजितैः प्रच्युतिर्बलिभिः ॥ १२॥

दिनकरलुप्तमयूर्खैरवीक्षिता भक्तिवादिनतेषाम् ।
याचितदीक्षा बलिभिः पराजितैरन्यडृष्टैर्वा ॥ १३

इति प्रव्रज्यायोगविचारः ।।

Post a Comment

0 Comments