Header Ads

  • Breaking News

    द्वादशज्योतिर्लिंग स्तोत्रम् ।। Dvadasha Jyothirlinga Stotram

    द्वादशज्योतिर्लिंग स्तोत्रम् ।। Vedic Sahitya Sangrahalaya, Silvassa.


    सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चंद्र कलावतंसम् ।
    भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥१॥

    श्रीशैलसंगे विबुधातिसंगे तुलाद्रितुंगेऽपि मुदा वसंतम् ।
    तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥२॥

    अवंतिकायां विहिता वतारं मुक्तिप्रदानाय च सज्जनानाम् ।
    अकालमृत्योः परिरक्षणार्थं वंदे महाकालमहासुरेशम् ॥३॥

    कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
    सदैव मांधातृपरे वसंतमोंकारमीशं शिवमेकमीडे ॥४॥

    पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसंतं गिरिजासमेतम् ।
    सुरासुराराधितपादपग्नं श्रीवैद्यनाथं तमहं नमामि ॥५॥

    याम्ये संदगे नगरेऽतिरम्ये विभूषितांगं विविधैश्च भोगैः ।
    सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥६॥ 

    म्हाद्रिपार्श्वे च तटे रमंतं संपोज्यमानं सततं मुनींद्रैः ।
    सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे ॥७॥

    सह्याद्रिशीर्षे विमले वसंतं गोदावरीतीरपवित्रदेशे ।
    यद्दर्शनात्पातक मात्रु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥८॥

    सुताम्रपर्णीजल राशियोगे निबध्य सेतुं विशिखैरसंख्यैः ।
    श्रीरामचंद्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥९॥

    वं डाकिनीशाकिनिकासमाजै  निषेव्यमाणं पिशिताशनैश्च ।
    सदैव भीमादिपदप्रसिद्ध्ं तं शंकरं भक्तहितं नमामि ॥१०॥

    सानंदमानंदवने वसंतमानंदकंदं हतपाप वॄंदम् ।
    वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥११॥

    इलापुरे रम्बविशालकेऽस्मिन्समुल्लसंतं च जगद्वरेण्यम् ।
    वंदे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥१२॥

    ज्योति र्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं कमेण ।
    स्तोत्रं पटित्वा मनुजोऽतिभक्तया फलं तदालोक्य निजं भजेच ॥१३॥

    इति श्रीद्वादशज्योतिर्लिंगस्तोत्रं संपूर्णम् ॥

    No comments

    Post Top Ad

    Post Bottom Ad