श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - आरात्रिक विधिः || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - आरात्रिक विधिः || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
आरात्रिक विधिः ॥ Astro Classes, Silvassa.
तत्प्रकारः सुवर्णरजतताम्रकांस्यान्यतमनिर्मिते चतुर्विशत्यङ्गुळिमाने तदर्ध-मानेवा तत्तृतीयांशमानया स्वामानपञ्चमोत्सेधया यदद्वयायामोत्सेधपट्टिकया कर्णिकया शोभिते ततो बहिरष्टदळयुक्ते परितः कर्णिकामानोष्ठसहिते सुवृत्ताकारे पात्रे कर्णिकायां मध्ये परितश्च कृतेषु सहजेषु शालिपिष्टमयेषु वा दीपासनेषु कर्पूरादिमयीं वर्ति निधाय नव पञ्च वा दीपान् मध्यएव एकं वा दीपमारोप्य त्रिपाद्यां विन्यस्य निरीक्षणादिभिस्संस्कृत्य, नव चेन्मध्ये सूर्यं दिक्षु गुरुशुक्रबुधचन्द्रान विदिक्षु भौ म शनिराहुकेतून् पञ्चचेन्मध्ये वह्निं दिक्षु गगनवायुजलपृथिवीः एकश्चेत् वह्निं चाभ्यर्चतेत् । यद्वा-नवपञ्चैकदीपेषु वामादिशक्तीः पञ्चब्रह्माणि शिवं चार्चयेत् । एवं गन्धपुष्पधूपदीपैरभ्यर्च्य दिग्बन्धनमस्रेण कृत्वा सुरभिमुद्रां प्रदर्श्य पाणिभ्यामुद्धृत्य देवस्य शिरसि हृदये पादयोश्च त्रिर्भ्रामयित्वा सुवर्णादिनिर्मितैर्वृत्ताकारै श्चतुरश्राकारैर्वा मुकुळाग्रशालिनाळयुक्तै स्सहजशालिपिष्टकृतान्यतरदीपासनयुक्तै र्दीपासननिहित-कर्पूरादिवर्तिष्वारोपितदीपै र्नीराजनपात्रैर्नी राजनान्यपि निरीक्षणादिभिस्संस्कृतान्या रात्रिकवत् भ्रामयित्वा भूमौ विन्यस्यास्रेण निर्वापयेत् । नीराजनपात्राणि त्रिविधानि । प्रादेशमात्रविस्तारं यवद्वयघन मष्टाङ्गुळनाळं तदनुसारिमुकुळमुत्तमम् । तस्य मध्ये एकं दीपासनं पञ्चस्वावॄत्तुषु क्रमा न्नव पञ्चदश एकविंशतिः सप्तविंशतिः त्रयस्त्रिंशदिति षडुत्तरशतं दीपाः । यद्वा क्रमांदावृतिष्वष्टौः चतुर्दश विंशतिः षड्विंशतिः द्वात्रिंशद्दीपासनानीति एकोत्तरशतंदीपाः ।उत्तमपात्रार्धमानं पात्रं मध्यंअम्। अस्य मध्ये एकं चतुर्ष्वावरणेषु अष्टौत्रयोदशाष्टादश त्रयोविंशतिर्दीपासनानीतित्रिषष्टिर्दीपाः । मध्यंआदर्धमानं कनिष्ठम् । अस्य मध्ये एकं त्रिष्वावरणेषु षट् दश चतुर्दशदीपासनानीति एकत्रिंशद्दीपाः अथ दर्पणच्छत्रचामर व्यजनताळवृन्तानि क्रमादीशानादि-मन्त्रैस्समर्प्य तद्दिवसर्जितवाङ्मनः कायदोषपरिहाराय शिवसायुज्यप्राप्तये च दूर्वाकुशाक्षतबिल्वपत्रसहितपुष्पाञ्जलिं हां हौं शिवतत्वाधिपतये शिवायनमः हां हौं विद्यातत्वाधिपतये शिवाय नमः । हां हौं आत्मतत्वाधिपतये शिवाय नमः । इति त्रिवारं समर्पयेत् । मुमुक्षुश्चे दात्मतत्वादिक्रमेण अथवा सर्वतत्वाधिपतये शिवाय-नम इति सकृदेववा समर्पयेत्। ततः पूजया सन्तुष्टं स्वाभिमुखीकॄताञ्जलिपुट सकलभोगाङ्गसेव्यंआनं यागमन्दिरद्वारबाह्यस्थब्रह्मोपेन्द्रमहेन्द्रसूर्यादिस्तूयंआन मपारकरुणामॄतसमुद्रं भक्तजनसकलाभीष्टाप्रदञ्च शिवं ध्यात्वा पूजासाद्गुण्यार्थं यथा शक्ति श्रीमत्पञ्चाक्षरजपं कुर्यात्॥
श्रीमत्पञ्चाक्षरस्याथ प्रकारः प्रतिपाद्यते ।
गुरूपदिष्टमार्गेण गोपनीयः प्रयत्नतः ॥
शिवासनपद्मस्य दक्षिणदळे अघोरमूर्तेदक्षिणभागे-
तप्तचामीकप्रख्यां पीनोन्नतायोधराम् ।
चतुर्भुजां त्रिणयनां बालेन्दुकॄतशेखराम् ॥
पद्मोत्पलधरां सौ म्यां वरदाभयपाणिकाम् ।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम् ॥
सितपद्मासनासीनां नीलकुञ्चितमूर्धजाम् ।
श्रीमत्पञ्चाक्षरींविद्यां मनसावाहनादिभिः॥
गन्धपुष्पै र्धूपदीपै र्नैवेद्येन च पूजयेत् ।
सुखासने समाविष्टो रक्षिताक्ष उदङ्मुखः ।
नासग्रन्यस्तद्द् ङ्मौनी विद्ध्यादात्मरक्षणम् ॥
स्रवत्पीयूषसङ्घातपलाविताशेषदिक्तटम् ।
स्मरे दूर्द्ध्वमधस्ताच्च चन्द्रमण्डलसंयुतम् ॥
बिंबसंपुटमध्यस्थं सुधाधारापरिप्लॄतम् ।
स्वदेहं चिन्तयेच्छाक्तैस्सुधावर्षै स्सुधात्मकम् ॥
आत्मरक्षा भवेदेषा सुरैरपि नभिद्यते ।
आत्मरक्षां विधायेत्थं मन्त्ररक्षा मथाचरेत् ।
रेचये दुदराद्वायुं दक्षनाड्याऽस्रमन्त्रतः ।
इडया पूरयेद्वाह्यात् शंभुना वायुनोदरम् ॥
अपान मूर्द्ध्वमुत्कृष्य प्राणापानौ निरुद्ध्य च ।
कुंभेन मनसा वायुं सुषुम्नायां नियोजयेत् ॥
सुषुम्नामध्यसंस्थायां हृद्देशेशिवसंयुजि ।
मन्त्रन्नियोजयेन्मन्त्री चिच्छक्तौ मन्त्रमातरि॥
मन्त्राक्षराणि मणिवत् प्रभावन्मन्त्रदेवताम् ।
गमागमप्रयोगेन स्मरन्मन्त्रं जपेत्सुधीः ॥
वाच्यवचकसंबन्धं जपेत्तद्गतमानसः ।
मन्त्ररक्षा भवेदेषा संहिता सुररक्षिता॥
इत्थं विदित्वा यत्नेन जपकर्म समाचरेत् ।
जपकर्मक्रमस्सोऽथ सुस्पुष्टं प्रतिपाद्यते ॥
नाभ्यादिद्वादशान्तान्तं सोमसूर्याग्निरूपिणीम् ।
आनन्दरूपिणीं शक्तिं सुषुम्नान्तर्गतां पराम्॥
आघारचक्रमारभ्य बोधयित्वाऽनिलेन ताम् ।
ब्रह्माणं केशवं रुद्र मीश्वरंच सदाशिवम् ॥
हृत्कण्ठतालुभ्रूब्रह्मरन्धस्थानेषु तान्क्रमात् ।
त्यक्त्वा त्यक्त्त्वाऽस्रमन्त्रांशं विद्युल्लेखानिभं बुधः ॥
मन्त्रं नादान्तमुच्चार्य मूलाधारगतं पुनः ।
गमागमप्रयोगेण जपेत्साष्टशतं तथा ॥
अष्टाविंशतिमष्टौवा गुरुणाचयथोदितम्।
इत्थं कृत्वा जपं मन्त्री शिवसायुज्यंआप्नुयात् ॥
जपश्चाभ्यन्तर्याऽकारादिक्षकारान्तवर्णमालारूपया बाह्यया रुद्राक्षादिनिर्मितया वा कर्तव्या । तन्त्रान्तर्या जपप्रकारः कथ्यते ब्रह्मरन्ध्ने धवळाष्टदळचतुरश्रयंत्र-मुपरि श्रितं पद्मं भावनीयं । तस्य कर्णिकाकायं व्योम तत्पूर्ववर्णं चतुर्दशस्वर- विसर्जनीयसमुदायरूपं बीजं केसरेष्वष्ट स्वरद्वंद्वानि दळेषु कादयः पञ्चपञ्च वर्णाः चतुरश्रयन्त्रस्य दिक्षु सुधाबीजं विदिक्षुच सप्तमो वर्णः एवंरूपंमातृकं पद्मं भाव नामात्रेण विशेषरोगमृत्युहरम्। ततो द्वारक्रमंचानुद्ग्तवायुसंधुक्षितमूलाधाराग्निशिखाया कुण्डलिनीशक्त्या सह सुषुम्नारन्ध्रं प्रविश्य ब्रह्मरन्ध्रपर्यन्तमुद्गतेडास्यपृष्टात्तस्मा-न्मातॄकापद्मात्स्यंदितां क्षाकाराद्यकारान्तवर्णपङ्क्तिरूपाममृतबिन्दुसन्ततिं ब्रह्मरन्ध्र-प्रभृति मूलाधारपर्यन्तं व्याप्यावतिष्ठमानां भावयेत्। या कुण्डलिनी शक्तिः मूलाधाराग्निशिखासामरस्येन प्रकाशमानसुषुम्नामार्गेण ब्रह्मरन्ध्रपर्यन्तुमुद्गता सैव मामृका-पद्मविद्गुतामॄतबिन्दु स्यंदि सन्ततिसामरस् येनामृतायंआणा परमान्दरूपिणी मातृका-शक्तिरितिभावयेत् । तदाहुः- प्रकाशमानां प्रथमप्रयाणे प्रतिप्रयाणे त्वमृतायंआणाम् ।अन्तः पदव्या मनुसञ्चरन्तीमाणन्दमुद्रा मवलोकयामः इति ॥ ब्रह्मस्न्ध्रस्थितमातॄकापद्मप्रभृत्यकारादिक्रमेण मूलाधरपर्यन्तं व्याप्य स्थितायां मातॄकारूपायां शक्ताव कारादिभिरष्टभिर्वर्णैरेकोवर्गः लृकारादिभिरष्टाभिरन्यः ककारादिभिः पञ्चभिः पञ्चभिर्वर्णैस्सप्तवर्गाः । नववर्गाः क्रमादादित्यसोमबुधगुरुशुक्रांगारकशनिराहुकेतुरत्नरूपाः । माणिक्कवैडूर्यकपुष्यरागवज्रप्रवाळगुळिकाबलवैरिरत्नैः । गोमेतकैर्मरकतैश्च कॄताऽक्षमाला श्लाघ्या नवग्रहमयाखिलवर्णपूर्णा। एनामक्षमालां हृत्पुण्डरीकमध्यागत-दीपाकारपरमेश्वरप्रभारूपशब्दैः पराख्यशक्तिनिस्सॄतां विभावयेत् । तदग्रे मूलमन्त्रे नवरत्नमयकल्पलताग्रे पुष्पात् विनिस्सृतं विभाव्य क्षकारं मेरुं कॄत्वा ळकारादिक्रमेणाक्षमालायां मूलमन्त्रस्य गमागमौ विभावयेत् । तस्यांमन्त्रस्यारोहणभावनयां मन्त्रस्य शिरसि ळकारादिसहितवर्णान् विसर्जनीयसहितान् विन्यस्य अवरोहण भावनायां मन्त्रस्य अकारादिवर्णान् बिंद्वन्तान्विन्यस्य जपंकुर्यात् । एवं कृते शतं मन्त्रस्यावृत्तयो भवन्ति । तदनन्तरं षोडशस्वरवर्गस्पर्शवर्ग पञ्चकान्तस्थवर्ग ऊष्मवर्गाटके क्रमेण मन्त्रं ।विन्यस्याष्टधा मन्त्रमावर्तयत् । एवमष्टोत्तरशतसङ्ख्यजपः कृतो मूलमन्त्रेणसह तदीयान्नकारादिवर्णान् पीतकुष्णधूम्रपीतरक्तवर्णान् तद्देवतारूपतया तत्समरसीभूतान् ब्रह्मविष्णुरुद्रेश्वरसदाशिवांश्च विभावयेत् । हृत्कण्ठतालुभ्रुमध्य ब्रह्मरन्ध्रेषु क्रमेण नकारादिवर्णै स्सह ब्रह्मादीन्परित्यजेत् । अयंअर्थस्सर्वोऽपि प्राक्लिखितश्लोकेषु संक्षेपेणसूचितः । एवमाभ्यन्तराक्षमालया जप्तुमशक्तः प्रागुक्तक्रमेण जपारम्भकाले मन्त्रं मातॄकाशक्त्यारूढं विभाव्य मन्त्रमातृकाक्षराणि विभाव्य केवलमेव मन्त्रं रुद्राक्षादिकृतबाह्याक्षमालया गणयन् जपेत् ॥
तत्प्रकारः उत्तमादिक्रमेणणामलक बदर चणकप्रमाणै रवक्त्रैस्त्रिवक्त्रैश्चतुः पञ्चषट्सप्ताष्टनवदशैकादशवक्त्रैर्वा एकसङ्ख्यवक्त्रैर्भिन्नसङ्ख्यवक्त्रामिंश्रितै रष्टोत्तर सङ्ख्यै श्चतुःपञ्चाशात्सङ्यै स्सप्तविंशतिसङ्ख्यैर्वा सुवर्णरजतादिमये क्षौ मपट्टादिमयेवा-सूत्रे परस्परमुखसंयोजनेन परस्परपुच्छसंयोजनेन च स्यूतै र्मेरुसहितैः वर्णानुगुण रुद्राक्षैर्निर्मितां सद्योजातादिमन्त्रैः प्रत्मेकं शतवारावृत्तैः क्रमेणाभिमन्त्रितमेरुकां शिवपूजाक्रमेणावाहनादिभिः पूजितां जपारम्भकाले हुंफडंतास्रमन्त्रेण प्रोक्षितां हृदयेन गन्धपुष्पादिभि र्मालामुद्राप्रदर्शनेन च पूजितां दक्षिणहस्तगृहीतां वस्त्रसंगोपिता-मक्षमालां वाचिकजपे मद्ध्यंआयां निधाय तर्जन्यङ्गुष्ठाभ्यां, उपांशुजपे अनामिकायां निधायंध्यंआङ्गष्ठाभ्यां , मानसजपे कनिष्ठिकायां निधायानामिकाङ्गुष्ठाभ्यां च गणयेत् । बुभुक्षु रक्षमाला मधोनयेत् । मुमुक्षुरूर्द्ध्वं नयेत् । मेरुलङ्घनदोषे प्रायश्चित्त मघोर सहस्रजपः । तद्दोषास्पर्शनायंएरुरहीनाक्षमाला कर्तव्या । एवमक्षमालायाः पादयोः पतनेऽप्यघोरसहस्रजपः । भूमौ तस्याः पतने तत्रिंशज्जपः । वाससि पतने तच्छ्त -जपः । जपारंभकाले एकं पुष्पं दक्षिणहस्तस्य कनिष्ठिकामध्ये कृत्वा जप्तव्यं। रुद्राक्षमालिकया जपेतु तद्वहणे सौकर्याय दक्षिणहस्तेनन गॄहीतं पुष्पं वामहस्ते निधाय जप्तव्यं । अद्रुतविळंबितसावधानजपं समर्प्य वामकरतले अस्रकवच हृदयान्युपर्युपरि विन्यस्य तदुपरि जपकाले धृतं पुष्पंनिधाय हृदयकवचास्रैस्संपुटी कृत्य अस्रेणसंरक्ष्य कवचेनावकुण्ठ्य दक्षिणहस्ते पुनर्गृहीत्वा हृत्प्रदेशे निधाय पूर्णचन्द्रोपमं जपं तद्गतं ध्यायन् भूनिवेशितदक्षिणजानुर्भूत्वा हां गुह्यातिगुह्यगोप्तात्वं गृहाणास्मत्कॄतं जपम् । सिद्धिर्भवति मेयेनत्वत्प्रसादात् त्वयिस्थिते ॥ हां हौं शिवायस्वाहा श्रीपरमशिव जपं त्वयि निक्षिपामीति जपमर्घ्यांबुचुळकेन साक्षत-कुशपुष्पेण शिवस्य वरदहस्ते निवेदयेत् । अयं भुक्तिमुक्तिसाधकस्य स्वकृतजपस्य विस्मयसङ्कीर्तनकर्मनाशजलसंस्पर्शादिभिर्विनाशशङ्कया तत्संरक्षणाय शिवहस्ते निक्षेपः । मन्त्रश्लोकस्यायंअर्थः गुह्यातिगुह्यादीनां मन्त्रतत्वादीनां गोप्ता त्वमेव । अतस्सर्वगोप्तृत्वा दस्माकं जपमपि गृहाण । यस्मिन्जपे त्वयिस्थिते त्वत्प्रसादाद-स्माकं भुक्तिमुक्तिर्भवत्येव । तस्मान्मयि कृपया तत्गृहाणेति । ततः हां यक्तिञ्चित्कर्म हे देव सुकृतं चैव दुष्कृतम् । तन्मेशिवपदस्थस्य भुंड्क्ष्व क्षपय शङ्कर ॥ हां हों शिवाय स्वाहा । परमशिवायंए सुकृतंदुष्कृतञ्च निवेदयामीति सुकृतदुष्कृतात्मकं सर्वं कर्म प्रागुक्तक्रमेण चुळकोदकेन निवेदयेत्। तत्र सुकृतजातस्य भोगार्थस्य मोक्षान्तरायपरिहारार्थस्य संरक्षणार्थं निवेदयेत् दुष्कृतजातस्यक्षपणार्थम्। अत स्सुकृतं भुङ्क्ष्व पालय । दुष्कृतं क्षपय नाशयेति योजना। भोगनिस्पृहस्य केवल-मुमुक्षोस्तु शिवपूजाया मङ्गफलत्वेनानुषङ्गिकस्य मानुषादिहिरण्यगर्भानन्दान्तभोग-प्रापकस्य विषयेभ्यो जुगुप्समानं केवलं मुमुक्षुंप्रति एते वै निरयास्तात स्थानस्य परमात्मनः इति पुराणोक्तरीत्या नरकप्रापकस्य दुष्कॄतरूपतया क्षप्रणपार्थतैव । यद्यपि पालनार्थे भुजिधातोः परस्मैपदितयाभुनक्षीतिपरस्मैपदिनाभव्यं । तथाऽपि मन्त्ररूपश्लोके वैदिकमन्त्रेषु रक्षस्वेतिप्रयोग इव छान्दसोऽयं व्यत्ययोबहुळ मित्यात्मनेपदप्रयोगः । यद्वा भुङ्क्ष्वेति भोगएवोच्यते, नतु पालनम् । सुकृतशब्देनच केवलमुक्त्यर्थिनः पूजकस्य यदनिष्टं भोगार्थसुकृतं तदेवाच्यते नतुमुक्त्यर्थम-पेक्षितम् ।तद्भोगश्शिवस्यराज्ञो राजभोगवत् स्वाधीनव्यवहारः । नतु स्वयंएव भोजनम् । स्वाधीनव्यवहारश्च पूजकस्य प्रियेषु ज्ञातिषु तस्य यथाकथञ्चित् सुहृत्सुवानिवेशनम् । मुमुक्षो रनपेक्षितं सुकृतं शिवस्तस्य ज्ञातिसुहृद्भ्यः प्रयच्छतीति श्रुतिप्रसिद्धिः । यद्यपि तस्य दुष्कृतं तद्विपद्भ्यः प्रयच्छतीत्यपि श्रुतिप्रसिद्धिरस्ति। तथाऽपि शिवपूजकः सर्वमष्टमूर्तेश्शिवस्य रूपं मन्यंआन स्तान्नद्वेष्टीति तेन स्वदुष्कृतस्य स्वस्मिन्फलाजनकतरूपं क्षपणमेव प्रार्थयितुमुचितमिति तत्प्रार्थना मन्त्रे निबद्धा । ततः शिवोदाता शिवो बोक्ता शिवस्सर्वमिदं जगत् । शिवो यजति सर्वत्र यश्शिवस्सोऽहमेवतु ॥ हां हौं शिवायस्वाहा । परमशिवमात्मानं तुभ्यं निवेदयामीति प्रागुक्तरीत्या चुळकोदकेन निवेदयेत् । अत्र मन्त्रश्लोके सोहमिति भागेन स्वस्य शिवस्य च शरीरशरीरिभावः प्रतिपाद्यते । शिवस्य नियामकत्वेन शरीरित्वात् स्वस्य नियंयत्वेन सरीरत्वाच्च शरीरशरीरिभावे सोऽहमिति सामानाधि करण्यं । धर्मज्ञस्सुन्दरो राजेतिवत् । एवेति तदयोगव्यवच्छेदः । यश्शिव इति । यःपरममङ्गळवाची शिवशब्दः रूढ्या त्रिविधेनाप्याणवमायिककर्मरूपेण मलेनास्पृष्ट इति अनादिमलसंश्लेषप्रागभावात् स्वभावतः । शिव इत्युच्यते सद्भिश्शिव-तत्वार्थं वेदिभि रित्यादिषु प्रसिद्ध इत्यर्थः । अथवा शीङ्स्वप्र इतिधातो रौणादि केन वन्प्रत्ययान्तत्वह्रस्वत्वनिपातेन् शेते सामरस्येन वर्ततेऽस्मिन् कल्याणगुण जातमिति व्युत्पत्या परस्परविरिद्धौदार्यंआधुर्यविशेषज्ञत्वनिरतिशयत्वसहिष्णुत्वादि समाश्रयणीयेत्वापयोगि सकलकल्याणगुणरत्नाकर इति । नास्तियद्यदकल्याणं तत्त-दस्य कदाचन् । कल्याणं सकलं चास्ति परमात्मा शिवोयतः इत्यादिषु प्रसिद्ध इत्यर्थः । अथवा हिसिधातोस्सिंहशब्दो वशकांतौ शिवःस्मृत । वर्णव्यत्यय तस्सिद्धः कश्यपः पश्यकोयथेतिनिपातेन वष्टिशिवमिच्छतीति व्युत्पत्यासर्वभूत-हिताशासितेति । समेधयति यन्नित्यं सर्वार्थानामुपक्रमे । शिवमिच्छन्मनुष्याणां तत्करोतीतिणिचि पचाद्यचि णेरनिटीति णिलोपेच सति शिवं करोति सर्वेषामिति व्युत्पत्त्या सकलभूतहितकर्तेति । समाभवन्ति मे सर्वे दानवाश्चामराश्च ये । शिवोऽस्मि सर्वभूतानां शिवत्वं तेन मे सुराइत्यादिषु प्रसिद्ध इत्यर्थः । अथवा श्यैञ्गतावितिधातोरौणादिकेनवन्प्रत्ययस्याकारयकारलोपस्य च निपाताभ्यामयते प्राप्यते इति व्युत्पत्या भोगमोक्षार्थिभिः भजनीय इति । यद्वारे मत्तमातङ्गा वायुवेगास्तुरङ्गमाः। पूर्णेन्दुवदना नार्य श्शिवपूजाविधेः फलम्॥ सर्वमन्यत्परित्यज्य शिव एव शिवङ्करः । परो ध्येयोऽथ देवेश स्समाप्ताऽऽर्वणी श्रुती रित्यादिषु प्रसिद्ध इत्य र्थः । अथवा यद्व्यक्षरं नाम गिरेतितं नृणां सकृत्प्रसङ्गा दघ-माशुहंति तत् । पवित्रकीर्ति तमलङ्घ्यशासनं भवानहोद्वेष्टि शिवं शिवेतर इत्यादिषु सकलदुरितहर-त्वेनानुशिष्टस्य शिवशब्दस्य वाच्योयः प्रसिद्ध इत्यर्थः । शिवोयजति सर्वत्रेति ।सर्वेष्वपि लोकेषु शिव एव यजति धर्माधिकारित्वेनावतिष्ठते । कर्मवश्यसकलजी-वात्मकः स एव नियन्तेत्यर्थः । शिवस्सर्वमिदंजगत् । भूतभौतिकसकलजडप्रपञ्चात्मकः तन्नियामक इत्यर्थः । भोक्ता प्रपन्नानां पालयिता। दाता प्रपन्नानां प्रामदिके पातकाद्यन्तराये सतितस्य शोधयिता । एतानि विशेषणानि शिवे स्वात्मनिवेदनतद ङ्गोपयुक्तानि। तथाहि- नियंयस्य पूजकस्य नियामकस्य शिवस्यच नियतनियंय नियामकभावरूपशरीरशरीरिभावेन शिवंप्रतिक्तेशिवे तवाहमस्मीत्यनुसंधानमेवात्मनिवेदनम् । तदिह सोहमेवेत्यत्र तत्पदोक्तेशिवे अहंपदेन स्वशरीरकत्वं एक कारेण तदयोगव्यवच्छेदकार्थकेन तस्यनियतत्वं चानुसंधानविषयरूपं तदुपपादकम-भिहितम् । अस्य चात्मनिवेदस्य साङ्गपञ्चकत्वमाहुः-आनुकूल्यस्य सङ्कल्प प्रातिकूल्यविवर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा। कार्पण्यंइति । तत्र सर्वभूतानुकूल्याचरणतत्प्रातिकूल्यवर्जनरूपाङ्गद्वयोपपादकं सर्वोऽपि जीववर्गः पूजकं प्रति शरण्यस्य शिवस्य शरीरमित्येतदभिहितम् । तेन प्राणिमात्रे शिव पूजकेन राजशरीरे भृत्य इवानुकूल्येन वर्तितव्यं तत्प्रातिकूल्यं च वर्जनीयंइति लभ्यते । अत एवोक्तं वायुसंहितायां शिवस्य मूर्त्याष्टकनिरूपणप्रकरणे- आत्मा तस्याष्टमी मूर्तिश्शिवस्य परमात्मनः । व्यापिकेतरमूर्तीनां विश्वं तस्मात् शिवात्मकम् । सर्वोपकारकरणं सर्वानुग्रहणं तथा । सर्वाभयप्रदानंच शिवस्याराधनं विदुः देहिनोयस्य कस्यापि क्रियते यदि निग्रहः । अष्टमूर्तेरनिष्टं तत्कृतमेव नसंशयः इति ॥ रक्षिष्यतीति विश्वासेतु सर्वैरपि विशेषणैः उपपादकमभिहितम् । अहमेवेत्युक्तं स्वशरीरकत्वंतावत् स्वरक्षणविश्वासोपपादकम् । कोहि स्वशरीरं न रक्षेत् । शिव शब्दोक्तमुक्तविश्वासविरोधिरागद्वेषादिहेतुमलराहित्यं समाश्रयणीयत्वोपयोगि सकल कल्याणगुणशालित्वं सकलभूतहिताशंसितृत्वं सकलभूताहितकर्तुत्वं हितविरोधि सकलदुरितनिवर्तकशिवशब्दवाच्यत्व मित्येतत्सर्वमपि तदुपपादकं शिवोयजतिसर्वत्र शिवस्सर्वमिदंजगत् इति विशेषणद्वयोक्तं चेतनाचेतनात्मसकलप्रपञ्चनियन्तृत्वरूपं सर्वेश्वरत्वमपि तदुपपादकम् । सर्वेश्वरोहि तद्भक्ताभिलषितदानसमर्थ इति विश्वसितुं शक्यः । पालनार्थात् भुजिधातोः दैपूशोधन इति धातोश्च ताच्छील्यार्थकत्वेन भोक्ता दातेति विशेषणद्वयेनाभिहितं भक्तरक्षकस्वभावकत्वं तदीयप्रामादिकमहापात -कादिसकल दुरितनिवर्तकस्वभावकत्वञ्च तदुपपादकमिति स्पष्टमेव । गोप्तृत्ववरणेऽपि भोक्तृत्वमेवोपपादकम् । स्वायंएव रक्षकस्वभावः कथं रक्षकोभवेति प्रार्थितो नरक्षेत् । तुशब्देन देवतान्तरनिपेक्षत्वरूपकार्पण्योपपादक्ं स्वस्य देवतान्तराणाञ्च नियंयनियामकभावराहित्यरूपन्तुशब्देनोक्तमिति विवेकः ॥
एवं त्रिभिश्चुळकोदकैर्जपकियात्मसमर्पणानन्तरं पञ्चब्रह्मषडङ्गमन्त्रानपि मूलमन्त्रदशांशसंयोगेन जप्त्वा शिवमष्टपुष्पिकया पुष्पाञ्जलित्रयेण चाभ्यर्च्य पुरतः कृताञ्जलिबन्धः स्थित्वा स्तोत्रमपि विज्ञापयेत् । पञ्चावरणस्तोत्रै रन्यैरपि श्रुतिस्मृतिपुराणागमादिद्दष्टैः पूर्वाचार्यकृतैःस्तोत्रैर्वा यथासंभवं स्तुवीत । स्वकृतस्तोत्रं श्रुतितुल्यंइति पौराणिकाः ॥
॥ प्रदक्षिणविधिः ॥
एवं स्तुत्वा पुष्पाञ्जलिसमर्पणपूर्वकं साष्टाङ्गं प्रणम्य प्रदक्षिणत्रयं कृत्वा पञ्च वारं प्रणम्य पुनः प्रदक्षिणं कुर्यात् । पूजासाफल्यसिद्ध्यर्थं प्रदक्षिणमावश्यकम् । पदात्पदान्तरं गच्छेत् करौ चलनवर्जितौ । स्तुतिर्वाचा हृदिध्यानं चतुरङ्गं प्रदक्षिणम् । आसन्नप्रसवा नारी तैलपूर्णं यथा घटम् । वहन्तीशनकैर्याति तथा कुर्यात् प्रदक्षिणम् ॥ तत् प्रदक्षिणं त्रिविधम् ॥ सव्य मपसव्यं सव्यापसव्यं चेति । देवंस्वस्य दक्षिणभागेकृत्वा क्रियंआणं सव्यं । तद्विपरीत मपसव्यं । उभयं मिळितं सव्यापसव्यं । त्रिविधमपि इन्द्रदिगादीन्द्रदिक्पर्यन्तं कर्तव्यं । तत्र सव्यं ब्रह्मचारिणा मपसव्यं यतीनां सव्यापसव्यं गृहिवानप्रस्थयोरिति कश्चन पक्षः । सव्यं साधारण मपसव्यं यतीनामेव सव्यापसव्यं दीक्षितानामेवेत्यपरः पक्षः ॥

No comments