Header Ads

  • Breaking News

    अथ श्री दुर्गा सप्तशती ।। एकादशोऽध्यायः ।। Durga Saptashati Adhyaya-11.

    अथ श्री दुर्गा सप्तशती ।। एकादशोऽध्यायः ।। 

    Durga Saptashati Adhyaya-11.

    ॐ ऋषिरुवाच ॥ १॥

    देव्या हते तत्र महासुरेन्द्रे
            सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
    कात्यायनीं तुष्टुवुरिष्टलाभाद्
          विकाशिवक्त्राब्जविकाशिताशाः ॥ २॥

    देवि प्रपन्नार्तिहरे प्रसीद
            प्रसीद मातर्जगतोऽखिलस्य ।
    प्रसीद विश्वेश्वरि पाहि विश्वं
            त्वमीश्वरी देवि चराचरस्य ॥ ३॥

    आधारभूता जगतस्त्वमेका
            महीस्वरूपेण यतः स्थितासि ।
    अपां स्वरूपस्थितया त्वयैत-
          दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ॥ ४॥

    त्वं वैष्णवीशक्तिरनन्तवीर्या
          विश्वस्य बीजं परमासि माया ।
    सम्मोहितं देवि समस्तमेतत्
          त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ५॥

    विद्याः समस्तास्तव देवि भेदाः
            स्त्रियः समस्ताः सकला जगत्सु ।
    त्वयैकया पूरितमम्बयैतत्
            का ते स्तुतिः स्तव्यपरापरोक्तिः ॥ ६॥

    सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
    त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ७॥

    सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
    स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ८॥

    कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
    विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ९॥

    सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
    शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ १०॥

    सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
    गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ११॥

    शरणागतदीनार्तपरित्राणपरायणे ।
    सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ १२॥

    हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
    कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥ १३॥

    त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
    माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥ १४॥

    मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
    कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ १५॥

    शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
    प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ १६॥

    गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
    वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ १७॥

    नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
    त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ १८॥

    किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।
    वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ १९॥

    शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
    घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ २०॥

    दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
    चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ २१॥

    लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
    महारात्रि महामाये नारायणि नमोऽस्तु ते ॥ २२॥

    मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
    नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥ २३॥

    सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
    भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ २४॥

    एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
    पातु नः सर्वभूतेभ्यः कात्यायनि नमोऽस्तु ते ॥ २५॥

    ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
    त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥ २६॥

    हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
    सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ २७॥

    असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।
    शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ २८॥

    रोगानशेषानपहंसि तुष्टा
            रुष्टा तु कामान् सकलानभीष्टान् ।
    त्वामाश्रितानां न विपन्नराणां
            त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ २९॥

    एतत्कृतं यत्कदनं त्वयाद्य
            धर्मद्विषां देवि महासुराणाम् ।
    रूपैरनेकैर्बहुधात्ममूर्तिं
            कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ३०॥

    विद्यासु शास्त्रेषु विवेकदीपे-
          ष्वाद्येषु वाक्येषु च का त्वदन्या ।
    ममत्वगर्तेऽतिमहान्धकारे
          विभ्रामयत्येतदतीव विश्वम् ॥ ३१॥

    रक्षांसि यत्रोग्रविषाश्च नागा
            यत्रारयो दस्युबलानि यत्र ।
    दावानलो यत्र तथाब्धिमध्ये
            तत्र स्थिता त्वं परिपासि विश्वम् ॥ ३२॥

    विश्वेश्वरि त्वं परिपासि विश्वं
            विश्वात्मिका धारयसीह विश्वम् ।
    विश्वेशवन्द्या भवती भवन्ति
            विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ३३॥

    देवि प्रसीद परिपालय नोऽरिभीते-
          र्नित्यं यथासुरवधादधुनैव सद्यः ।
    पापानि सर्वजगतां प्रशमं नयाशु
            उत्पातपाकजनितांश्च महोपसर्गान् ॥ ३४॥

    प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
    त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ३५॥

    देव्युवाच ॥ ३६॥

    वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
    तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ३७॥

    देवा ऊचुः ॥ ३८॥

    सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
    एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ३९॥

    देव्युवाच ॥ ४०॥

    वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
    शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ४१॥

    नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
    ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ४२॥

    पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
    अवतीर्य हनिष्यामि वैप्रचित्तांश्च दानवान् ॥ ४३॥

    भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान् ।
    रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ४४॥

    ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
    स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ४५॥

    भूयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि ।
    मुनिभिः संस्मृता भूमौ सम्भविष्याम्ययोनिजा ॥ ४६॥

    ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन् ।
    कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ४७॥

    ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
    भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ४८॥

    शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
    तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥ ४९॥

    दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
    पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥ ५०॥

    रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् ।
    तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ ५१॥

    भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
    यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥ ५२॥

    तदाहं भ्रामरं रूपं कृत्वासङ्ख्येयषट्पदम् ।
    त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥ ५३॥

    भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
    इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥ ५४॥

    तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् ॥ ५५॥

    ॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
    नारायणीस्तुतिर्नामैकादशोऽध्यायः ॥ ११॥

    ॥ ॐ तत् सत् ॐ ॥

    No comments

    Post Top Ad

    Post Bottom Ad