Header Ads

  • Breaking News

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - पाद्यादिप्रकारः || Shivarchana Chandrika. Astro Classes.

    श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - पाद्यादिप्रकारः || Astro Classes, Silvassa.
    Srimad Appayya Dikshithar's  - Shivarchana Chandrika.
    पाद्यादिप्रकारः ॥ Astro Classes, Silvassa.

    वामहस्तेन सत्रिपदीकं पाद्याचमनार्घ्यपात्रमुत्क्षिप्य पाद्यंईश्वरतत्वान्त माचमनं सदाशिवतत्वान्त मर्घ्यं शिवतत्वान्तञ्च विभाव्य पाद्यादिकं पूजकस्येश्वरसदा-शिवतत्वप्रापकञ्चह् ध्यात्वा मूलाधारादुत्थितं प्रासादादिमन्त्रं पाद्यादिक्रमेण भ्रुमध्यब्रह्मरन्ध्रद्वादशान्तपर्यन्त मुच्चरन्तं विभावयन् हां हौं शिवायेति मन्त्रक्रमेण नमस्स्वाहास्वधान्तमुच्चारयन्सद्योजातादिक्रमेण सपुष्पेणोत्तानेन दक्षिणकराङ्गुष्ठमध्यंआ नामिकाग्रेण श्रीपादयोस्सव्यवामक्रमेण पाद्यं मुखेषु तत्पुरुषादिक्रमेणाचमन मूर्धस्वीशानादिक्रमेणार्घ्यं च दद्यात् । सुगन्धि पुष्पं ज्ञानमयं शिवसायुज्यहेतुंच ध्यात्वा मन्त्रं द्वादशान्तोपरिस्थितशिवपर्यन्तमुच्चरन्तं विभाव्य वौषडन्तमन्त्रेण मूर्द्धस्वी-शानादिक्रमेण निवेदयेत् । अंबिकाया अपि पाद्यादिकं तत्रतत्रैव समये पदार्थानु-समयेन दद्यातु । एवं गन्धादिष्वपि द्रष्टव्यं । तत्र शिवायैनम श्शिवायै स्वधेत्या दयो मन्त्रा इति विशेषः । ततः स्वाहान्तमूलेन धूपदीपौ पूर्वोक्तप्रकारेणाच मनार्घ्येच शिवाभ्यां दत्वा अस्रमन्त्रेणापि वस्रेण पिण्डिकाधोभागं वामहस्तेन स्पृशन्नेव दक्षिणहस्तेन पुष्पं गृहीत्वा तेन पुष्पेण पूर्वार्चित मपोह्य तत्रुरुषञ्च विसृज्य पूर्वोक्तप्रकारेणाभ्यङ्गादिकं सर्वं मनसा विभाव्य हां शिवतत्वायनम इति अर्घ्योदकबिन्दुना संस्त्राप्य पूर्ववत्पाद्याचमनार्घ्याणि दत्वा स्वाहान्तमूलेन वस्त्रद्वय मुपवीतद्वयं च साचमनं दत्वा हामात्मतत्वाधिपतये शिवायनमः हां विद्यातत्वाधिपतये शिवाय नमः हां शिवतत्वाधिपतये शिवायनमः इति पुष्पाञ्जलित्रयं शिवायै नम इति देव्यै पुष्पाञ्जलिञ्च कृत्वा संभावितैर्मनसा विभावितैश्च हेमांबरकटकमकुटकर्णिकाङ्गद-केयुरादिभिराभरणैर्नमोन्तमूलमन्त्राभ्या मलङ्कृत्य गन्धपुष्पाणि समर्पयेत् । तत्र गन्धं हिमजलघृष्टसमभागगोरोचनाकुङ्कुमचन्दनैलाकर्पूरकृष्णागरुदारुकुष्ठकस्तुरिकाक्षोदो । समभागचन्दनागरुकर्पूरकुङ्कुमपत्रजलाशीरक्षोदोवा। समभागेनतदर्धेन तदर्धेनवा कर्पूरेणयुक्तचन्दनागरुकुष्ठकुङ्कुमक्षोदोवा । समभागचन्दनागुरुकर्पूरकुङ्कुमक्षोदोवा । समभागचन्दनकर्पूरमृगमदकुङ्कुमक्षोदोवा। फलस्य निष्कप्रमाणांशेन यथासंभव-मात्रेण कर्पूरादियुक्तचन्दनाक्षोदोवा केवलचन्दनक्षोदोवा। केवलबिल्वखण्टक्षोदोवा। केवलकृतमालखण्डक्षोदोवा । सर्व एवमन्धाश्शिवस्यातिप्रियकराः केव-लजलघृष्टकेवलदेवदारुगन्धोऽपि कल्पयर्यन्तं शिवलोकप्राप्तिकरः केवलबिल्व- खण्डोऽपि अत्र महदैश्वर्यंप्रदाय परत्र शिवप्राप्तिकरः । केवलकृतमालगन्धोऽपि दीर्घमायुः प्रदाय परत्र गाणापत्यप्राप्तिकरः । एवं भूताश्चन्दनगन्धाः फलतोद्विगुणाः । शुक्लगरुश्चन्दनात् षट्गुणः ततः कृष्णागुरुर्द्विगुणः । तस्माच्चतुर्गुणं कुङ्कुमम् । तत्र प्राग्गणितप्रकारेण कर्पूरादियोगेन भूयान्विशेषः । एवं भूतेषु गन्धेषु संपन्नं गन्धमर्घ्य-पात्रोक्तालक्षणपात्रे निधाय देवस्यानुलेपनोचितानि ललाटादीन्यङ्गानि भावयन् लिङ्गपीठिकायर्याप्तं लिङ्गपार्याप्तं यथालब्धंवा गन्धं हॄदयंअन्त्रेण समर्पयेत्। ततो विंशत्यङ्गुळविस्तारे अष्टाङ्गुळोत्सेधे अष्टाङ्गळोत्सेधविस्तारपादे पार्श्वद्वयगताष्टाङ्गुळनोळे नाळपादरहितपिधानसंयुते तदर्धप्रमाणेव सुवर्णादिमये पत्रादिरचिते वा पात्रे निहितै र्मुकुळपतितशीर्णाघ्रातसजन्तुकाङ्गसंस्पृष्टलूतातन्तुवेष्टित पर्युषितवस्रसमाहृतत्वादि दोषरहितैस्सम्यक्षोधितैः मोचितवृन्तैः प्रशस्तपुष्पैः मूलमन्त्रेण मृगमुद्रयाऽर्चयेत् ।प्रशस्तानिच पुष्पाणि द्रोणवत्पुन्नागमन्दारनन्द्यावर्त श्रियावर्तकरवीरार्कवकुळ कुरवकलोध्रशतपत्र धुत्तुरपलाशपाटल चंपककृतमालकर्णिकार मुनिमातुळिङ्गार्जुन प्रियङ्गुदेवदारु तमालग्निगन्ध मरुवकाशोकभद्रापरजिता कतलकल्हार रक्तोत्पल नीलोत्पल कुसुम्भकुङ्कुम गिरिपुष्पकुशापामार्गभृङ्गराजपूगसरळकोविदार कदम्बाम्रमधूक जम्बूहेमाकुलिगुञ्जामुसलीवेजिकाजार्जी मल्लिकापट्टिकामालती लक्ष्मीनिर्गुण्डी-विष्णुक्रान्तिकदळीशारिबादेवताळी द्विकण्ठी ग्रन्धिपर्णी प्रभृतीनि । एतेषु शुभ्रवर्णानि पुष्पाणि सात्विकानि मुक्तिप्रदानि । अरुणवर्णानि राजसानि भोगप्रदानि । पीतवर्णानि मिश्राण्युभयप्रदानि सर्वकार्यसिद्धिकराणि पुत्रपौत्रवृद्धिकराणिच । कृष्णवर्णानि नीलोत्पलव्यतिरिक्तानि तामसानि वर्जनीयानि । तान्यप्यतसीकूरण्ड विष्णुक्रान्तादीनि विशेषविहितानि पुष्टिप्रदानि तत्र सर्ववर्णानि पुष्पाणि समाहृत्यार्भ्यचन मुत्तमम् । कृष्णावर्णौर्विना मध्यंअम् । सितरक्तादिभिर्वर्णौ रेकवर्णौश्च पुष्पैरर्चन मुत्तरोत्तरं कनिष्ठम् । मालिकास्तु प्रत्येक मेकैकवर्णैः पुष्पैर्निर्मिताः श्रेष्ठाः । अनेकवर्णपुष्पनिर्मिता मध्यंआः । पत्रपुष्पनिर्मिताः कनिष्ठाः । अर्क करवीरपुष्पबिल्वपत्र गन्धपत्रिका पुण्डरीक सहस्रपत्र बक धुत्तुर द्रोणापामार्ग कुशशमीकृतमाल शङ्ख व्याघ्री सदाभद्रा कृष्णानि निर्गुण्डी बॄहती श्वेतार्क बृहद्द्रोण नीलो-त्पलन्युत्तरोत्तरं सहस्रगुणफलानि । तत्रार्कपुष्पं दशसुवर्णदानतुल्यं । नीलोत्पलं सहस्र सुवर्णपुष्पार्चनतुल्यं । तुळसी कृष्णतुळसीद्रवल्ली विष्णुक्रान्ती श्यामा प्रियङ्गुनृपपुण्ड्रपुषापादीनि अर्कसमानानि । नन्द्यावर्तविजयशतपत्र मन्दार चूतमधुकश्वेतगिरिकर्णीमालती कदळी शारिबादिपुष्पाणि करवीरसमानि । लक्ष्मी सहदेवी नागदंति चंपकादीनि बिल्वपत्रसमानि । पाटलवकुळादीनि पद्मसमानि । जाति मल्लिका मधूर शङखनाग सूर्यावर्त सिंहकेसर महाभद्रादिपुष्पाण्यपामार्गसमानि । जपा कदम्ब पुन्नाग पुष्पादीनि द्रोणसमानि । अशोकश्वेतमन्दारपुष्पाणि यवगोधूम नीवारशालिवेणु तिलक मुद्र निष्पावोशीरमापाङ्कुराणि सप्तदिनप्रवृद्धानिच कृतमालपुष्प समानि । वज्रपद्मराग मरकतमौक्तिकेन्द्रनील महानील सूर्यकान्तेन्दुकान्तानि पुष्पाणि सहस्रसुवर्णपुष्पाणि करवीरनीलोत्पलसमानि। नीलोत्पलं सर्वोत्तममिति सर्वागम-सिद्धम्। क्कचिदागमे करवीर मन्यत्र बकपुष्पमपरत्र गिरिपुष्पं सर्वोत्तरमित्युक्तम् । पद्मं सर्वोत्तममिति केचित्। कालविशेषेण पुष्पविशेषप्राशस्त्थम् । यथा - कदम्बचम्पक कल्हार पुन्नाग कुश बृहती पुष्पाणि वसन्तऋतौ शिवपूजाया मश्वमेधफल-प्रदानि । ग्रीष्मे पाटली मल्लिका शतपत्रपुष्पाणि अग्निष्टोमतुल्यानि । प्रावृषि कमलमल्लिकापुष्पाण्यश्वमेधसद्द्शानि। शरदि धुतुर कल्हार सुजात नीलोत्पलानि सत्रयागफलप्रदानि । हेमन्ते करवीर सुजातनीलोत्पलानि शाक्रतुसमानि । शिशिरेकर्णिकारपुष्पं सर्वक्रतुफलप्रदम् । तथा ज्येष्ठीदिषु द्वादशसु मासेषु अर्कबिल्वापा-मार्ग द्रोणनीलोत्पल पङ्कजकृतमाल बृहती व्याघ्र शमी चम्पक पाटली पुष्पाणि प्रशस्ततमानि । तथा नन्द्यावर्त श्रीयावर्तश्वेतार्क श्वेतकमल पलाश पुन्नाग मालती पाट्टिकारक्तागस्त्य वकुळ लक्ष्मी द्विकण्ठी वेजिकापाटल पलशाशोक कदळी शङ्खिनी पुष्पाणि प्रातः कालपूजायां प्रशस्ततमानि। द्रोणकरवीर कृतमाल धुत्तुर व्याघ्री बृहती पाटलकमलोत्पल चंपककुरण्डपुष्पाणि मध्याह्नपूजायां । चम्पकधुत्तुरमालतीमल्लि कावेजिकबलकर्णिसहभद्रा भद्रामसल्यतसीशमीशङ्खपुष्पाणि गन्धपत्रञ्च सायङ्काल पूजायां । जाती नीलोत्पलकनककदम्ब स्थलकमल केतकपूग पुन्नाग दन्ति ह्रीबेरं बिल्वपत्रं चार्धरात्रपूजायाम् । कदम्बकनक जातीपुष्पाणि रात्रावेवसमर्पणीयानि। माधव्यानन्दयूधिका मदयन्तिका शिरीषसर्ज बन्धूक विहित कुमुद डाडिम लाङ्गली श्रीपर्णी कार्पास निम्ब कूश्माण्ड शल्मली शिन्दितवोट गिरिवट मत्स्याक्षि कपित्थतिंतृणी पुष्पादीनि वर्जनीयानि । केतकीनिषेधोऽर्धरात्रव्यतिरिक्तविषयः । कदम्बनिषेधो दिवाविषयः । गिरिकर्णिकानिषेधोनीलगिरिकर्णिकाविषयः किंशुक निषेधः कण्टककिंशुकविषयः । एवं जपावकुळादीनामपि क्कचिद्विहितानामागमान्तरे निषेधस्य फलभेदानुसारिणा पूजाभेदेनवा तत्तत्पूर्वाचारप्राप्ततत्तदागमानुसारिपूजाभेदे नव पूजनीयंऊर्तिभेदेन वा व्यवस्था द्रष्टव्या । निषिद्धान्यपि पुष्पाणि मण्टपालंकारादिषु ग्राह्याणि । पत्रेषु बिल्वतुळसी कृष्णतुळसी दर्भ दूर्वापामार्ग करवीर नन्द्या वर्त शमीसहा धातकी विष्णुक्रान्ति भद्रा महाभद्रा जातीजम्बुकबदरोदुंबर चूत पलाश मुनिद्वय टङ्कोलकोरण्ड गिरिकर्णीद्वय रुद्रवर्णी भूपत्म ह्रीबेर मदनमरुवक-द्रोणद्वय सिन्दुवार शंखिनी गोक्षुर वकुळ कृतमालादिपत्राणि प्रशस्तानि ।पुष्पेषु नीलोत्पलवत्पत्रेषु बिल्वपत्रं प्रशस्ततमम्। तुळसीद्वयं प्रशस्ततरम् । येषां पुष्पाणि प्रशस्तानि तेषां पत्राण्यपि प्रशस्तान्येव । पद्म नीलोत्पल कुटज चंपक जाति कर-वीर नन्द्यावर्त श्रियावर्तबिल्व बॄहतीद्वय पाटलीपुष्प बिल्वपञ्चक तुळसीद्वय दूर्वाग-स्त्य गन्धपत्राकारं शिवपुष्पपत्रेषु स्वाभिमतं यत्किञ्चित्पत्रष्पाकारं वा सौवर्णपुष्पं पत्रञ्चातिप्रशस्तम्। अञ्जलिपूरकै स्सुवर्णपुष्पौर्विद्यादेहशिवावाहनं अष्टोत्तरशतेन एकाशीत्या पञ्चाशता पञ्चविंशत्या वा सुवर्णपुष्पैः प्रतिदिनमर्चनं चासङ्ख्येयफलदम् । सुवर्णपुष्पसंपादनाशक्तौ सुवर्णशकलैर्वा रजतपुष्पैर्वाऽर्चनीयं । सुवर्णपुष्पस्य नास्ति निर्माम्यदोषः । वत्सरादूद्धर्वं तन्निर्माल्यं । वत्सरादूर्ध्वमपि पञ्चगव्येन संशोध्य पुनरर्चनीयं । एवं नीलोत्पल पलाश बक करवीर गिरिपुष्प बिल्वपत्र तुळसीनामपि नास्ति निर्माल्यत्वम् । पुष्पाणि पत्रा णि च स्वारामसम्भवान्युत्तमानि । वन्यानि कृतानि परारामोद्भवानि पूजाकाले याचितानि पुष्पाणि उत्तरोत्तरमप-कृष्टानि । देवारामोद्भवानि तु वर्जनीयान्येव । पुष्पालाभे यानि पुष्पाणि शिवार्हाणि तेषांपत्रैरेवार्चनीयं । पत्राणामप्यलाभे तेषां फलैरर्चनीयं । फलेषु च बीजपूर जम्बीर कदळी डाडिमादीन्यर्चनाया मतिप्रशस्तानि । फलाना मप्यलाभे तिलतण्डुल सिद्धार्थै रर्चनीयं । कृष्णातिलैश्शिवार्चनं सकलपातकहरम् । एवं मूलमन्त्रेण पुष्पादिभिरभ्यर्च्य हां शिवासनाय नमः । हां हं हां शिवमूर्तये नमः । हां हौं शिवाय नमः ।हों ईशानमूर्ध्ने नमः । हे तत्पुरुषवक्त्रायनमः । हुं अघोरहॄदयाय नमः। हिं वामदेवगुह्याय नमः । हं सद्योजातमूर्तये नमः ।इत्यासनमूर्तिं मूलैःपञ्चब्रह्मभिश्चाष्टपुष्पिकयाऽभ्यर्च्य हां हॄदयायनमः । इत्यादिभि रङ्गैरभ्यर्चर्यत्। ततोनम्नां सहस्रेण शतेनवाऽर्चयेत्। तदवसाराभावे शर्वाय क्षितिमूर्तयेनमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तयेनमः ।उग्राय वायुमूर्तये नमः । भीमाय आकाशमूर्तये नमः पशुपतये यजमानमूर्तये नमः ईशानायसूर्यंऊर्तये नमः ।महादेवाय सोमूर्तये नमः शिवाय नमः । महेश्वराय नमः । रुद्राय नमः । विष्णवे नमः। पितामहाय नमः । संसारवैद्याय नमः । सर्वज्ञाय नमः । परमात्मने नमः । इति नामाष्टकेन वाऽर्चयेत् । प्रभवेनमः । शंभवेनमः । उमापतये नमः इति नामत्रयेण वाऽर्चयेत्। नमोनीलण्ठायनम इति नाम्नौकेनाभ्यर्च्य यथासंभवं पुष्पमालिकाभिर-लङ्कुर्यात्। मालिकाश्च शतादिसुवर्णपुष्पराचिताः सहस्रादिनीलोत्पलरचिताः करवीरसितम्भोज विजयासितपाटल पुन्नागश्वेतमन्दार नागकेसर चंपकरचिताश्च प्रशस्ताः । ताश्च विचित्रपुष्पांतररचितमालिकाश्च उमाधारपार्श्वयोस्समृद्धा बद्धव्याः । लिङ्गमौळौ हस्तेमणिसुवर्णनिर्मितं पुष्पनिर्मितं वा एकद्वित्रिचतुरभूमिक मिंडाख्यं प्रवृत्तदाम समर्पणीयं । एवं पुष्पोपचारानन्तरं धूपदीपोपचारः ।

    तत्प्रकारः सुवर्णरजतताम्रारकूटान्यतमनिर्मितं चतुरङ्कुळायतं तदर्धमानो -त्सेध मष्टांगुळोष्ठं पश्चाद्भागे पद्मदळाङ्कित द्व्यङ्गुळोन्नत सुवृत्तखुरा-कारपादं द्व्यङ्गुळानाहेन पूर्वोक्तलक्षणपादयुक्तेन वक्त्रनाळेन समन्वितं अनेकसुषिरेणैकसुषिरेण वा कमलमुकुळाकृतिना पिधानेनान्वितं धूपपात्रं निर्मलेनाङ्गारवह्निना-ऽऽपूर्य तस्मिन्धूपद्रव्यं निक्षिप्य धूपपात्रंपिधाय निरीक्षिणादिभिस्संस्कृत्य गन्धपुष्पैरभ्यर्च्य धूपमुद्रां प्रदर्श्य धूपपात्रं दक्षिणहस्तेनादाय वामहस्ते शुद्धकांस्यनिर्मितां चतुःपञ्चषडङ्गुलान्यतमोत्सेधां तावदायामां तावन्मानजिह्वां ततत्रिगुणानाहा मर्धाङ्गुळोष्ठामुपपट्टिकायुक्ता मेकाङ्गुलद्व्यङ्गुल सार्धद्व्यङ्गुळिखरा मर्धाङ्गुलकण्ठां त्र्यंगुला-नाहां त्रिचतुःपञ्चषडङ्गुलदैर्घ्यनाळा मुपरिशूलपद्मवृषभशङ्खचक्रान्यतमचिह्नयुक्तां घण्टां घोषयन्नेव देवस्य घ्राणसमीपे ओं हां हौंशिवाय धूपं स्वाहेति धूपं प्रदर्श्य तदुपरिधूपपात्र मुद्धॄत्य तद्भ्रामयन्नेव किरीटे बिन्दुद्वयान्वितपार्श्वदण्डाकारं नादं मुखवॄत्ते बिन्दुदेहे हकारं बाह्नोरौकारं पादयोरूकारं च धूपपात्रभ्रमणेन भावयेत्॥

    धूपद्रव्यं - कर्पूरागरु चन्दनतक्कोलजातिफल लवङ्गसिल्हक मांसीमुस्तापत्र-चूर्णं यक्षकर्दमाख्यं । चन्दनागरु कर्पूरैला लवङ्ग त्वक्पत्रपुष्प सिल्हक जटामांसीचूर्णं प्राजापत्यनामकम् । चन्दनागरु कर्पूरकस्तूरि लवङ्गत्वक्सिल्हक सिता मुस्ताचूर्णं विजयाख्यं । कर्पूर कृष्णागरुह्नीबेर कुङ्कुमकुन्दुरूत्तुरुष्कबिसचन्दनचूर्णं क्रमादेकद्वित्रिचतुः पञ्चषट्सप्तभागमधुभिश्रं शीतांशुनामकम् । चन्दनागरु कर्पूर-सिल्हक सर्जरसकुष्ठमुस्ताचूर्णं कल्याणनामकम् । चन्दनागरु कस्तूरी मुस्तासिल्हक चूर्णममृताख्यं । तक्कोल पूगकर्पूरजातीफल लवङ्ग चूर्णं सुगन्धाख्यं । एवमा-दीनि पृथक्पृथङ्नाम्रा प्रसिद्धानि धूपद्रव्याणि । इत्थं चन्दनागरुकर्पूर कुष्ठ गुग्गुळु-चूण्ं घृतमधुयुक्तं चन्दनागरुकर्पूरकुष्ठचूर्णं शर्कराघृतमधुयुक्तं कर्पूरगरुचन्दन-निर्यासचूर्णं कुङ्कुमादेकचतुष्षट्सप्तभागमगरुनिर्यासचन्दनचूर्णं क्रमादेकद्वित्रिचतुर्गुण मीषत्कर्पूरमिश्रीतं मधुयुक्त मगरुचन्दनोशीरचूर्णं मधुयुक्तं कुष्ठचन्दनचूर्णं घृतयुक्तं गुळबिल्वपत्रचूर्णं गुग्घुळुचूर्णंघृतयुक्तं केवलमेव वा गुग्गुळुनिर्यासचन्दनागरु-सौगन्धिकान्यतमचूर्णं च धूपद्रव्यंइति । तत्र केवलगुग्गुलुधूपः सप्तजन्मकृतपापहरः। चन्दनधूपस्सर्वपापहरः । सौगन्धिकधूपस्सर्वकार्यार्थसाधकः । कृष्णागरुधूपस्सर्व-पारहरः।श्वेतगरुधूपो मुक्तिप्रदः। लाक्षाकस्तूरीधूपः चतुर्वेदाध्यायिसद्बाह्मणजन्मप्रदः । घ्रतमिश्रगुग्गुलुधूपोमासार्धसमर्पितः कल्पकोटिसहस्रपर्यन्तं शिवपुरभोगस्य सार्वभौ मजन्मत्वप्रापक ः । द्विसहस्रफलंमहिषाक्ष गुग्गुळुधूपः तालवृक्षचूर्णेन सहितः शिवसायुज्यप्रदायकः ईशानादिमुखपञ्चके क्रमात् शीतारि कृष्णागरु शुक्लागरु सौगन्धिक गुग्गुलुधूपाः प्रशस्तः ॥

    एवं धूपोपचारानन्तरं दीपोपचारः- तस्य पात्रं धूपपात्रोक्तपादनाळसहितं त्र्यंगुळप्रमाणं गजोष्ठाकारञ्च वर्तिका कर्पूरमयीवस्रखण्डमयी तंतुखण्डमयी कार्पास मयीवा चतुरङ्गुळदीर्घा चतुस्रिद्व्येकाङ्गुळज्वालानुगुणपरिणाहा कार्या। वस्रखण्डादिमयी चेत् उत्तमादिक्रमेण सति संभवे कर्पूरागरुचन्दनचूर्णादिगर्भा कार्या। तत्र च कपिलाघृतमुत्तमम् । गवांतरघृतं मध्यंअम्। अजाघृतं तिलतैलमधमम्। उष्ट्रमहिष्यादिघृतं वृक्षबीजादिभवं च वर्जनीयं । यद्वा-गोघॄतमात्रमुत्तमम् । अजाघृतं महिषीघृतं च मध्यंअम्। पूतिगन्धर्निबकरजैरंडादितैलं वर्जनीयं । तैलमात्र-मधमम् । एवमुक्तलक्षणपात्रविहितवर्त्यारोपितं दीपं निरीक्षणादिभिस्संस्कृत्य पुष्पैरभ्यर्च्य दीपमुद्रां प्रदर्श्य दीपमुद्धृत्य घण्टां घोषयन्नेव हां हौं शिवाय दीपं स्वाहेति नेत्रेषु प्रदर्श्य धूपपात्रवत् किरीटादिपादान्तं तद्वर्णविन्यासभावनया दीपपात्रं भ्रमयेत् । तदश्शिवायाचमनीय मर्घ्यंच दत्वा देवं सन्तुष्टं ध्यात्वा भगवन्नाज्ञां देहि भोगाङ्गानि पूजयामीति विज्ञाप्य आवरणपूजां कुर्यात् ॥

    No comments

    Post Top Ad

    Post Bottom Ad