Header Ads

  • Breaking News

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - परार्थालयदर्शनम् || Shivarchana Chandrika. Astro Classes.

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - परार्थालयदर्शनम् || Astro Classes, Silvassa.
    Srimad Appayya Dikshithar's  - Shivarchana Chandrika.

    परार्थालयदर्शनम्  ॥ Astro Classes, Silvassa.

    ततः परार्थालयसमीपस्थः पूजान्ते शिवालयं गत्वा तत्सेवामपि कुर्यात् ।तत्राय् क्रमः - देवालयसमीपं गत्वा गोपुरद्वारवाह्ये वा बलिपीठस्य बाह्ये वा स्थूललिङ्गात्मकस्य विमानस्य नमस्कारं कुर्यात् । ततो भद्रलिङ्गस्य बलिपीठस्य ध्वजस्तम्भस्य वृषभस्यापि नमस्कारं कृत्वा । (श्लो) अन्तः प्रवेशे शिवदर्शनेच शिवार्चनेतत्फलसिद्धिलाभे । देह्यभ्यनुज्ञां भगवन् प्रसन्न स्त्वत्पादपद्मप्रणतायंअह्य मिति बृषभं संप्रार्थ्य बलिपीठाग्रदेशे साष्टाङ्गं शिवं प्रणमेत् । देहं वस्त्रेणाच्छाद्य नप्रणमत् । शिवस्याग्रपृष्ठ वामभाग गर्भगृहेषु च नप्रणमेत् । प्रत्यङ्मुखे चोत्तरदिङ्मुखेच लिङ्गे वामभागे प्राणमेत् । प्रणम्यच देवस्य पुरतः पुष्पाञ्जलिं क्षिपेत् । ततः प्रदक्षिणं कुर्यात् । गर्भगृहेप्रदक्षिण मर्चकस्यैव । अन्तर्मण्डले प्रदक्षिणं दीक्षितानामेव । अन्तर्हारादिषु सर्वेषाम् । तत्रान्तर्हारे प्रदक्षिण मेकगुणम् । मध्यहारेत्रिगुणम् । मर्या -दायाञ्चतुर्गुणं । महामर्यादायां पञ्चगुणम् । क्षेत्रावधौषडगुणीएवंबलकालाधिकारानु रूपेप्रदेशे एकविंशतिंपञ्चदशवा सप्त्वापञ्चवात्रीणिवा प्रदक्षिणानिकुर्यात् । अत्यन्त- मन्वसरे एकंप्रदक्षिणंवा कुर्यात्। एवंप्रदक्षिणंकुर्वन् गर्भगृहेन्तर्मण्डलेच संभावितं सोमसूत्रलङ्घनं नकुर्यात् । तल्लङ्घनवर्जनार्थं गर्भगेहे सोमसूत्रप्रभृति सव्यापसव्यंएव कर्तव्यं। ततिबहि रन्तर्मण्डलमात्रे सव्यापसव्यं । तत्वैन्द्रादि सोमसूत्रादि वाकार्यंइति प्रागुक्तम् । प्रदोषेतु वृषादिचण्डनाथान्तं वृषभं सोमसूत्रकम् । पुनर्वृषं चण्डनाथं नाळदेशस्य पार्श्वतः ॥ पुनः प्रयाया च्चण्डञ्च तथैव वृषपष्ठकम् । एवं सव्यापसव्यन्तु प्रदक्षिण मिहोच्यते। आद्यन्तं वृषदेवस्य चतुस्स्थान मुदाहृतम् । त्रिचण्डस्थानसंयुक्तं द्विस्थानं सोमसूत्रक मित्युक्तप्रकारेण कर्तव्यं । सोमसूत्रञ्च प्रासादाद्वहिर्नाळप्रदेशे प्रासादविस्तारमानं तदर्धमानं वा। तस्य लङ्घने दोषः । सूत्राद्वर्हिर्लङ्घनेतु नदोषुः तदभ्यन्तरेऽपि सङ्कटे तृणादिक मन्तर्धाय लङ्घनीयं । तृणैः काष्ठै स्तथा पर्णैः पाषाणै र्लोष्टकादिभिः । अन्तर्धानं पुनः कृत्वा सोमसूत्रं तु लङ्घयेत् इति वचनात् । क्कचिदपसव्यस्य निषेधो द्दश्यते । सोमसूत्रद्वयं यत्र यत्र वा विष्णुमन्दिरम् । अपसव्यं नकुर्वर्ति कुर्यादेव प्रदक्षिणमिति । ततो द्वारपालं नन्दिकेश्वरं च नमस्कृत्यं त्ततदनुज्ञयाऽन्तः प्रविश्य विघ्नराजं पुष्पाञ्जलिविकिरण मस्त कहातिपूर्वकं नमस्कृत्यं मण्डपं प्रविश्य देवदेवं नमस्कृत्य मस्तके हृदये वाऽञ्जलिं बद्ध्वा यथाधिकारं वैदिकागामिकं पौराणिक लौकिक द्राविडादिस्तोत्रैः स्तुवीत । तत्राचार्यस्यैव गर्भगृहं प्रविश्य सेवा । इतरेषां ब्राह्मणाना मर्धमण्डपं प्रविश्य । क्षित्रियाणा मर्धमण्डपद्वारमुखेऽवस्थाय । वैश्यानां वृषाग्रे। शूद्राणां वृषपृष्ठे। वैश्यशूद्राणां वृषाग्रे वृषपृष्ठेच गोमयेन चतुरश्रमण्डलं कृत्वा तत्रैव पुष्पाञ्चलिर्दातव्यः । एवं नृत्तमूर्त्यादीनामपिपुष्पोपहारपूर्वकं प्राणामः कार्यः । एवं प्रणामानन्तरं चण्डेश्वरं प्रणमेत् । इत्थं पीठादिचण्डान्तनमस्कारानन्तरं देवालेय संभावि ताना मपराधानां क्षाळनाय देवस्य सन्निधौ यथाशकि देवस्यंऊलमन्त्रं जप्तवा देवस्य पृष्ठीकरणं विना निर्गच्छेत् । अपराधाश्च शिवालयंअध्ये वाहनारोहण सोपानहसंचा रगोपुरप्रतिमाच्छायालङ्घन निर्माल्यस्पर्श तल्लङ्घन शिवबलिपीठमध्यसञ्चार प्रादास्पर्श रागपूर्वकतद्वीक्षण वृथाहास गानभाषण सोत्तरीयप्रदक्षिणनमस्कारैकहस्तनमस्कार वामभागादिनमस्काराकालनमस्कारप्रभृतयः । एतेषु संभावितान् वर्जनीयानपराधान् क्षमाप्य निर्गच्छेत् । एवं शिवं सेवमानेन ग्रामभूषणादिपत्रपुष्पपर्यन्तेन द्रव्येणवा संमार्जनादिना शरीरव्यापारेण वा देवलयोपकारपर्यवासायिवाङ्मात्रेणवा कैङ्कर्यं कृत्वैवसेवनीयं । प्रतिदिनं सेवाय मशक्तस्चेत् अष्टम्यादिषु सेवेत् । अष्टम्यामष्टभिर्दिवसैः पर्वणि पक्षेण संक्रान्तौ मासेनच कृतस्य पापस्य क्षयः । प्रदोषे त्रिविधकरणार्जितानां महत्तराणामपि पापानां क्षयः विषुवायनोपरागमहोत्सवादिषु सेवया शिवप्रदप्राप्तिः । ततः गृहमागत्य यथावसरं स्वल्मात्रं वा सिद्धान्तशास्त्रश्रवणं तदभ्यासंवा दीक्षितैस्सहादीक्षितसन्निधिं परिहृत्य कुर्यात् । नप्रकाश्यंइदं ज्ञान मभक्तानां वरानने । रक्षणीयं प्रयत्नेन तस्करेभ्यो यथाधनमिति वचनात् । अथ मध्याह्नसमये प्रपञ्चेन संकोचेनाष्टपुष्पिकामात्रेण वा पूजयेत् । कुतश्चिद्वैकल्यात् परिगृहीतलिङ्गार्चनालाभे तुल्यानुष्ठायिना परेणार्चिते लिङ्गे संक्षेपेणाष्टपुष्पिकामात्रं कुर्यात् । प्रणवो मातृका माया व्योमव्यापी षडक्षरम् । प्रसादेऽघोरमन्त्रश्च सप्तसाधारणामाताः ॥ एवं यथाकथञ्चित् शिवमभ्यर्च्य काले भोक्तुमिच्छ्न् सर्वस्मादपि पाकादग्र्यंउद्धृत्य तत्रार्धं शिवय निवेद्द अर्धेन यथाधिकारं वैदिकं शैवं च होमं कुर्यात् । वैदिको वैश्वदेवहौमः । शैवः चुल्लीहोमः ॥

    ॥ चुल्लीहोमः ॥
    तस्यायं क्रमः । चोल्लीं निरीक्षणादिभिस्संशोद्ध्य तत्राग्निं पूरककुंभकाभ्यां बिन्दुनाभिस्थानाभ्यां सहैकीकृत्य भौतिकबैन्दवजाठराग्नित्रयं रेचकेन निस्सार्य पिङ्गळय चुल्लिकाग्रौ निक्षिप्य तदनन्तरं अग्रये नमः सोमाय नमः । सूर्याय नमः । बृहस्पतये नमः प्रजापतये नमः सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो विश्वेभ्यो नमः । अग्रेये स्विष्टकृते नमः । इत्यग्रावाग्रेयादिपूर्वान्तमग्र्यादीन् संपूज्यस्वाहान्तैस्तत्तन्मन्त्रैर्हुत्वा तान्विसर्जयेत् ॥

    No comments

    Post Top Ad

    Post Bottom Ad