ऋग्वेदः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 26 to 30.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 26.
अहं मनुरभवं सूर्यश्चाहं कक्षीवाँ ऋषिरस्मि विप्रः।
अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा॥ ४.०२६.०१
अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय।
अहमपो अनयं वावशाना मम देवासो अनु केतमायन्॥ ४.०२६.०२
अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य।
शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम्॥ ४.०२६.०३
प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा।
अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम्॥ ४.०२६.०४
भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि।
तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र॥ ४.०२६.०५
ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम्।
सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय॥ ४.०२६.०६
आदाय श्येनो अभरत्सोमं सहस्रं सवाँ अयुतं च साकम्।
अत्रा पुरंधिरजहादरातीर्मदे सोमस्य मूरा अमूरः॥ ४.०२६.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 27.
गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा।
शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम्॥ ४.०२७.०१
न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण।
ईर्मा पुरंधिरजहादरातीरुत वाताँ अतरच्छूशुवानः॥ ४.०२७.०२
अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरंधिम्।
सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन्॥ ४.०२७.०३
ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः।
अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः॥ ४.०२७.०४
अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः।
अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै॥ ४.०२७.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 28.
त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः।
अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि॥ ४.०२८.०१
त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो।
अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि॥ ४.०२८.०२
अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यंदिनादभीके।
दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत्॥ ४.०२८.०३
विश्वस्मात्सीमधमाँ इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः।
अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः॥ ४.०२८.०४
एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः।
आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना॥ ४.०२८.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 29.
आ नः स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः।
तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः॥ ४.०२९.०१
आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम्।
स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः॥ ४.०२९.०२
श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै।
उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च॥ ४.०२९.०३
अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम्।
उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः॥ ४.०२९.०४
त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः।
भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः॥ ४.०२९.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ४. Rigveda, Mandala - 4, Sukta - 30.
नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्।
नकिरेवा यथा त्वम्॥ ४.०३०.०१
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः।
सत्रा महाँ असि श्रुतः॥ ४.०३०.०२
विश्वे चनेदना त्वा देवास इन्द्र युयुधुः।
यदहा नक्तमातिरः॥ ४.०३०.०३
यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते।
मुषाय इन्द्र सूर्यम्॥ ४.०३०.०४
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत्।
त्वमिन्द्र वनूँरहन्॥ ४.०३०.०५
यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम्।
प्रावः शचीभिरेतशम्॥ ४.०३०.०६
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः।
अत्राह दानुमातिरः॥ ४.०३०.०७
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम्।
स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः॥ ४.०३०.०८
दिवश्चिद्घा दुहितरं महान्महीयमानाम्।
उषासमिन्द्र सं पिणक्॥ ४.०३०.०९
अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी।
नि यत्सीं शिश्नथद्वृषा॥ ४.०३०.१०
एतदस्या अनः शये सुसम्पिष्टं विपाश्या।
ससार सीं परावतः॥ ४.०३०.११
उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि।
परि ष्ठा इन्द्र मायया॥ ४.०३०.१२
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम्।
पुरो यदस्य सम्पिणक्॥ ४.०३०.१३
उत दासं कौलितरं बृहतः पर्वतादधि।
अवाहन्निन्द्र शम्बरम्॥ ४.०३०.१४
उत दासस्य वर्चिनः सहस्राणि शतावधीः।
अधि पञ्च प्रधीँरिव॥ ४.०३०.१५
उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः।
उक्थेष्विन्द्र आभजत्॥ ४.०३०.१६
उत त्या तुर्वशायदू अस्नातारा शचीपतिः।
इन्द्रो विद्वाँ अपारयत्॥ ४.०३०.१७
उत त्या सद्य आर्या सरयोरिन्द्र पारतः।
अर्णाचित्ररथावधीः॥ ४.०३०.१८
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन्।
न तत्ते सुम्नमष्टवे॥ ४.०३०.१९
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत्।
दिवोदासाय दाशुषे॥ ४.०३०.२०
अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः।
दासानामिन्द्रो मायया॥ ४.०३०.२१
स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः।
यस्ता विश्वानि चिच्युषे॥ ४.०३०.२२
उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम्।
अद्या नकिष्टदा मिनत्॥ ४.०३०.२३
वामंवामं त आदुरे देवो ददात्वर्यमा।
वामं पूषा वामं भगो वामं देवः करूळती॥ ४.०३०.२४

No comments