श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - प्रणामविधिः || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - प्रणामविधिः || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
प्रणामविधिः ॥ Astro Classes, Silvassa.
प्रणामश्चतुर्विधः । अष्टाङ्गः पञ्चाङ्गस्त्र्यङ्ग एकाङ्गश्च । अष्टाङ्गो द्विविधः । दण्डप्रणामः केवलप्रणामश्च । पद्भ्यां कराभ्या मुरसा शिरसा वाचां क्रियामाणो दण्डप्रणामः । पादद्वयेन करद्वयेनोरसा शिरसा वाचा मनसा धिया द्दष्ट्याच क्रियंआणो दण्डप्रणाम इति पक्षान्तरम् । अत्र मनसेत्यनन्यंअनस्कत्वमुच्यते । धियेति शिवमहिमानुसन्धानरूपस्तोत्रं विविच्यत इति भेदः पादद्वयेन जानुद्वयेन करद्वयेन उरसाशिरसा मनसा वाचा द्दष्ट्याय क्रियंआण इत्यपि कश्चन पक्षः । शिरसा हस्ताभ्यां कर्णाभ्यां चिबुकेन बाहुभ्याञ्च भुवं संस्पृश्य क्रियंआणः केवलप्रणामोऽष्टङ्गः । शिरसा हस्ताभ्यां जानुभ्याञ्च भुवं स्पृष्ट्वा क्रियंआणः पञ्चाङ्ग । शिरो हस्तौ बाहूच जानुनि निधाय क्रियंआणः पञ्चाङ्ग इति पक्षान्तरम् । शिरसि हस्ताभ्या मञ्जलिबन्धनं त्र्यङ्गनस्कारः । केवलं शिरसैवानमन मेकाङ्गनमस्कारः । एते प्रणामा देशकालबलाद्यपेक्षया यथासंभवं विनियोक्तव्याः ॥
अग्निकार्यविधिः ॥
इत्थं परमेश्वरं स्तुतिप्रदक्षिणनमस्कारै स्सन्तोष्य स्वामिन्नग्निकार्यं करोमीति विज्ञाप्य शिवादाज्ञां गृहीत्वा सामान्यार्घ्यकरोग्र्यगारं गत्वा निरीक्षणादिचतुस्संस्कारैश्शुद्धे हस्तमाने मॄत्सिकतान्यतरनिर्मितेस्थण्डिले अरणिसूर्यकान्तादिनिर्मितं श्रोत्रियागारसमाहृतं वाऽग्रिं प्रज्वाल्य हुंफडन्तास्रेण क्रव्यादांश मग्निं निरऋतिकोणे निरस्य मूलेनाग्रिं निरीक्ष्य हुंफडन्तास्रेणप्रोक्षणताडने विधाय वौषडन्तकवचेनाभ्युक्ष्य हां हं हां वह्निर्मूर्तये नम इति संहारमुद्राय वह्निचैतन्यं पूरकवायुना हृत्पुण्डरीकस्थितेन वह्निना संयोज्य तत्सहितं सुषुम्नामार्गेण द्वादशान्तं प्रापय्य परमशिवसंपृक्तं कृत्वा रेचकेन पिङ्गळया निरसार्य हां ह्रूं वह्निचैतन्याय नम इति तमुद्भुवमुद्रया ज्वलदग्रौ निक्षिपेत् । तदनु सद्योजातादिमन्त्रैर्नमोन्तैः पञ्चभिरग्रिं संपूज्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्या कवचेनावकुण्ट्यास्रेणसंरक्ष्य हॄदयेनाभ्यर्च्य पारमेश्वरवीर्यंइति विभाव्य वागीश्वरीं वागीश्वरञ्च समरसावीशदिग्गतौ ध्यात्वा वागीश्वरी-गर्भनाड्या मात्मसंमुखं वागीश्वरेण तद्वीर्यं क्षिप्यंआणं विभावयेत् । ततः स्वाहान्त-मूलेनाहुतिपञ्चकं दत्वा हां शिवाग्निस्त्वं हुताशनेतिनाम कॄत्वा गर्भाधानादिपञ्च संस्कारादिसंस्कृतमग्रिंविभाव्य पितरौ हृदाऽभ्यर्च्य विसृज्य सामान्यार्घ्यजलेन वौषडन्तकवचेन कुण्डं मेखलाञ्च संप्रोक्ष्य मेखलायाःदिक्षु पूर्वोत्तराग्रान्द्शदर्भान्कवचेनास्तीर्य मेखलायाः पूर्वदक्षिणपश्चिमोत्तरदिक्षु ब्रह्मविष्णुरुद्रानन्तान्समभ्यर्च्य अग्र्यर्भकं रक्षतेति विज्ञाप्य पञ्चवक्त्रयुतं रक्तं सप्तजिह्वाविराजितम्। दशहस्तं त्रिणेत्रञ्च सर्वाभरणभूषितम् ॥ रक्तवस्रपरीधानं पङ्कजोपरि संस्थितम् । बद्धपद्मासनासीनं दशायुधसमन्वितम् ।शिवाग्निं ध्यात्वा तस्योर्द्ध्व वक्त्रेकनका बहुरूपाऽतिरिक्तेति जिह्वात्रयं पूर्वादिवक्त्रेषु सुप्रभाकृष्णारक्ताहिरण्मयीति जिह्वाचतुष्टयं ध्यायेत् । ततोहामग्रयेनम इति संपूज्य हां ह्रूमग्रये स्वाहेति तिलाहुतिपञ्चकं हुत्वा । अग्रे त्वमैश्वरं तेजः पावनं परमं यतः । तस्मात्त्वदीयहृत्पद्मे स्थाप्य सन्तर्पयाम्यह मित्यग्निं विज्ञाप्याग्नेः हृदयकमले आसनमूर्तिसदाशिवावाहनपूर्वकं सर्वोपचारैस्संपूज्य अग्निवक्त्रै श्शिववक्त्रेसन्निधानविभाव्य स्वाहान्तमूलेन समिदन्नाज्यलाजसर्षपतिलादिभि श्शतं तदर्धंवा यथाशक्ति हुत्वा ब्रह्माङ्गानां दशांशाहुतिं हुत्वा हौंशिवाय वौषडित्यूर्द्ध्ववक्त्रे पूर्णाहुतिं दत्वा स्वाहान्तमूलेन चरुं ग्रासत्रयपरिमितं हुत्वा ब्रह्माङ्ग नामेकैकाहुतिं हुत्वाऽऽचमनं प्रदाय चन्दनतांबूलानिदत्वा भस्मपाद्याष्टपुष्पिकया संपूजयेत् । आद्याद्यभावे पत्रपुष्पादिभिर्वा जुहुयात् । ततः स्तोत्रप्रदक्षिणनमस्कारैस्सन्तोष्य पराङ्मुखार्घ्यं दत्वा शिवमुत्थाय लिङ्गस्थे शिवे संपूजयेत् । ततः परिस्तरणदर्भान्संगृह्याग्रमध्यंऊलान्याज्यसिक्तानि कृत्वा एकं दर्भं समादाय शेश्ःअमग्रप्रभृति दहेत् । तमेकं दर्भ मग्नौ निक्षिप्य तद्भस्मना ललाटे तिलकं कुर्यात् ।तद्धस्मधारण मायुश्रीकीर्तिवर्धनं विजयारोग्यकरञ्च । ततस्तस्य दक्षिणभागे चतुरश्रं मण्डलं कृत्वा मण्डलात् प्राग्भागे पूर्वाद्युत्तरान्तासु महादिक्षु रुद्रमातृगणयक्षा नीशानादि कोणेषु ग्रहासुरराक्षसनागान् मण्डलमध्ये ईशानाग्रेयनैर् ॠतकोणेषु नक्षत्रराशिविश्व देवान् वायुवरुणादिशोर्मध्ये क्षेत्रपालञ्चाभ्यर्च्यार्घ्यं दत्वा जलमिश्रान्नेन रुद्रादिभ्योबलिं दत्वाऽऽचमनं दद्यात् । रुद्रादीनामभ्यर्चने नमोन्तास्तत्तन्नाममन्त्राः । बलिदाने स्वाहान्ताः क्षेत्रपालस्यैकवचन मन्येषां बहुवचनमिति भेदः । ततः प्राग्भागे चतुरश्रमण्डले इन्द्रादिविष्ण्वन्तानां लोकपालानां बलिं दद्यात् । ततोमण्डपाद्वाह्यांकणेगोमयंअण्डले वायसादिभ्यस्समयभेदिभ्यः स्वाहा । आग्र्यादिभ्यः स्वाहा । सर्वे-भ्योग्रहवास्तुदेवेभ्यः स्वाहा । इतिपृथक्पृथक् बलिं दत्वा श्वभूतपतितप्रेतादिभ्योऽ प्येकं बलिंदद्यात् । यद्वा-संक्षिप्य सर्वोद्देशेन येरुद्रारुद्रकर्माणो रौद्रस्थाननिवासिनः । (सौ म्याश्चैवतुर्यकेचित् सैम्यस्थाननिवासिनः । मातरो रुद्ररूपाश्च गणाना मधिपाश्च ये। विघ्नभूतस्तथाऽन्येच दिग्विदिक्षु समाश्रिताः सर्वे सुप्रीतमनसः प्रैतिगृह्णं त्विमंबलोम् । सिद्धिं जुषन्तु नः क्षिप्रं भयेभ्यः पांतुमासदेति मन्त्रेणैकं बलिंक्षिपेत् ॥ सर्वमिदं बलिकार्यंअग्निकार्याधिकारिणैव कर्तव्यं नसर्वैः अग्निकार्याधिकारे सत्यपि होमोपकरणवैकल्पे तदशक्तौवा होममन्त्रान् होमसङ्ख्यापेक्षया दशगुणावृत्त्या जपेत् । ततश्शिवज्ञानपूजां कुर्यात् ।।

No comments