श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - भोजनविधिः || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
अथ भोजनविधिः ॥ Astro Classes, Silvassa.
स्वाहान्तैः स्वसूत्रोक्तमन्त्रैःहुत्वातान्विसर्जयेत् ।
एवमग्निकार्यं निर्वर्त्यधौताङ्घ्रिकर स्ममाचान्त श्शिवभक्तैस्सदाचारैस्सहितो हीनजाती यानदीक्षितानेकपङ्क्तौ परिहरन् भोजनस्थानमासाद्य पीटे प्राङ्मुख उपविश्य चतुरश्रेण हस्तमानेनाचार्यपुत्रसाधकसमयिक्रमेण चतुस्रिद्व्येकरेखाङ्कितपरितोभस्मरेखांकितेन मण्डले नभूषितभूतले सुवर्णरजतताम्रलोहान्यतमनिर्मितं कांस्यनिर्मितं वा सप्तधा भस्मना शोधितमघोराभिमन्त्रितं तदभावे कदळीपलाशपद्मचूतमधूकाद्यनिन्दितपत्रं वा पात्रं निवेश्य तत्र घृतेनोपस्तिर्य परिवेषितं द्विरभिघारितं सव्यंञ्जनं शुद्धमन्नमस्रेण संप्रोक्ष्यत्र्यक्षरमृत्युञ्जयपूर्वकेण मृत्युञ्जयाय वौषडिति मन्त्रेण सप्तवारमभिमन्त्र्य यथावर्णं परिषेचनादिकं कृत्वाग्रासार्द्धमात्रेणात्रेन नागकूर्मक्रकर देवदत्तधनञ्जयेभ्यः उपप्राणवायुभ्यः स्वाहेति स्वस्यदक्षिणभागे मोमयोपलिप्ते मण्डले दद्यात् ।
ततस्सव्य हस्तकनिष्ठिकया स्त्रवणेन नागादिभ्यश्चुळकोदकं दत्वा माषामज्जनार्हं शिष्टजलममृत मन्त्रेण प्राश्य प्राणाहुतिपञ्चकं कुर्यात् । तेन प्राणापानव्यानोदानसमानानां क्रमेण तदावाहिताना मात्मभूतयोनयः पाताळतलवासिनः पितरो देवा इत्येतेषाञ्च तृप्तिंभावयेत् । ततो यथाकिञ्चिदुच्छिष्टान्नमादाय नरकवासिभ्यःस्वाहेति भूमौ दत्वा उत्तरापोशनानन्तरं तच्छेषजलं कनिष्ठाङ्गुळ्यानि स्राव्य हस्तोद्वर्तनादि शुद्धाचमनान्तं कर्म कृत्वा भुक्तदोषशुद्ध्यर्थं दक्षिणकराङ्गुष्ठजलेन दक्षिणपादाङ्गुष्ठाग्रस्थकालाग्रिरुद्रं सेचयेत् ।
अनिवेदितभोजिनां तु भोजने विशेषः प्रागेव सुप्रभेदोदाहरणेन दर्शितः । निवेदितभोजिनामनिवेदितभोजिनाञ्च भोजनकालादन्यन्न यदन्यदौषधतांबूलपानीयादि भोज्यं गन्धपुष्पादि भोग्यं वोपतिष्ठते, तत्सर्वं मनसावादेवाय समर्प्यैव भोक्तव्यं । पत्रं पुष्पं फलं तोय मन्नपानाद्य मौषधम् । अनिवेद्यनभुञ्जीत भगवन्तं समाहित इति कामिकवचनात् । उपभोगाय पुरतो वस्तु यद्यदुपस्थितम् । तत्तत्समर्प्य देवाय विदधीतात्मसा त्ततः इति वातुळवचनाच्च । यत्तु- अन्नाद्यंऔषधं तोयं पत्रं पुष्पं फलादिकम् ।
शिवस्य दत्वा तचछेषं भिज्यं भुञ्जीत बुद्धिमा नित्यौषधादे र्निवेदित शेषस्य बोजनविधानं , तत् कार्यार्थमनिवेदितभोजनं कुर्वतो भोजनमध्यग्राह्यौ षधादिविषयं । अन्यत्र शिवदासानां शिवोच्छिष्टमेव ग्राह्यं । किञ्च भक्तेन यक्तिञ्चित्फलमुद्दिश्यया क्रिया लौकिकी वैदिकीवा कर्तुमिष्यते सा सर्वाऽपि शिवाराधन रूपेति भावेन कर्तव्या । तत्तत्क्रियाजन्यसुखमपि शिवस्तद्भोक्तेति शिवे समर्प्यतद्भुक्तमेव सुखं मया भुज्यताइति भावेन भोक्तव्यं । एवं विनैव स्वयत्नमुपनता श्शब्द स्पर्शरूपरसगन्धाख्या विषयाश्च शिवसमर्पण पूर्वकं तदुच्छिष्टबुद्ध्यैवस्वेन्द्रियैरनुभवितव्याः तत्तद्विषयानुभवजन्यंसुखमपि तदुच्छिष्टबुद्धयैवभोक्तव्यं ।
या या क्रिया विधाताव्या प्रस्तुता जायते पुरः । तां तां कुर्यान्महादेवसमर्पितधिया सुधीः ॥ इन्द्रियादागतं किञ्चिद्यत्सुखं तच्छिवार्पितम् । कृत्वा प्रसादं भोक्तव्यं तदिन्द्रिय मुखेनचेतिवातुळ्श्र्वणात् ॥ तदर्धंच भक्तेन सदा सावधानेन भाव्यं । संयोगेषुवियोगेषु सावधानोनिरन्तरम् ॥ गच्छन्तिष्ठन्स्वपन्जाग्रद्भुञ्जानो मैथुनेरतः ॥ यश्शिवार्पितचेतस्कोभक्तिमांस्तु नचान्यथे तिबृहत्कालोत्तरे श्रवणात् ।
एवं क्रिया समर्पणपूर्वकं क्रियां कुर्वतः विषयसमर्पणपूर्वकं विषयाननुभवत स्तत्तज्जन्यसुख समर्पणपूर्वकं सुखं भुञ्जानस्य च सावधानस्य भक्तस्य पूर्वजन्मवासनान्ते क्कचित् क्कचित् प्रमादान्निषिद्धक्रियां कुर्वतोऽपि निषिद्धविषयाननुभवतोऽपि निषिद्धसिखं भुञ्जानस्यापिनपापलेपोभवति ।
किंतुसर्वं शिवसमाराधनमितिभावयत स्सर्वमपि शिवप्रीतय एव भवति । तत्रात्मभोगार्थं नृत्तावलोकनहर्म्योपवनदीर्धिकादिक्रीडारूपां क्रियामारभमाणस्तत्तत्क्रियासमये संभावितानां वाक्पाणिपादपायूपस्थरूपकर्मेन्द्रिय व्यापारसाध्यानां श्रोत्रादिज्ञानेन्द्रियपञ्चके वागादिकर्मेन्द्रियपञ्चके च क्रमेणाधिष्ठातृत्वेन सन्निहिताना मीशानादीनां श्रोत्रादिवागादीनि स्वकीयश्रोत्रादिष्वैक्येनानुसंधाय तत्तदिन्द्रियव्यापारसाद्ध्यसुखान्यैशानादि मूर्तिरधिष्ठात्राशिवेनानुभूयंआनानि विभाव्य तान्येव सुखानि शिवोच्छिष्टबुद्ध्या स्वयं भुञ्जीत ।
अयत्नोपनमद्विषयसुखसमर्पणं तत्तद्विषयोपभोगसमयेषुसावधानेनकर्तुमशक्तः प्रातर्वाशिवपूजावसानेवाभविष्यदेत त्समयपर्यन्तं भावितायत्नोपनमच्छन्दरूपरसगन्धात्मकविषयानुभवतज्जन्यसुखानि शिवायार्पयामीति युगपदेवार्पयेत् । एवं युगपद्विषयार्पणं हृदयादिषु वा हृदयादि स्थानभावितस्यसांवशिवस्य श्रोतादिषुवा, हृदयादिस्थानभावितस्य सदाशिवस्य क्रमादीशानादिमुखगतश्रोत्रादिषु वा स्वकीयश्रोत्राद्यैक्येन संहितेष्वीशानादीनां श्रोत्रादीषुवा कर्तव्यं । सर्वत्रापि समर्पणे नमोन्तशिवमन्त्र एवमन्त्रः । तस्यच शिवायेदं नममेति अर्थो भावनीयः सनार्थो मकारस्य जीववाधकस्य षष्ठ्यन्तततया लभ्यत इति सर्वमेतदतिरहस्यं ।
एवं प्रतिदिनंप्रातश्शिवचिन्तनंशक्यस्त्रानविभूतिरुद्राक्ष धारणसंध्योपासनपूर्वकं त्रिकालंद्विकालमेककालंवा चत्वारिंशता षोडशभिर्दशभिः पञ्चभिरुपचारे रष्टपुष्पिकामात्नेण वा शिवं पूजयन् यथावसरंशिवशास्त्राण्यधीयान श्शिवकथास्समाकर्णयन् भोजनकाले शिवाग्निकार्यबुद्ध्या शिवनिवेदितशेषं वा शिवदास्यबुद्ध्या शिवनिवेदितंवा स्वीकुर्वन् अन्यत्तांबूलपानीयगन्धपुष्पादिभोग्यजातं शिवसमर्पितं जानन् चिकीर्षितं कर्मजातं तत्फलरूपाणां सुखानां शिवोपभोग्यत्वं विभाव्य शिवाराधनबुद्ध्या कुर्वाणः स्वयत्नमनपेक्ष्य उपनतानपि विषयान् तत्तद्विषयोपस्थितिसमयेषु युगपद्वा शिवार्पितान्विदधानः सर्वाण्यपि सुखानि शिवोच्छिष्ट बुद्ध्यैवानुभवन् बहिर्लौकिककार्यविचारकालेप्यनन्तशिवनामानुसन्धानेन सफलयन्न न्तरध्वनि गमागमाभ्यां विहरतीं निरतिशयप्रकाशाममृतरूपिणी मानन्दलेखामपि समयेष्वाकलयन् पञ्चाक्षरपरदेवता मशेषोपनिषदन्विष्यंआणचरणांबुज मखिलदेवता सार्वभ्ॐअ मपाकरुणांबुधि माश्रितरक्षाधुरन्धर मंबिकयासह निजहृदयजलरुहकुहरे विहरमाणमानन्तसन्दोहमूर्ति परमशिवमनवरतमन्तर्द्दशावलोकयन् इष्टबन्धुभिस्सह सुखमासीत् ॥
वेलूरधीशचिनबोम्मविभोरुदारे,
चित्ते च धामनि चिरादभिवर्धमानाम् ।
अर्चाविधां पशुपते रमराभिनन्द्य
मित्थं समाचकलमीश्वरशासनेन ॥
सद्राजयोगनिजचंचुरनाहताज्ञा
शक्त्यादिसारसमुदञ्चितदिव्यतेजाः ।
आवाहनक्रमकलानिपुणोऽतिधीरः
श्रीबोम्मभूपतिलकश्शिवपूजकस्सयात् ॥
करोतु ज्वरकण्ठेशस्स्वकीयार्चनचन्द्रिकाम् ।
आकल्पस्थायिनी मेनां द्दुस्थले चन्द्रिकामिव ॥
हरिः ओम् ॥ शुभमस्तु । गुरुभ्यो नमः ॥
भजामिज्वरकण्ठेशमृत्युञ्चयपदांबुजम् ।
यदाश्रितो नखव्याजाद्भाति जैवाकस्सदा ॥
इति श्री शिवार्चनाचन्द्रिका समाप्ता ॥

No comments