द्वादशज्योतिर्लिंग स्तोत्रम् ।। Dvadasha Jyothirlinga Stotram

द्वादशज्योतिर्लिंग स्तोत्रम् ।। Vedic Sahitya Sangrahalaya, Silvassa.


सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्र कलावतंसम् ।
भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥१॥

श्रीशैलसंगे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसंतम् ।
तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥२॥

अवंतिकायां विहिता वतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥३॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपरे वसंतमोंकारमीशं शिवमेकमीडे ॥४॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसंतं गिरिजासमेतम् ।
सुरासुराराधितपादपग्नं श्रीवैद्यनाथं तमहं नमामि ॥५॥

याम्ये संदगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥६॥ 

म्हाद्रिपार्श्वे च तटे रमंतं संपोज्यमानं सततं मुनींद्रैः ।
सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥७॥

सह्याद्रिशीर्षे विमले वसंतं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातक मात्रु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥८॥

सुताम्रपर्णीजल राशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥९॥

वं डाकिनीशाकिनिकासमाजै  निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्ध्ं तं शंकरं भक्तहितं नमामि ॥१०॥

सानंदमानंदवने वसंतमानंदकंदं हतपाप वॄंदम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥११॥

इलापुरे रम्बविशालकेऽस्मिन्समुल्लसंतं च जगद्वरेण्यम् ।
वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥१२॥

ज्योति र्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं कमेण ।
स्तोत्रं पटित्वा मनुजोऽतिभक्तया फलं तदालोक्य निजं भजेच ॥१३॥

इति श्रीद्वादशज्योतिर्लिंगस्तोत्रं संपूर्णम् ॥

Post a Comment

0 Comments