Header Ads

  • Breaking News

    वेदसार शिवस्तव स्तोत्रम् ।। Vedasara Shivastava Stotram.

    वेदसारशिवस्तव स्तोत्रम् ।। Vedic Sahitya Sangrahalaya, Silvassa.


    पशूनां पतिं पापनाशं परेशं गजेंद्रस्य कृत्तिं वसानं वरेण्यम् ।
    जटाजूटमध्ये स्फुरद्गांगवारिं महादेवमेकं स्मरामि स्मरारिम् ॥१॥

    महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यंगभूषम् ।
    विरूपाक्षमिंद्वर्कवह्निं त्रिनेत्रं सदानंदमीडे प्रभुं पंचवक्रम् ॥२॥

    गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गुणातीतरूपम् ।
    भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पंचवक्रम् ॥३॥

    शिवाकांत शंभो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन् ।
    त्वमेलो जगच्चापको विश्वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥४॥

    परात्मानमेकं जगद्वीजमाद्यं निरीहं निराकारमोंकारवेद्यम् ।
    यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ॥५॥

    न भूमिर्न चापो न वह्निर्न वायुर्न चाकाशमास्ते न तंद्रा न निद्रा ।
    न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्रिमूर्तिं तमीडे ॥६॥

    अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
    तुरीयं तमः पारमाद्यंतहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥७॥

    नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते श्रुतिज्ञानगम्य ॥८॥

    प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्र ।
    शिवाकांत शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥९॥

    शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।
    काशीपते करुणया जगदेत देकस्त्बं हंसि पासि विदधासि महेश्वरोऽसि ॥१०॥

    त्वतो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
    त्वय्येव गच्छति लयं जगदेतदीश लिंगात्मकं हर चराचरविश्वरूपिन् ॥११॥

    इति श्रीमच्छंकराचार्यविरचितो वेदसारशिवस्तवः संपूर्णः ॥

    No comments

    Post Top Ad

    Post Bottom Ad