श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - शिवज्ञान पूजाविधिः || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - शिवज्ञान पूजाविधिः || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
शिवज्ञान पूजाविधिः ॥ Astro Classes, Silvassa.
शिवज्ञानानि कांमिकादयो दिव्यागमाः । तत्र कामिकं त्रिभेदं परार्द्धग्रन्थम्। योगजं पञ्चभेदं लक्षग्रन्थम् । सूक्ष्म मेकतन्त्रं पद्मग्रन्थम् । सहस्रं दशभेदं शङ्खग्रन्थम् । अंशुमान् द्वादशभेदं पञ्चलक्षग्रन्धम् । सुप्रभेद मेकतन्त्रं त्रिकोटिग्रन्थम् । विजयंअष्टभेदं त्रिकोटिग्रन्थम् । निश्वासमष्टभेदं कोटिग्रन्थम् । स्वायंभुवं त्रिभेदं सार्धकोटिग्रन्थम् । अनलमेकतन्त्रं त्रिंशत्सहस्रग्र्न्थम् । वीरतन्त्रं त्रयोदशभेदं लक्षग्रन्थम् । रौरवं षट् भेद मष्टार्बुदग्रन्थम् । मकुटं द्विभेदं लक्षग्रन्थम् । विमलं षोडशभेदं लक्षग्रन्थम् । प्रोद्गीतं षोडशभेदं त्रिलक्षग्रन्थम् । लळितं त्रिभेदमष्टसहस्रग्रन्थम् । सिद्धं चतुर्भेदं सार्धकोटिग्रन्थम् । सन्तानं सप्तभेदं षट्सहस्रग्र्न्थम् । शर्वोक्तं पञ्चभेदं द्विलक्षग्रन्थम् । पारमेश्वरं सप्तभेदं द्वादशलक्षग्रन्थम् । किरणं नवभेदं पञ्चकोटिग्रन्थम् । वातुळं द्वादशभेदं लक्षग्रन्थम् । एवमष्टाविंशतिभेदा दिव्यागमाः । परार्धशङ्खपद्मषट्पञ्चाशत्सहस्राधिकैः षडुत्तरषष्ट्या लक्षन्यूनं पद्मंचेत्येताव त्संख्या ग्रन्थाः । तदुपभेदाः अष्टोत्तरद्विशतसङ्ख्याः इत्थंभूतान् सर्वानापि दिव्यागमान् यथालाभं कतिचिद्वा एकंवा तत्रापि स्वपूजोपयोगिसंहितामात्रं वा लक्ष्णशालिषु पुस्तकेषु लेखयेत् पुस्तकेषु द्वाविंशत्यङ्गुळदीर्घं चतुरङ्गुळविस्तारं पुस्तकं लक्ष्मीभद्रम् । एकविंशत्यङ्गुळदीर्घं त्र्यंङ्गुळविस्तारं श्रीरक्षम् । विंशत्यङ्गुळदीर्घ यवहीनत्र्यङ्गुळविस्तारं चन्द्रकान्तम् । इदमुत्तमत्रयं । अष्टादशाङ्गुळदीर्घं अर्धधिकाङ्गुळद्वयविस्तारं नळिनम् । सप्तदशाङ्गुळदीर्घं त्रियवाधिकाङ्गुलत्रयविस्तारं श्री निवासम् ।षोडशाङ्गुळदीर्घं द्वियवाधिकाङ्गुळद्वयविस्तारं श्रीभद्रम् । इदं मध्यंअत्रयं । पञ्चदशाङ्गुळदीर्घं यवाधिकाङ्गुलद्वयविस्तारं लक्ष्मीनिवासम् । चतुर्दशाङ्गुलदीर्घमङ्गुळद्वयविस्तारं उमाभद्रम् । त्रयोदशाङ्गुळदीर्घं यवहीनाङ्गुलद्वयविस्तारं वीरभद्रम् । एवंविधेषु पुस्तकेषु यजमानस्ययान्यनुकूलानि पत्रियचतुष्टयांशतृतीयांशयोर्मद्ध्येमद्ध्यगतसुषुरवन्ति कारयित्वा यवोदरमानैः कार्पाससूत्रै राबध्नीयात् । एतेषां शिवज्ञानपुस्तकानां पूजनाय शिवस्य दक्षिणपश्चिमे वायव्यभागेवा त्रयस्रिंशद्धस्तप्रभृतिषु त्रिहस्तपर्यन्तेषु परिमाणेष्वन्यतमपरिमाणवाद्विद्याकोशगृहं कृत्वा सुगन्धि चन्दनाद्यनुलिप्तभित्तिकस्य तस्य मध्ये नागदन्तादिरचितं सुवर्णरेखादिचित्रितं विद्या सिह्मासनं निधाय तत्र दुकूलादिकमास्तीर्य तन्मध्ये स्वर्णरूप्यताम्रकांस्यार कूटलोहदारु वेणुविदळिकादिकृतां विद्यारत्नकरण्डरूपां मञ्जूषां निधाय तस्यां पुस्तकानि निदद्ध्यात् । तेषु सर्वेभ्यश्शिवज्ञानेभ्योनमः इति गन्धपुष्पधूपदीपनैवेद्यैस्संपूज्य॥ सर्वज्ञानप्रदं शम्भुं सर्वाज्ञानविघातकम् । कायेन मनसा वाचा विद्यापीठाश्रयंभजे इति स्तुत्वा नमस्कुर्यात् । पुस्तकालभे चतुरश्रमण्डले अष्टदळपद्मं तदावारक मष्टादशदळपद्मंच लिखित्वा कर्णिकायां हौं शिवायनमः । हां वागीशाय नमः इति वागीश्वरसहितं शिवं संपूज्य पूर्वादिषु दसह्सु दळेषु कामिकादीन् सुप्रभेदान्तान् शिवेनाधिकरणान्तरनिरेपेक्षेण सक्षात्रिर्मिततया शैवसंज्ञान् दिव्यागमन् संपुज्य् अष्टदशसु दळेषु विदयादिवातुळान्तान् अनादिरुद्राद्यधिकरणेन शिवेन निर्मिततया रौद्रसंज्ञान् पूजयेत् । अथ गुरुं स्वपीठस्थं गत्वा तस्य पादौ प्रक्षाळ्य शिवबुद्ध्या गन्धादिभिस्संपूज्य पुष्पाञ्जलित्रयं कृत्वा साष्टाङ्गं त्रिः प्रणम्योत्थाय भूमौजानुनी न्यस्य कृताञ्जलिपुटः क्षमस्वेति ब्रूयता । यदि मधुलुब्धो यथा भृङ्गः पुष्पात्पुष्पं वनान्तरे । ज्ञानलुब्धस्तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् इति शास्र मनुसृत्याधिकज्ञानार्थ मन्यं गुरु माश्रयति, तथाऽपि पूर्वगुरुमपि यथापूर्वं पूजयेत् । ततश्शिवसमीपमागत्याष्टपुष्पिका शिवं संपूज्य विशेषार्घ्यं दत्वा प्राणामपुरस्मार मभितः प्रार्थनां कृत्वा न्यूनं वाऽप्यधिक वाऽपि यन्मया मोहतः कृत्म्। सर्वं तदस्तु संपूर्णं त्वत्प्रसादात् संपार्थक अपाराधस स्त्राणि क्रियन्तेऽहर्निशं मया । दासोऽयंइति मां मत्वा क्षन्तव्यं भक्तवत्सल। सवामिन्क्षुद्रेणदासेन मलईमसाधिया मया । कदथितो वायद्भक्तिवशात् प्रीतः क्षमसत दिति विज्ञापयेत्। ततस्सद्यो आजाअक्रिमिण जातादिमेण पञ्चसुशिरसुशिवमभ्यर्च्यास्त्रादिह्रुदयान्तान्यङ्गानिच प्रातिलोम्येन संपूज्य पूर्ववद्यथेष्टमूर्द्ध्वमुखोभवेति संप्रार्थ्य हां हौं शिवाय साङ्गाय पराङ्मुखार्घ्यं स्वा हेति पराङ्मुखार्घ्यं दत्वा सद्यादीनि ब्रह्माण्यस्त्रादीन्यङ्गानिच गर्भवरणरूपाणि देवस्याङ्गेषु योजयेत् । अन्येभ्योऽपि तत्तदावरणदेवेभ्यः पराङ्मुखार्घ्यं दद्यात् । हुंफड न्तास्रेण करद्वयाङ्गुष्ठतर्जन्यग्राभ्या मूर्द्ध्वं पुष्पं प्रक्षिपन्नाराचमुद्रया मन्त्रानुत्थाप्य हां हं हां शिवमूर्तयेनमः इतिदिव्यंउद्रया शिवस्य हृदयस्थाने संयोज्य तेषां तत्र लयं विभावयेत्। तदनु गुहुगृह विद्यापीठ सप्तगुरु महालक्ष्मी गणपति द्वारपालेभ्योऽपि पराङ्मुखार्घ्यं दत्वा सवस्वमन्त्रेणतान्विसर्जयेत् । ततः परिवारदेवेभ्योपि पराङ्मुखार्घ्यंदत्वा प्रत्येकं सपुष्पैर्वस्त्रै राच्छाद्य अस्रमन्त्रेण पेटकस्य पार्श्वेषु निदद्ध्यात् । ततश्शिवमन्त्रं समुच्चार्य पद्मपीठाल्लिङ्गमादाय दुकूलादिभिस्संवेष्ट्य पेटकमध्ये विन्यस्य भीमरुद्रं स्मरन् रक्षेति शिवाज्ञां विज्ञाप्य पिधानं कुर्यात् । ततः मिश्रपूजां किर्यात् । प्रागकृतचण्डपूज श्शिवस्योद्वासनानन्तर मावाहनादिसर्वोपचारसहितां चण्डपूजां कुर्यात् ॥
इतथं प्रातर्मध्याह्नसायार्धरात्रिषु प्रातरादिषुकालेषु वा प्रातरादिकालद्वये वा प्रातः कालमात्रेवा घटिकात्रयेण पूजा कर्तव्या संक्रान्त्युपरागाष्टमीचतुर्दश्यादिव्य तिरिक्तकालेषु बुभुक्षुणा रात्रौ पूजा वर्गनीया । तेनापि त्रिकालपूजा क्रियतेचेद स्तमयं समारभ्य घटिकात्रयंअध्ये सायङ्कालपूजा समापनीया । मुमुक्षोस्तु नकाल नियंअः । यद्वा बुभुक्षोरपि न कालनियंअः । यथासंभवकाले तु यथा संभवनाडिकाः । आत्मार्थयजनं कुर्या द्यथाशक्त्यनुरोधत इत्यप्यागमदर्शनात् । एवं प्रपञ्चोपचारन् कर्तुमशक्रुवन् षोडश पञ्चोपचारान्कुर्यात् । आवाहनासान पाद्यार्घ्याचमन -स्नान वस्त्रोपवीत गन्धपुष्प धूपदीप नैवेद्य मुखवास स्तोत्रसहितप्रणामप्रदक्षिण-सहितविसर्जनानि षोडशोपाचराः यद्वा-आसनावाहन् पाद्याचमनार्घ्यस्त्रान वस्त्रगन्धपुष्प नैवेद्य तांबूल धूपदीपरात्रिक भस्म चुळकिदकानि षोडशोपचाराः । आवाहनासन पाद्याचमनार्घ्य स्नान वस्रगन्धपुष्पनैवेद्यानि दशोपचाराः । गन्धपुष्पधूपदीपनैवेद्यानि पञ्चोपचाराः । यद्यपि पार्थिवं गन्धपुष्पाद्यं कन्दमूलफलादिकम् । आप्यं वारि पयो वस्रं दधि गोमूत्रकादिकम् ॥ आग्नेयं हेमरत्नादि दीपमाभरणादिकम् । वायव्यं चामरं धूपं व्यजनं ताळवृन्तकम् । नाभसं गेयवाद्याद्यं वीणावेणुस्वनादिकम् । एते पञ्चोपचारास्तु कथिता श्शास्त्रवेदिभिरिति पञ्चोपचाराः प्रपञ्चेन दर्शिताः । अथाप्यशक्तानां गन्धादिनैवेद्यान्तोपचारा एव क्रमात् पर्थिव नाभसवायव्य तैजसाप्याः पञ्चोपचाराः । सर्वोपचारश्शिवस्यावाहनवत् निश्वासोछ्वासरूप चन्द्रार्कगतिनिरोधेन कर्तव्याः इत्यागमप्रसिद्धेः केषुचि दुपचारेषु मात्राणनेन कालनियंओऽप्यागमेषु दर्शितः आवाहने द्वादश मात्राः। पाद्ये पञ्च । आचमने तिस्रः । अर्घ्ये एकम् । गन्धे षट् । धूपे द्वादश । दीपे षट्। नैवेद्ये चतुर्विंशतिः । आरात्रिके सप्त । नीराजने षोटश । भस्मार्पणे सप्त । छत्रे पञ्च । चामरे दश । व्यजने तिस्र इति । एवं चन्द्रार्कगतिनिरोधेन क्रियंआणेषुपचारेषु तत्तन्मन्त्राः मनसैव जप्तव्याः मन्त्राश्च प्रासाद शिवमन्त्र पञ्चब्रह्म ष्डङ्गरूपा सतत्तदुपाचारेषु यथाविधिविनियोक्तव्याः । तत्रावाहनपाद्य वस्र विलेपनभूषणदर्पणच्छत्रचामर तालवृन्त जप स्तोत्र नमस्कारेष्वन्येषुचविशेषोक्तिरहितेषूपचारेषु मन्त्रान्ते नमश्शब्दः । अर्घ्यस्नान धूपदीपनैवेद्यपानीयंउखवासनीराजानपवित्रजपपूजासमर्पणेषु स्वाहाश्ब्दः । मार्जन सेचन पुष्पपूर्णाहुतिषुवौषट्शब्दः । मलस्नानशोधन पाशच्छेदन प्रोक्षण ताडनभेदन विघ्ननिवारणेषु हुंफट्शब्दः । रक्षायां फट्शब्दः ।आचमेनेस्वधाशब्दः । एवमुक-नियंऐः पञ्चोपचारानपि कर्तुमशक्तः केवल मष्ट - पुष्पिकयाऽर्चयेत् । आसने प्रथमं पुष्पं दातव्यं शुद्धचेतसा । मूर्तिध्यानं हृदा कार्यं पुष्पेणैवापरेणतु ॥ पञ्चपुष्प प्रदानेन पञ्चाङ्गानि प्रकल्पयेत् । शिवं तथाऽष्टमेनैव कथिताचाष्टपुष्पिका । पञ्चाङ्गानि मूर्धादीनि पञ्चब्रह्माणि नैत्रवर्जितानि हृदयादीनि वा। एतानि चाष्टपुष्पाणि सर्वसाधारणानि तु । सर्वसिद्धिप्रदानीह तथा सर्वाश्रमेषु च ॥ सर्वेषां चैव वर्णानां सर्वसाधारणानिच । एककालं द्विकालं वा त्रिकालं वा प्रपूजयेत् । प्रातर्मध्याह्नसमये तथा चास्तमिते रवौ । पूजयेत्परया भक्त्या अष्टपुष्पविधानतः ॥ दरिद्राणा मनाथानां वालस्रीवालिशेषु च । भोगिनां व्याधिजुष्टानां तथा ध्यानार्पितात्मनाम् ॥शिवशास्त्रानुरक्तानां नानासिद्धिहितात्मनाम् । अनुरक्तविरक्तानां कथितासाऽष्टपुष्पिका इति कालेत्त रवचनात् भोगो राज्यपरिपालनम् तद्वन्तो भोगिनः । तेषां राज्यपरिपालनं कुर्वतामित्यर्थः राज्यपरिपालनेन बहुषु शोवस्थानेषु शिवभक्तानां गृहेषुचशिवपूजाप्रवर्तनेन बहुपुण्यं लभ्यते । शिवशास्त्रानुरक्तानां दिव्याख्यानतदध्ययननिरतानामित्यर्थः । शिवशास्त्रव्याख्यानेन हि लोके यथावत् शिवपूजाप्रवर्तनेन बहु पुण्यं लभ्यते । तदध्ययनेन चाग्रे स्वयं यथावद्वहुकालपूजनेन बहुपुण्यं लभ्यत इति ।
॥ कपिलापूजाविधिः ॥
इति शिवपूजां समाप्य कपिलापूजां कुर्यात् । यथा कपिलां गां नन्दा सुभद्रासुरभि सुशीला सुमनस्संज्ञां पञ्चगोत्ररूपायै कपिलायैनम इति गन्धपुष्पादिभिरभ्यर्च्य सौरभेयि जगन्मात र्देवाना ममृतप्रदे । गृहाण वरदे ग्रास मीप्सितार्थं च देहि मे इति ग्रासं दत्वा वन्दिताऽसि वसिष्टेन विश्वामित्रेण जह्नुना । कपिले हरमे पापं यन्मया दुष्कृतं कृतमिति संप्रार्थ्य गावो ममाग्रतो नित्यं गावः पृष्ठत एव मे । गावो मे हृदये चापि गवां मध्ये वसाम्यहमिति जपेत् । एतं नरो जपेन्मन्त्री त्रिसंध्यं नियतश्शुचिः विमुक्तस्सर्वपापेभ्य श्शिवलोकं प्रपद्यते ॥

No comments