Header Ads

  • Breaking News

    शिवषडक्षरस्तोत्रम् Shivashadakshara Stotram.

    शिवषडक्षरस्तोत्रम् ।। Vedic Sahitya Sangrahalaya, Silvassa.


    ओं कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः ।
    कामदं मोक्षदं चैव ओंकाराय नमो नमः ॥१॥

    नमंति ऋषयो देवा नमंत्यप्सरसां गणाः ।
    नरा नमंति देवेशं नकाराय नमो नमः ॥२॥

    महादेवं महात्मानं महाध्यानं परायणम् ।
    महापापहरं देवं मकाराय नमो नमः ॥३॥

    शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् ।
    शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥

    वाहनं वृषभो यस्य वासुकिः कंठभूषणम् ।
    वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥

    यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
    यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥

    षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ ।
    शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥

    इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडक्षरस्तोत्रं संपूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad