श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - निर्मल्यभोजनम् || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - निर्मल्यभोजनम् || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
निर्मल्यभोजनम् ॥ Astro Classes, Silvassa.
ततो निवेदितं तच्छेषं वा भुंजीत । शिवनिवेदितभोजने फलवचनानि बहुनि श्रुयन्ते - मदीयभुक्तनिर्माल्यं पादांबु कुसुमं दळम् । धर्ममर्थंच कामञ्च मोक्षं च ददते क्रमात् इति ॥ तन्निषेधवचनान्यपि श्रूयन्ते नधारयेत् क्कचिच्छंभो र्निर्माल्यंनच भक्षयेदित्यादीनि । एतेषां शिवदीक्षासहित तद्रहितविषयत्वेन व्यवस्था । निर्माल्यं निर्मलं शुद्ध्ं निर्मलतवादनिन्दितम् । तस्मादभोज्यं निर्माल्य मशुद्धैरशिवात्मकैः । जुह्वाचापल्यसंयुक्त श्शिवसंस्कारवर्जितः शिवनिर्माल्यभोजी चेत् रौरवं नरकं व्रजे दिति शिवपूराणवचनादिति केचित् कामिकादिसिद्धन्ततन्त्रेषु दीक्षितानामेव समयाचारविधानेन निर्माल्यं नचभुञ्जीतेति शिवभक्तान्नं न निन्दये दित्यादीनि निषेधवचनानि निर्माल्यभक्षणेऽघोरं प्रमादादयुतंजपेदिति प्रायश्चित्त- विधानानि च श्रूयन्ते।विधानानि च श्रूयन्ते । अतः स्वाद्यानिचादनीयानि पेयान्यन्यानि यानि च । देयानितानि वै शंभो रश्र्नीयाद्दासभावतः इत्यादि पुराणवचनानि वैदिकपौराणिकपाशुपतादिविहित शिवसंस्कारेण ये दीक्षितास्तेषामेव शिव्वनिर्माल्यं ग्राह्यं । नतु कामिकादिसिद्धान्ततन्त्रेण दीक्षितानामिति केचित् । कामिक एव अशुद्धात्माऽशुचि र्लोभान्मद्भुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति रसभोक्ता यथाद्विजः ॥ मल्लिङ्गधारिणोलोके देशिका मत्परायणाः मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु इति वचनात् उपवाससहस्त्राणि प्राजापत्यशतनिच । शिवप्रसादसिद्धस्य कोट्यंशेनापि नोसमाः इत्यादिवातुळागमप्रभृतिवचनदर्शनाच्च । सिद्धान्ततन्त्रे दीक्षितानामपि शिवनिवेदितं प्रशस्तमेव । शिवनिर्माल्यनिषेधप्रायश्चित्तवचनानि तु देवस्वं देवता द्रव्यं नैवेद्यञ्च निवेदितम् । चण्डभुक्तबहिःक्षिप्तमिति पञ्चविधनिर्माल्याविष्याणि । कामिके देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् । चण्डद्रव्यञ्च निर्माल्यं निर्माल्यं ष्ड्विधं भवेत् ॥ ग्रामादीशस्य देवस्वं देवद्रव्यं षटादिकम् । नैवेद्यं कल्पितं तस्मै देवोच्छिष्टं निवेदितम् ॥ चण्डद्रव्यंतु तद्दतं निर्माल्यं प्रेरितं बहिरिति निर्माल्य षाड्विध्य निर्माल्योपभोगदोपसंकीर्तन तत्परायश्चित्तोपदेशानन्तरमेव् निवेदिताख्य निर्माल्यस्वीकारानुमत्यर्थ मशुद्धात्माऽशुचिर्लोभादित्यादिसार्धश्लोकद्वयस्य पठितत्वात् । एवञ्च सिद्धान्ततत्रेषु शिवनिवेदितनिषेधवचनानि तदुक्तशिवदीक्षारहित विषयाणीत्यपरे ॥ सुप्रभेदे-सदाशिवस्य निर्माल्यं मनुष्याणां नभोजनम् । पशूनाञ्च गजानाञ्च जलेवाऽथ विनिक्षिपेत् ॥ अथवा वह्निना दह्याद्भूमौवा खातयेद्रुधः इति सदाशिवनिर्माल्यस्य मनुष्यंआत्रसाधारण्येनाभोज्यत्वं प्रतिपाद्य तस्यभूवन्हिगो गजादिष्वेव प्रतिपत्तिवर्णनाच्च सदाशिवनिर्माल्यं दीक्षितानामप्यभोज्यंएव । तेषां शिवनिर्माल्यं प्रशस्तमिति वचनानि तु सकळनिर्माल्यविष्याणि । प्रतिमासु च सर्वासु न चण्डोऽधिकृतोभवेदिति सकळेषु चण्डाधिकारनिषेधात् । कारणे सकळानाञ्च नैवेद्यं सर्वेषां भोजनं भवेदिति सकळनैवेद्यानुमतिवर्णनात् । तदपि शिवदीक्षितैस्तत्परिचारकैरेव भोक्तव्यं । सुप्रभेदे-सदाशिवस्य निर्माल्यंइत्याद्युक्त्यनन्तरं सकळनां तु निर्माल्यं परिचारकभोजनम् । तदप्यन्यजनानां तु भोजने दोषकृद्भवेत् इत्युक्तत्वादित्यपरे सदाशिवनिर्माल्यष्वपि मनुष्यादिस्थापितशिव -लिङ्गार्पितेष्वेव निषेधः । नतु चरलिङ्गादिषु तेषु चण्डाधिकाराभावात् । बाणलिङ्गे चरे लोहे रत्नलिङ्गे स्वयंभुवि । प्रतिमासुच सर्वासु नचण्डोऽधिकृतो भवेत् ॥लिङ्गेस्वायंभुवेबाणे रत्नजेरसनिर्मिते । सिद्धप्रतिष्ठितेलिङ्गे न चण्डोधिकृतोभवेत् इति च वचनादित्येके । चल्लिङ्गादिषु चण्डाधिकारो नास्तीति वचनानि वैदिक पौराणिक वामदक्षिणतन्त्रादिविषयाणि । नतु कामिकादिसिद्धान्तविषयाणि । स्थिरेचरे तथा रत्ने मृद्दारौशैलकल्पिते । लोहचित्रमये बाणे स्थितश्चण्डोनियामकः ॥ सिद्धान्ते नेतरे तन्त्रे नवामे नच दक्षिणे इति ॥ अव्यक्तव्यक्तलिङ्गेषु मण्डले स्थण्डिलेऽनले । चरे स्थिरे तथा रत्ने मणिचित्रादिके तथा । गन्धान्नसंभवे लिङ्गेमृद्धस्मफलकल्पिते । तथा पुष्पमये लिङ्गे चण्डपूजा नियामिकेति च कालोत्तरा दिषु विशेषदर्शनात् । अतो निर्माल्यविधिनिषेधयोश्चरशिरादिविषयत्वेननव्यवस्था । किन्तु निर्माल्यविशेषविषयत्वेन । तांबूलं भस्म तैल च गन्धपुष्प मपूपकम् । फलादि भक्षणद्रव्यं निर्माल्यंइति नोच्यत इति भ्रातृपुत्राणां भगिनीनां च दापयेति चरुद्दष्टान्तवचनात् । कारणेस्फाटिकं बाणलिङ्गञ्च स्थापितं चरमेव वा। तन्निवेदितनिर्माल्यं न निर्माल्यं प्रकल्पयेत् ॥ बालानां युवतीनाञ्च भोजनं बलवर्द्धन मित्यनिर्माल्यत्वप्रतिपादनाच्च चरलिङ्गादिनिवेदितान्नमपि भोज्यंएव । किन्तु पूजकस्य न भोज्यं । नैवेद्यं भ्रातृपुत्राणा मित्यादिविशेषवचनात् । तांबूलादिमात्रस्य ग्राह्यत्ववचन्तु मनुष्यदिस्थापिलङ्गविषयंइत्यपिकेच्॥ नैवेद्यं कल्पयित्वातु शिवायेतितदूर्द्ध्वतः । निवेद्यं मह्यंउच्छिष्टं भुङ्क्ते प्रत्यहमादरात् । सोऽयं मत्सद्दश्ः प्रोक्तः चरुद्रव्यस्तथाभवे दिति कामिके निवेदनकर्तुरपि तदुच्छिष्टभोजनप्रति पादनात्पूजकस्यापि शिवनिवेदितं भोज्यंएव । तस्य निवेदितभोजननिषेधवचनानितु संहाररुद्रादिनिवेदितविषयत्वेनयोज्यानीत्यपि केचनवदन्ति । सदाशिवामूर्तौ परमशिवावाहनपुरस्सरं तत्पूजानिरूपणावसानएव तन्निवेदितनिषेधस्यदिव्यागमेषुबहुशश्श्रवणात् । विधिनिषेधसहस्त्रशबळितं सर्वविधमपिशिवनिर्माल्यं वर्जनीयंइत्येवयुक्तम् । श्रुयतेचमहान्दोषः श्रूयतेच महाफलम् । फलं तत्रपरित्याज्यंदोषोहिबलवत्तर इति वचनात् । नचकामिके पत्रंपुष्पं फलं तोयंअन्नं पाद्यंअथौषधम् । अनिवेद्य न भुञ्जीत भगवन्तं सदाशिवमित्यनिवेदितभोजनेऽपि निषेधःश्रूयते इति वाच्यं ।तस्यातिथिसत्काररहितभोजननिषेधव त्तच्छेषभोजनविधिपरत्वसंभवात्, ’अन्नाद्यंऔषधं तोयं पत्रं पुष्पं फलादिकम् । शिवाय दत्वातच्छेषं भोज्यं भुञ्जीत बुद्धिमानिति सिद्धान्तशेखरे तथैवप्रतिपादनाच्चेत्येवमितरेवर्णयन्ति । एवं निर्माल्यविधिनिषेधवचनानां विचारे नव पक्षास्सपन्नाः । शिवसंस्काररूपदीक्षावतामेव शिवनिर्माल्यानुमतिरन्येषान्तन्निषेध इत्याद्यः पक्ष्ः शिवसंस्कारवत्स्वपि वैदिकदीक्षावतामेवात्याश्रमिप्रभृतीनांतदनुमतिः नतुकामिकादिसिद्धान्ततन्त्रोक्तदीक्षावतां तन्निषेधतद्भक्षणप्रायश्चित्तविधानदर्शनादिति द्वितीयः पक्षः निवेदितव्यितिरिक्त पञ्चविधनिर्माल्यविषय एव निषेधप्रायश्चित्तोपदेशः । निवेदितं तु तेषामपि ग्राह्यंइति तृतीयः पक्षः । निवेदितमद्ध्येऽपि शिवलिङ्गनिवेदितनिषेधात् सकळनिवेदितमेव ग्राह्यंइति चतुर्थः पक्षः । शिवलिङ्गनिवेदितं न सर्वनिषिद्ध्ं, किन्तु मनुष्यादिप्रतिष्ठापित स्थिरलिङ्गनिवेदितमेव । चरलिङ्गादिनिवेदितन्तुग्राह्यं । तत्र चण्डाधिकारा भावादिति पञ्चमः पक्षः कामिकादिगत निवेदितनिषेधतदनुमतिवचनानां स्थिरचरादिविषयतया न व्यवस्था , कामिकादिसिद्धान्तमार्गो चरादिपूजायामपि चण्डसद्भावात् । किन्तु अन्नादिविषयो निषेधः फलापूपतांबूलादिविषयाऽनुमतिरिति व्यवस्था । तदितरेषुविशेषवचनसद्भावादितिषष्ठः पक्षः चरलिङ्गादिनिवेदितमन्नादिक मपिग्राह्यंएव । किन्तु भ्रात्रादिभ्योदेयं , नतु पूजकनभोक्तव्यंइति सप्तमः पक्षः । शिवार्पणबुद्ध्याशिवनिवेदितं पूजकेनापि भोज्यंइत्यष्टमः पक्षः । फलनिषेधवचनयोर्निषेधवचनस्य बलीयस्त्वात् सर्वस्यापिशिवनिर्माल्यस्यवर्जनमेव युक्तमिति नमवःपक्षः ॥एतेषु नवमः पक्षस्तावदत्यन्तमयुक्तः । शिवनिर्माल्यस्वीकारे महाफलप्रतिपादकानां बहूनां दिव्यागमपुराणादिवचसा मप्रामाण्यप्रसङ्गात् । नह्यार्षेषु वचनेषु वर्णमात्रमप्यप्रामाण्यं सहते । नितरां शिववाक्येषु । येष्वर्थवादकतया । प्रामाण्योपापादनमपि महते प्रत्यवायायेति सर्वदिव्यागमघण्टाघोषः । ’श्रूयतेच महान्दोष इत्यादि वचनं तु यत्र विधिनिषेधयोरुभयोरप्यन्यत्रप्रामाण्यावकाशः तत्र तयोःद्वयोः क्काचिन्मेळने निषेधोबलीयानित्येतत्परम् । यथाद्वादश्यामामलकप्राश्स्त्यवचन प्रामाण्य मर्कवारमेळ्नरहितद्वादश्यां सावकाशं अर्कवारे तन्निषेधवचनप्रामण्यं द्वादशीमेळनरहितेऽर्कवारे सावकाशम् । द्वादश्यर्कवारमेळने सात्यामामलकफल निषेधवचनद्वयप्राप्तौ निषेधवचनं बलीय इति । फलवचनानां सर्वथैवाप्रामाण्योप पादकं निषेधवचनानां बलीयस्त्वंतु प्रामाणिका नाद्रियन्ते । अतो विधिनिषेध वचनानां विषयव्यवस्थाप्रदर्श्नमेव युक्तम् ।
(श्र्लो) तां तु प्रदर्शयिष्यामः पूर्वदर्शितवर्त्मना । सर्वागमाविरोधेन सर्वशैवानुमोदिनीम् । शैवानां भोजनं त्रिविधम् । शिवपूजासमाप्तौ बाह्यकुण्डे शिवाग्निकार्यवत् तदनन्तरं शिवाग्निकार्यान्तर मात्मभोजनमिति भावनयैकम् । नैवेद्यसमये निवेद्यंआनद्रव्याणां रूपार्पणात्मकं शिवे निवेदनस्यारम्भमात्रकृत मात्मभोजनन्तु शिवाय तद्रुच्यर्पणात्मकनिवेदनपूरणमिति भावनया द्वितीयं । प्रथमं निवेदनसमय एव परस्वदादियागीयहविरिव सूक्ष्मरूपतया नैवेद्य रुच्यासह शिवेन उपभुक्तमेवात्मभोजनं शिवदासस्य कर्म तदुच्छिष्टस्वीकरणरूपमिति भावनया तृतीयं । तत्राद्यं सुप्रभेदे वह्निकार्यपटलेप्रपञ्चितम् -अग्निकार्यस्य चान्तेतु प्राणाग्रौहोममाचरेत् । तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ॥ गृहेवाऽपि प्रकर्तव्यं प्राणाग्नियजनं परम् । तत्स्थानं गोमयालिप्तं शुद्धं कृत्वा विशेषतः ॥ पिष्टचूर्णैरलंकृत्यसवितानं सदीपकम् । सौवर्णं राजतं ताम्रं कांस्यं वा कदळीदळम् । पात्रमेतत्तु सङ्ग्राह्यंशोधयित्वा यथार्हकम् ॥ पात्रेऽशेषाणि संयोज्यस्वात्मस्थं शिवमर्चयेत् । आत्मातु यजमानोऽसौ बुद्धिस्तत्पत्निकास्मृता ॥ केशरोमाणिदर्भास्स्युर्जिह्वाद्या यज्ञपात्रकम् । हृत्पुण्डरीकवेद्यं तमन्तस्थाग्रौ सुपूजयेत् ॥ रोमदर्भान्परिस्तीर्य प्राण्वं शिवसंयुतम् । उच्चार्य परिषिच्याथ शिवेनोद्भुक्ष्य मन्त्रवत् । शिवमन्त्रं जले जप्त्वा ब्रह्माण्यङ्गान्यनुक्रमात् ।शिवं ध्यात्वा शिवायेति जलं पीत्वा हृदा पुनः ॥ शिवाय जुहुया दीशमन्त्राद्यैर्ब्रह्मपञ्चभिः मध्यंआनामिकाङ्गुष्ठै रादायान्नं शनैश्शनैः यच्चामृतेत्यादिनैव जलं पीत्वा विशेषतः । पञ्चाहुतीश्च जुहुयात् प्राणमन्त्रैस्तु पञ्चभिः ॥ पात्रसंस्पर्शनं कृत्वा पश्चाद्भुञ्जीत साधकः । आचम्य च विधानेनादित्याभिमुखसंस्थितः ॥उदरं शिवमन्त्रेण सव्येनाभिमृशेत्ततः । दक्षिणांङ्गुष्ठकेनांभः पादाङ्गुष्ठे तु दक्षिणे ॥ स्त्रावयेत्तु शिवं स्मृत्वा हृन्मन्त्रं तु समुच्चरन् । चुळकोदकमेतत्स्यात् स्वात्मनः पादमूलतः ॥ प्राणाग्निहोत्रमित्येवं नित्यंएतदुदाहृतम् । अग्निकार्य मिद्ं प्रोक्तं शृणुत्वं कुण्डलक्षणमिति ॥ इदं भोजनमनिवेदितान्नेनैव कर्तव्यं । तदर्थमनिवेदितान्नसद्भावः परार्थपूजाया मेकभागं निवेद्यं स्यादेकभागं हुतं भवेत् । एकभागंं तु बल्यर्थं शेषमाचार्यभोजनमिति आगमवचनैर्दर्शितः । आत्मार्थपूजायां पाकादर्धं समुद्धृत्य तस्यार्धं शंभवेऽर्पयेत् । अग्रावर्धेन जुहुयात् तद्विधिश्च निगद्यत इत्यादि चुल्लीहोमप्रकरणागमवचनैर्दर्शितः द्वितीयभोजनन्तु वातुळोत्तरेदर्शितम् रूपं समर्प्य द्रव्यस्य रुचिमप्यर्पयेच्छिवे । उभयार्पणहीनं चेत् नैवेद्यं निष्फलं भवेत् ॥ तत्तप्रसादभोगान्तंनैवेद्यार्पणमुच्यते । प्रसाददानहीनं चेत् नैवेद्यंअपि निष्फलमित्यादिना । इदमारब्धासमाप्तनिवेदनक्रियेणान्नेन कर्तव्यं । नैवेद्योपचारसमये देवस्य पुरतो यन्नैवेद्यं निहितं तस्य तदानीं रूपार्पणेनारब्धानिवेद्नक्रिया रुच्यर्पणपर्यन्त मनुवर्तत इति तदेवारब्धासमप्तनिवेदनाक्रियंअन्नम् । तच्चं देवपित्राद्युद्देशेन दत्तमन्नं तत्समर्पणबुद्ध्येव पूजकश्शिवसमर्पण बुद्ध्या भुज्जीत । तत्तृतीयं भोजनं । मल्लिङ्गधारिणो लोके देशिका मत्परायणाः मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु ॥ स्वाद्यनिचादनीयानि पेयान्यन्यानि यानि च । देयानितानिवै शंभो रश्रीया द्दासभावतः ॥ दासमार्गप्रपन्नाये शैवे पाशुपते स्थिताः । तैरेव पेयं भोज्यं चाघ्रातव्यञ्च मुमुक्षुभि नैवेद्योपचारसमये यन्निहितं तत्तदनीमेव सूक्ष्मरूपेण रुच्यासहशिवेनोपभुक्तमिति निवेदितमुच्यते । तदेव शिवोच्छिष्टं शुश्रूषार्थं ब्राह्मणदास्यं प्रपन्नश्शूद्रस्तदुच्छिष्टमिव शिवदास्यं प्रपन्नः भुञ्जीत । एवञ्च शिवनिर्माल्ये यानि सामान्यतो निषेधवचनानि तानि शिवदास्यभावनारहितपशुरूपमनुष्यंआत्र विषयाणि । यानि तु दीक्षितान् शिवदास्यभावनावत एवाधिकृत्य तन्निषेधवचनानि तानि निवेदितातिरिक्तपञ्चविधनिर्माल्यविषयाणीति व्यवस्थाद्वयं प्राचीनैरेव दर्शितम् । अत्र द्वितीयव्यवस्था निर्माल्ये षड्विधे भोज्यंएकमेव निवेदित मित्याद्यागमप्रसिद्धा प्रथमव्यवस्था शिवपुराणे स्पष्टं प्रपञ्चिता । तत्राहि अनर्हं मम नैवेद्यं पादांबुकुसुमं दळम् । इतिश्वरेण कथितमिति केचिन्महार्षयः वदन्ति तत्कथं स्वामिन् यथार्थं कथयस्वमे इति जैमिनिप्रश्रे देवदेवस्य वचसोविषयस्तत्र जैमिने । ये वीर भद्रशपिताश्शिवभक्तिपराङ्मुखाः । शंभोरन्येषु देवेषु ये भक्ता ये न दीक्षिताः । ये शुद्धकर्मिणश्शिभक्तिपराङ्मुखाः शंभोरन्येषु देवेषु ये भक्ता ये न दीक्षिताः ये शुद्धकर्मिणश्श्म्भो रन्यत्र समबुद्धयः ॥ तेषामनर्हमीशस्य तत्प्रसादचतुष्टय मिति व्यासवचनं द्दश्यते । अन्यानि चादीक्षिताना मभक्तानां शिवनिर्माल्ययोग्य मित्यर्थे कामिकादिप्रसिद्धानि वचनानि प्रागुदाह्रुतानि । ननु शिवनिर्माल्यं सकलपातकहरं सकलव्याधिनिवर्तक मखिलयत्रफलप्रद मशेषतीर्थस्त्रानतुल्यं भुक्तिमुक्त्येक साधनमिति शिवशास्त्रज्ञैरुद्धृष्यते भक्तिदीक्षारहितैर्नभक्ष्यं नस्प्रष्टव्य मित्यप्युच्यते । कथमेतदुपपद्यते । तथ सकलपापनिवर्त नशक्त्यादियुक्तं सर्वप्रायश्चित्तादि वच्छिवनामकीर्तनवद्वा सर्वसाधारणीभवितुमेवहि योग्यं । कथं केषाञ्चित् परिहरणीयं स्यात् । अतश्शिवनिर्माल्यं निकृष्टमित्येव केषाञ्चित् परिहरणीय मासीदिति कुतो नभवति । हरदत्ताचार्यैरपि सममुक्तरीत्योत्कर्षापकर्षसाधारण्येनैवोक्तम् - ’उत्कर्षतः परिहरत्यपकर्षतो वा का वासना भवति कस्य कृते न विद्मः । यद्दीक्षितस्य पतितस्य च तुल्यरूपं प्रत्यादिशन्ति मुनयः कमनीयंअन्नम् ॥ चण्डाल चण्डिलचितानल शौण्डिकानां गोब्राह्मण ज्वलनदीक्षितयोषितां वा । स्पर्शःकथं भवति भावनया निषिद्धः स्पृष्टेषु वा शिवकथा विहिता विशुद्धिः ॥ वर्जयान्नमाहुरपि दीक्षित मग्निकल्पं भोज्यान्नमेव कृतराजपरिक्रयं तम् । शङ्खास्थि पावन मपावन मस्थिनृणामित्थं स्थिते वचनमत्र परायणं नःइति॥ तस्माद्विविच्येदं कथनीयंइति । किमुत्कर्षतः शिवनिर्माल्यं केषांचित्परिहरणीयं अपकर्षतोवेति । उच्यते । शिवनिर्माल्यं सकलपापहरत्वादिसर्वोत्कृष्टगुणशालीत्यत्र तावन्नविवादावकाशः । येषु पुराणागमेषु केषांचित्तन्निषेधः कृतः तेष्वेव तथाविधगुणशालीत्यपि प्रतिपादितत्वात् । श्रूयन्तेहिपुराणागमेषु वचनानि- पादोदकं च निर्माल्यं भक्त्या धार्यं प्रयत्नतः । न तं स्पृशन्ति पापानि मनोवाक्कायजान्यपि ॥ भक्षये द्यो नरो भक्त्या पवित्रमिति शंसितः । शुद्धात्मा ब्राह्मणस्तस्य पापं क्षिप्रं विनश्यति ॥ मत्प्रसादोदकं पुष्पं सदा धार्य मिहाश्रितैः । रोगिभिश्च विशेषेण विषदिग्धैश्च यत्नतः ॥ स्वेष्टलिङ्गे च यद्दत्तञ्चरुवत्तन्नसंशयः । राजसूयसहस्रस्य फलं प्राप्नोति नारद । पृथूदकं महातीर्थंगङ्गा च यंउनानदी । नर्मदा सरयूर्विप्रास्तथा गोदावरीनदी । सदासन्निहितास्त्वेता श्श्ंभोः स्न्रानोदके मुने । शंभोस्स्नानोदक्ं सेव्यं सर्वतीर्थमयं हि तत् ॥ अयुतं योगवां दद्याच्छ्रोत्रियायाहिताग्रये । मम पादजले स्न्रात्वा तत्फलं समवप्नुयात् इत्यादीनिच ॥ वैद्यशास्त्रेच - निर्माल्यसलिलं प्राश्य देवदेवस्य शूलिनः क्षयकुष्ठज्वरश्वासैर्मुच्यते किल्बिषै रपि इति ॥ रामायणेऽपि -तत्र देवर्षिगन्धर्वा वसुधातलवासिनः । भवांगपतितं तोयं पवित्रमिति पस्पृशुरिति ॥ भागवतेऽपिकि वा शिवाख्य मशिवं नविदुस्त्वद्न्ये ब्रह्मादयस्तदवकीर्यजटाःश्मशाने । तन्माल्यभस्मनृकपालवसत्पिशाचैर्ये मूर्द्धभिर्दधति तच्चरणावसृष्टमिति ॥ एवं परमपावनस्यापि शिवनिर्मालस्य स्पर्शे केषांचिन्निषेधश्शिवलिङ्गस्पर्शे निषेध इव तोषमनधिकारप्रयुक्त एव । यथाहि पूर्वं लौकिकशिलाविशेषरूपमपि शिवालिङ्गं प्रतिष्ठासंस्कारेण निरस्तमायाविकारभूताशुद्धरूपं चिन्मयं जातमिति तदनन्तरम् दीक्षितानामस्पृश्यंआशीत्, एवं निर्माल्यंअपि निरीक्षणादिसंस्कारवृन्देन तथाभूतं जातं तदनन्तरं शिवेन स्वोपभोगयोग्यंइत्युपभुक्तञ्चेत्यतिविशुद्धं जात मतस्तेषामस्पृश्यंआसीत् । स्पृश्यंआसीत् । एतदभिप्रायेणोक्तं वातुळोत्तरेसुप्रतिष्ठितलिङ्गेषु न यथापूर्वभावना । तथा शिवप्रसादस्य पूर्वनामनसंस्मरेत् इति ॥ एवंभूतं शिवनिर्माल्यं दीक्षया विधूतकल्मषाणां छिन्नपाशानांशिवभक्तानामेव शिवलिङ्गमिव स्पृश्यं तदाज्ञया भोज्यञ्च । ते हि शिवभक्तश्शिवदीक्षया प्रतिदिवसपरिचीयंआनभूतशुद्धिदण्डमुण्ड कलान्यासेन च शिवलिङ्गवच्छिवनिर्माल्यवच्चाप्राकृतरूपा स्संपन्नाः हस्तपादादि साधर्म्याद्रुद्रान्ममवपुर्धरान् । प्राकृतानेव मन्वानो नावजानाति बुद्धिमान् इति वायु संहितावचनात् । यत्तुसकलपापहरत्वादिगुणवत्वे सर्वप्रायश्चित्तवक्तिमिति सर्व साधारणं नजातमिति शङ्कितं तदप्येतेन निरस्तम् । अतिशुद्धशिवनिर्मल्यस्पर्श एवान्येषा मनधिकारस्योक्तत्वात् । नहि ब्रह्महत्यादिमहापातकहरमिति अघमर्षणादि वैदिकसूक्तं वेदश्रवणेऽप्यनधिकारिणामत्रैवर्णिकानां साधारणं भवति । नच तावता वैदिकसूक्तस्य कश्चिदपकर्षः । किंचोत्कर्ष एव । तदभिप्रयेणैव पुराणोष्वीश्वरवचनं अशुद्धात्माऽशुचिर्लेभान्मद्भुक्तं पावनं परम् । भक्षयन्नाशमाप्नोति शूद्रोह्यध्ययना दिव इति ॥ यत्तु शिवनामवदतिविशुद्धमपि शिवनिर्माल्यं सर्वसाधारणं किमिति न जातमिति शङ्कितं तत्र ब्रूमः । अतिविशुद्धमप्राकृतमपि शिवनाम शिवाज्ञया सर्व साधारणं जातम् । तद्धटितं वैदिकं पञ्चाक्षरं जीवरत्नमपि । तथाहि वायुसंहितायाम् कलौ कलुषिते काले दुर्जयेदुरतिक्रमे । अपुण्यतमसाच्छन्ने लोके धर्मपराङ्मुखे ॥ क्षीणेवर्णसमाचारे संकरे समुपस्थिते । सर्वाधिकारे संदिग्धे निश्चिते वा विपर्यये ॥ गुरुपदेशेविहितेगुरुशिष्यव्यतिक्रमे । केनोपायेन मुच्यन्ते भक्तास्तव महेश्वरेत्यंबिकायाः प्रश्ने । शिववचनम् - आश्रित्यपरमां विद्यां हृद्यां पञ्चाक्षरीं मम । भक्तयाच भावितात्मनो मुव्यन्ते कलिजानराः ॥ मनोवाक्कायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः । दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् ॥बद्धानां वक्रमनसा मपि मत्प्रवणात्मनाम् ॥ मम पञ्चाक्षरीविद्या संसारभयतारिणी । मयैव मसकृद्देविप्रतिज्ञातं धरातले ॥ पतितोऽपि विमुच्येत मद्धक्तो विद्ययाऽनये ति ॥ पुनश्च कर्मयोग्यो भवेन्मर्त्योऽपतितो यदि सर्वथा । कर्मायोग्येन यत्कर्म कृतं तन्नरकायहि ॥ ततः कथं विमुच्येत पतितोविद्ययाऽनयेति अंबिकाप्रश्र्ने। शिववचनम् सत्यंएतत् त्वया प्रोक्तं तथाऽपि श्रृणु सुन्दरि । रहस्यंइति मत्वैतत् गोपितं यन्मया पुरा ॥ स्वकर्मपतितो मर्त्यः पूजयेद्यदि मोहतः । नारकी स्यान्न सन्देहो मम पञ्चाक्षरं विनेति ॥ एवं शिवाज्ञयासर्वसाधारण्यापादनादेवेदमाज्ञा सिद्धमित्यपि तत्र व्यवहृतम् । तदल्पाक्षर मर्थाढ्यं वेदसारं विमुक्तिदम् । आज्ञासिद्ध मसंदिग्धं वाक्य मेतच्छिवात्मकमिति । तस्मादतर्कनीयश्शिवनाम्नो महिमेति तस्यपतितचण्डालादिसाधारण्यं युक्तमेवेत्यलं प्रपञ्चेन ॥ प्रकृतमनुसरामः ॥
यत्तु सदाशिवस्य निर्माल्यं मनुष्याणां नभोजनमित्युदाहृतं , तच्चण्डसमर्पित सदाशिवनिर्माल्यविषयं ॥ कामिके निर्माल्यं तुसमानीय चण्देशाय निवेदयेत् । यतो निर्मलतां याति तन्निर्माल्यं प्रकीर्तितम् ॥ चण्डस्याचमनं दत्वा निर्मालयन्तु विसर्जयेत् । अगाधेऽभसिवाऽग्रौवा गवां वा विनिवेदयेदिति चण्डसमर्पणानन्तर मेव जलादिषु प्रतिपत्तिविधानात् । तत्रैव -चण्डभोज्यं दुराधर्षं वर्जनीयं प्रयत्नतः इति देवस्वं चण्डभोज्यं वा नान्यभोगाय कल्प्यत इति च चण्डद्रव्यस्य सर्वाभोज्यत्वप्रतिपादनेन तावन्मात्रस्यैव जलादिषु प्रतिपत्यपेक्षत्वाच्च । नन्वेवं सति सर्वमपि शिवलिङ्ग निर्माल्य मभोज्यंएवेत्युक्तं भवति । लेह्यचोष्यान्नपानादि तांबूलंस्त्रग्विलेपनम् । निर्माल्यं निखिलं तुभ्यं प्रदत्तं तु शिवाज्ञयेति चण्डसमर्पणमन्त्रलिङ्गानुसारेण सर्वास्यापि शिवनिर्माल्यस्यचण्डायसमर्पणीयत्वावगमादिति केचित् । मैवम् । कामिके - परार्थपूजायाम् ऎशान्यां पूजयेच्चण्डं गन्धपुष्पादिभिः क्रमात् । तस्मै समर्पयेत्सर्वं निर्माल्यं यत्प्रकल्पितमिति सर्वस्य निर्माल्यंस्य चण्डेशाय समर्पणीयत्वपक्षमुक्त्वा लिङ्गमूर्ध्निस्थमित्येके पिण्डिकास्थमथापरे । ऐशान्यापिण्डिकास्थंवा बाह्येचण्डगृहेनयेदिति गन्धपुष्पनिर्मालयैकदेशसमर्पणपक्षस्याप्युक्तातया त न्नयायेननिवेदितान्नेऽप्येकदेशसमर्पणपक्षाङ्गीकारोन्नयनात् । अन्यत्रय शिवोपभुक्तं स्त्रग्गन्धमन्नपानादिकं तथा । निवेदितमिति प्रोक्तं सर्वपापहरं परम् ॥ निर्माल्ये षट् विधे भोज्यंएकमेव निवेदितमिति चण्डद्रव्यात्पृथक्निवेदितसद्भावस्य तद्भोज्यतायाश्च साक्षादेव प्रतिपादनाच्च । आत्मार्थपूजायां तु नैतच्छङ्कावकाशः । कामिकएव शिव पूजानिरूपणानन्तरं ’अन्ते चण्डेश्वरं यजेदित्युपक्रम्य बाणे लोहे चले सिद्धे न चण्डेशस्स्वयंभुवीति चण्डपूजानिषेधात् । अजितेऽप्यात्मार्थपूजायाम् - न द्वारिपूजा कर्तव्या न चण्डेशनिवेदनम् । नाममन्त्रहविस्तत्र न नित्योत्सवमेवच इति तत्प्रति षेधात् ।यदितु प्रागुदहृतकालोत्तरवचनानुसारेण चण्डपूजाक्रियते , तथाऽपि न दोषः । अंशुमति चण्देशार्चनपटलेषु केवलंसहजं चैव स्वतन्त्रं च त्रिधामतम् । आत्मार्थं केवलं प्रोक्तं मण्डलेतु समर्पयेत् ॥ यामाङ्गं सहजं ज्ञेयं चण्डरूपं प्रतिष्ठितम् । ग्रामाङ्गं चेत् स्वतन्त्रंस्याच्चण्डेश्स्यार्चनं त्रिधेति चण्डेशार्चनत्रैविधयंउप क्रम्यात्मार्थयजनान्तचण्डपूजायां विलेपनं च दानं च दत्वा तन्मूलमन्त्रतः । नैवेद्यं चैवतांबूलं तन्मूलेनैव दापयेदिति पृथगेव गन्धपुष्पादिकमुक्त्त्वा केवलस्यार्चन प्रोक्तं सहजस्यार्चनं श्रृणु । अन्तर्मण्डलदेशे तु मण्डलस्य च गोचरे ॥ चण्डेशं स्थाप येद्विद्वात्रिर्माल्येनैवचार्चयेदिति यामाङ्गचण्डेश्वरपूजायामेव निर्माल्यसमर्पणस्योक्तत्वात् । सिद्धान्तसारावळ्यामापि चण्डपूजाप्रकरणे -नैवेद्यं तद्विधानोक्तं दत्वा तांबूलसंयुतम् ॥ यामाङ्गश्चेच्छिवेनोपभुक्तं चापि निवेदये दित्युक्तत्वाच्च। सदाशिवस्यनिर्माल्यं चण्डेशायसमर्पयेदिति आत्मार्थपूजागतसूक्ष्मवचनानुरोधेन चण्डेशाय निर्माल्यसमर्पणपक्षेऽपि नदोषः । परार्थपूजोक्तरीत्या तदेकदेशसमर्पणसंभवात् । स्मृतिनिबन्धनेषुच विष्वक्सेनाय दातव्यं नैवेद्यञ्च शतांशकम् । पादोदकं प्रसादं चलिङ्गे चण्डेश्वराय चेतिनिवेदितशतांशस्य चण्डांशस्यैव चण्डभागत्व प्रतिपादनाच्च । एवं सदाशिवस्य निर्माल्यंइति सुप्रभेदवचनस्य कामिकवचनाद्यनुसारेण यत्सदा शिवनिर्माल्यं चण्डेशाय समर्पितम् तन्मनुष्याणांनभोज्यंइत्यर्थः ॥ अथवैवं तद भिप्रायः शिवस्य निर्माल्यं शिवदास्यभावरहितानां पशुप्रायाणां केवलमनुष्याणां नभोज्यं । अतः काम्यतया परार्थपूजाया मात्मार्थपूजायांवा समृद्धमहाहविर्निवेदने सति तावद्भोजनासमर्थानां देवालये परिचारकाणां पूजकगृहवासिना मन्येषाञ्च शिवदीक्षावतां शिवभक्तानामलाभे तेभ्योदत्तवशिष्टं यथाकथञ्चिन्मनुष्पमात्रेन दातव्यं । किंतु गोगजेभ्यो देयं । अगाधेऽम्भस्यग्रौवा क्षेप्तव्यं भूमौ वाखातव्यंइत्येतत्परम् । यथाऽश्व्मेधादिक्रतुषुऋत्विजां हविश्शेषभक्षणसामर्थ्या भावेऋत्विग्भ्योदत्तावशिष्टंहविरनुपनीतेषु वर्णान्तरेषु नदातव्यत् । किंतूपनीतेषु ब्राह्मणादिषु दातव्यंअग्रौ वाक्षोप्तव्यंइत्येतत्परं हविश्शेषान्भक्षयितु मृत्विजश्चेन्न शक्रुयुः । विप्रेभ्यस्संप्रयच्छेयुः क्षिपेयुर्वा हुताशन इति वचनम् । यथावा ब्रह्मणोच्छिष्टभोक्तृ तद्दासशूद्राभावे तदुच्छिष्ट मप्सुक्षेप्तव्यं भूमौवाखातव्यंइत्येपर मशक्तौभूमौ निखनेदप्सुवा प्रवेशये दितिवचनम् । एतदभिप्रायेणैवोक्तं हरदत्ताचार्यैः यद्बाह्मणस्त्वमसिनाकसदां निकाये तुभ्यं निवेदितमभोज्यंइति स्मरन्ति । अच्छिष्ठमीश्वर विशिष्टमपि द्विजानां भूमौ निखेय मथवाऽम्भसिमज्जनीय मिति । अस्य श्लोकस्य उच्छिष्ट भोक्तृदाससद्भावेऽपि तदुच्छिष्टं भूमौ निखेय मंभसिवा मज्जनीयंइति न तात्पर्यं। उच्छिष्टमन्नं दातव्यंशीर्णानि वसनानिचेति दासेन प्रपन्नाय शुश्रूषुशूद्रायोच्छिष्टदान स्मरणात् ॥ जीर्णान्युपानच्छत्रवासः कूर्चान्युच्छिष्टाशनं शिल्पवृत्तिश्चेति शुश्रूषुशूद्र-धर्मस्मरणाच्च। एवमेव तुभ्यं निवेदितं भोज्यंइत्यत्रापि शिवनिवेदितभोजनार्हस्य शिवदास्यं प्रपन्नस्यालाभे यस्मैकस्मैचिन्नदातव्यं किन्तु खननादिनैव तत्प्रतिपादनीय मिति तात्पर्यं । इत्थमनेन श्लोकेनाचार्यै रुत्कर्षतएवनिर्मल्यं दासादिरिक्तैः परिहार्यं नत्वपकर्षत इति विभावितमेव । उत्कर्षत इत्याद्यनन्तरश्लोकैस्तु शिवोत्कर्ष निरूपणग्रन्थे तत्प्रसादोत्कर्ष निरूपणं नोपयोगीति विभावनाय प्रौड्यसममुक्तरीति रवलंबिता । यानितु स्वेष्टलिङ्गसमर्पितमपि भ्रातृपुत्रभगिन्यादिभ्य एव देयंइत्येवं प्रतिपादितानि तान्याग्निकार्यरूपभोजनकर्तृशिवार्चकविषयाणि। तेन तत्स्वयंभोक्तुमशक्यं । शिवाग्निकार्यरूपस्वभोजनेनैव प्रसङ्गात् आपत्तिरूपस्वकार्य स्यापि सिद्धेः । अदिक्षितेभ्यस्तु तद्दानंप्रतिषिद्ध्ं इष्ट्यादि हविश्शेषवदुपेक्षापरिहाराय न्यायतो भक्षणे-नैव प्रतिपादनीयं । दीक्षितानाञ्च तद्भोजनं महाफलप्रदम् । अतः केभ्यो देय मित्याकाङ्क्षयां स्वगृहदीक्षावत्वेऽपि येऽग्रिकार्यानधिकारिणः स्रीबालादयस्तेभ्योदेय मित्येवंपराणि । यत्तु कामिके निर्माल्यलङ्घनं कृत्वा दक्षिणस्यायुतं जपेत । लङ्घनेन समस्स्पर्श स्समे विक्रयभक्षणे इति लङ्घ्ननिर्माल्यस्पर्शेऽपि दीक्षितानां प्रायश्चित्तविधानम् । यच्च यन्निर्माल्येन संस्पॄष्टं तद्भुजा पुरुषेण वा। पादोनं तत्र पूर्वोक्तं स्पर्ह्स्लङ्घनभक्षण इति निर्माल्यतद्भक्षयितृस्पृष्टस्य स्पर्शे प्रायश्चित्तविधानं तत्र सर्वत्रापि निर्माल्यपदं बहिः क्षिप्तनिर्माल्यविषयं । तस्मिन् प्रायश्चित्तप्रकरणे देवस्वं देवताद्रव्यं नैवेद्यञ्च निवेदितम् । चण्डद्रव्यं च निर्माल्य निर्माल्यं षड्विधं भवेदिति बहिः क्षिप्ते विशिष्य निर्माल्यसंज्ञाकरणात् । पिण्डिकारथं न निर्माल्यंअपिदेवे विसर्जित मितिदेवविसर्जनानन्तरमपि बहिः क्षेपर्पयन्तस्पर्शप्रायश्चित्तपरिहाराय प्रायश्चित्तविधानगतनिर्माल्यशब्दानां सर्वनिर्माल्यविषयत्वे तत्र बहिः क्षिप्तेति विशिष्य निर्माल्यसंज्ञाकरणस्य वैयर्थ्यप्रसङ्गात् । निसर्जनानन्तरमपि बहिः क्षेपपर्यन्तं निर्माल्यत्वाभाववर्णनस्यासामञ्चस्यप्रसङ्गाच्च । देवभूम्यादिस्पर्श तत्संस्पॄष्टस्पर्शेषु दोष भावेन स्पर्शप्रायश्चित्तगतनिर्माल्यशब्दानां विशेषविषयत्वावश्यंभावाच्च । बहिः क्षिप्तञ्च तदुच्यते यन्महाहविर्निवेदनादिषु भक्तपरिचारकेभ्यो दत्तवशिष्टं गोगजादिभ्यो बहिनीतं जलादिषु क्षिप्तं बहिर्बल्यर्थं दत्तं
तत्सर्वं वचनबलाद्धूपोपस्थाननान्तरंधूपव दस्पृश्य मेव ।
नन्वेवं तर्हि तत्र निर्माल्यभक्षणादिप्रायश्चित्तोपदेशानां बहिः
क्षिप्तमात्रविषत्वे देवस्य देवताद्रव्यनिवेद्यचण्डद्रव्याणां
भक्षणादिषु प्रायश्चित्तविधानं नलभ्यत इति चेन्न ।
तत्रैव निर्माल्यभक्षणोपेक्षणदानविक्रयलङ्घनस्पर्शेषु,
निर्माल्यतद्भक्षयितृस्पृष्टभक्षणलङ्घनस्पर्शेषुच प्रायश्चित्तविधानानन्तरं
देवायतनवस्त्वन्यद्देवग्रामादि संभवम् ।
व्रीह्यादियेनकेनैवोपाधिनाऽऽदायभक्षणम् ॥
करोति यस्स संमूढोमलिनःस्तेनकृन्मत इत्यादिना देवस्व
देवताद्रव्यनिवेद्यचण्डद्रव्याणां भोगदानयोःपृथगेवस्तेयप्रायश्चित्तवर्णनात् ।
सूक्ष्मागमे -निर्माल्यस्य निवेद्यस्य लङ्घने दानकर्मणि ।
चान्द्रायणं चरेत्तत्तुगोनागानां विनिक्षिपेदिति निर्माल्यात्पृथक्
निवेद्यग्रहणादपि प्रायश्चित्तोपदेशगतनिर्माल्यशब्दानां विशिष्य
निर्माल्यसंज्ञिक बहिः क्षिप्तमात्रविषयत्वं ज्ञायते ।
अन्यथा तेषां षड्विधनिर्माल्यपरत्वे निवेदनस्यापि
तदन्तर्भूततया प्राक् निवेदनग्रहणं व्यर्थं स्यात् ।
यत्तु कामिक एव स्नानपानीयदुग्धाद्यैर्यदि सिक्रो भवेत्तदा ।
स्नायात् प्रक्षाळयेत् द्वेधानाभे रूर्द्ध्वमधस्तथा ॥
चललिङ्गेऽप्ययं न्यायोविहितो यज्ञमन्दिरे
इति शिवस्याभिषेकसमये अभिषेकजल
दुग्धदध्यादिकरण सेकेनाप्यूर्द्ध्व
तदधोगात्र विभागेन स्नानप्रक्षाळन विधानं ,
तत् शिवाभिषेकजलादिचिन्दूनामर्चकं
प्रति अपवित्रताभिप्रायेण न भवति ।
शिवाभिषेकजलादिप्राशस्त्यस्य प्राक्प्र पञ्चितत्वात् ।
किन्तु तदनन्तरमर्चकेन करिष्यंआणं शिवस्य
गन्धविलेपनादिकं त न्निर्माल्यसंसिक्तगात्रेण कर्तुमयुक्तम् ,
गुरोरभ्यङ्गस्नपनं कृतवता तत्तैलबिन्दुसंसिक्त गात्रेण
शिष्येण गुरोर्गन्धविलेपनादिकमिवेत्याभिप्रायेण ।
एवमन्यान्यप्येवं संभावि तानि वचनानि नेतव्यानि ।
तदित्थमग्रिकार्यबुद्ध्या भुञ्जानै र्निवेदितशेषं भोक्तव्यं ।
दास्यबुद्ध्या भुञ्जाने र्निवेदितं भोक्तव्यंइति व्यवस्था निरवद्या ।
तथाच वायुसंहितायामपि दर्शितम् -
ततस्स्वयञ्ज भुञ्जीत शुद्धमन्नं यथासुखम् ।
निवेदितंवा देवेशे तच्छेषं वाऽऽत्मशुद्धये ॥
श्रद्दधानो नलोभेन न चण्डाय समर्पितम् ।
गन्ध माल्यादि यच्छान्यत्तत्राप्येष समो विधिः ॥
नतुतत्र शिवोऽस्मीति बुद्धिं कुर्याद्विचक्षण इति ॥
निवेदितं भुञ्जानः स्वहृत्पुण्डरीकान्तरवह्निमध्यगतशिवभावनय स्वस्य शिवाग्निकार्य रूप शिवपूजाकर्तृतामभिप्रेत्य श्रीशिवोऽहमिति बुद्धिं न कुर्यात् ।
किन्तु शिवदास्यबुद्धिमेव कुर्यादित्यर्थः ।
एवं निवेदितान्नभोजनं कुर्वता प्राणाहुतयोऽपि निवेदितेनैव,
कर्तव्याः प्राणाग्रिहोत्रं यः कुर्याच्छिवस्यैव प्रसादतः ।
अश्वमेधायुतं पुण्यं सिद्धे सिद्धे भवेन्नरः इति शिवपुराणवचनात् ॥

No comments