श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - अथ आवरणार्चनम् || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका - अथ आवरणार्चनम् || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
अथ आवरणार्चनम् ॥ Astro Classes, Silvassa.
पञ्चब्रह्मषडङ्गैश्च प्रथमावारण् । विद्येश्वरैर्द्वितीयं । गणेश्वरैस्तृतीयं । लोकपालैश्चतुर्थम् । तदायुधैः पञ्चमम् । एतानि पञ्चावरणानि शिवासनपद्मस्य कर्णिकायां शिवमभ्यर्च्य तस्यदळमूलेषु दळमध्येषु दळमध्याग्रयो र्मध्येषु दळाग्रेषु तदधोभागेषुच पूजयेत् । यद्वा-शिवासनपद्मदळमूलरूपेषु लिङ्गमूलभागेषु तद्दळाग्र-रूपेषु पीठोपरिदेशाग्रभागेषु पीठकण्टे पीठपादे ब्रह्मशिलास्थानीये पद्मपीठे चार्च-येत् । होमीशनमूर्ध्ने नमः । स्फटिकवर्णं त्रिशूलाभयपाणि मुमासहित मीशानं पूजयामि। हें तत्पुरुषवक्त्राय नमः । कनकवर्णं पीतांबरोपवीतं मातुलुङ्गाक्षसूत्रधारिणं गौरीसहितं तत्पुरुषं पूजयामि । हुं अघोरहृदयाय नमः मेघवर्णं बभ्रुश्मश्रुशिरोरुहं दंष्ट्राकराळवदनं सर्पवृश्चिककपालमालाभरणं खट्वाङ्ग कपालखेटक पाशान्वितवाम करचतुष्टयं त्रिशूलपरशुखड्गदण्डान्वितदक्षिणकरचतुष्टयं गङ्गासहित मघोरं पूजयामि। हिं वामदेवगुह्याय नमः । अरुण मरुणवस्रमाल्योपवीतं खड्गखेटधरं गणांबिकासहितं वामदेवं पूजयामि । हं सद्योजातमूर्तये नमः । धवळवर्णं धवळ-स्रग्गन्धभूषणोष्णीपांवरधरं वराभयकर मंबिकासहितं सद्योजातं पूजयामि इति क्रमादीशानेंद्रयंअकुबेरवरुणादि दिक्ष्वीशानदितत्तत्पूजावेळायां ऊर्द्ध्व वक्त्रहृदयगुह्य पादरूप तत्तत्स्थान मङ्कुशमुद्रयाकृष्य दीपात्प्रवर्तितप्रदीपरीत्याऽभिन्नान्भावयित्वाऽर्चयेत्। ईशानाद्याः पञ्चापि शूलटङ्काभयंअनोहरकरचतुष्टया वा ध्यातव्याः । एव मागमान्तरप्रसिद्धान्यपि तेषां ध्यानानि द्रष्टव्यानि । हां हृदयायनमः हिं शिरसे नमः । हुं शिखायै नमः हैं कवचायनमः । हौं नेत्रत्रयायनमः । हः अस्त्राय नमः । इति चन्द्र चामीकर सिन्दुर भृङ्ग विद्युदग्निवर्णान् पद्मासनस्था नर्धेन्दुजटामकुटधारि-णश्चतुर्वक्त्रान् प्रतिवक्त्रं त्रिलोचनान् कपालशूलवरदाभयहस्तान् वामिनी नीलिनी चक्रिणी शङ्खिनी खड्गिनी गङ्गिनी शक्तिसहितान् हृदयशिरश्शिखाकवचदेवान् पूजयामीति हृदयशिरश्शिखादितत्तत्स्थानेभ्योंऽकुशमुद्रायासमाकृष्याग्नेयनिऋतवायव्ये शान कोणस्थदळेषु पूर्वादिचतुर्दळा न्यग्रेष्वस्रंच पूजयेत् । ईशानदळे ब्रह्मस्वीशानं अङ्घेषु नेत्रे शिरसिच क्रमेणोत्तरोत्तरदिक्स्थतया पूजयेत् । अथवा कर्णिकायां देवस्य पुरस्तादीशानं नेत्रञ्च पूजयेत् । नेत्रमस्त्रवद्दिक्षु वा पूजयेत् ॥
अथद्वितीयावरणम्-अनन्ताय भूमिसहिताय नमः । सूक्ष्माय स्वाहा सहिताय नमः । शिवोत्तमाय स्वधासहिताय नमः । एकनेत्राय क्षान्तिसहितायनमः । एकरुद्राय पुष्टिसहिताय नमः त्रिमूर्ताय श्रीसहितायनमः श्रीकण्ठाय कीर्तिसहिताय नमः शिखण्डिने मेधासहिताय नमः । इति हेमाग्नि मेघ भृङ्गेषु हिम विद्रुम स्फटिकवर्णान् वरदाभयज्ञनरुद्राक्षमालाधारिणस्रिणेत्रान् । शिवज्ञानावतारकान् स्वस्वशक्तिसहितान् विद्येश्वरान् पूजयामीति पूर्वाद्यैशानादिक्रमा द्दिग्विदिषु पूर्वादीशान-कोणान्तेषु वा पूजयेत् । कुण्डलीसहिताय नन्दिकेश्वराय नमः ।अरुणवर्णं त्रिशूलक्षसूत्रव्राभयकरं कुण्डलीसहितम् नन्दिनं पूजयामि। पद्मिनीसहिताय महा-काळाय नमः । पीतकृष्णावर्णं बभ्रुश्मश्रुशिरोरुहं शूलकपालखड्गखेटधारिणं पद्मिनीसहितं महाकाळं पूजयामि । ह्रादिनीसहिताय भृङ्गिणे नमः । श्वेतवर्णं निर्मांस-विग्रहं दण्डाक्षसूत्रधरशिवं शिवावलोकनतत्परं ह्रादिनीसहितं भृङ्गिणं पूजयामि । भॄङ्गिणीसहिताय गणपतये नमः । रत्नाङ्ग पाशांकुश दन्तपक्काम्रफलधारिणं भृङ्गिणी-सहितंगणपतिं पूजयामि। भद्रासहिताय वृषभाय नमः। स्फटिकवर्णं धर्मस्वरूपं शिवध्यानपरं भद्रासहितं वृषभं पूजयामि। देवयानीसहिताय स्कन्दायनमः । कनकवर्णं बालवेषं शक्तिकुक्कुटवराभयहस्तं देवयानीसहितं स्कन्दं पूजयामि। अम्बिमायै नमः। श्यामवर्णां सिह्मवाहनां शूलदर्शकरद्वया मुमां पूजयामि। रूपिणीसहिताय चण्डेश्वराय नमः । मेघवर्णं चतुर्वक्त्रं कमण्डल्वक्षसूत्रशूलपरशुधारिणं सर्पकङ्कणोपवीतं रूपिणीसहितं चण्डेश्वरं पूजयामि। इति पूर्वादीशानकोणपर्यन्त मर्चयत्। यद्वा-वृष नन्दि गणेशं महाकाळ स्कन्द भॄङ्गिगौरीचण्डान् नन्दिगणपति महाकाळ भृङ्गि वृष स्कन्दगौरी चण्डान्वा पूर्वादिक्रमेण पूजयेत् । अथवा गौरी चण्डेश्वर नन्दि महाकाळ गणेश वृष भॄङ्गि स्कन्दावा गौरीचण्डेश्वर महाकाळवृषभ गणेश स्कन्दनन्दि भॄङ्गिणोवा उत्तरादिक्रमेण पूजनीयाः ॥ उमावृषभगणपति नन्दीश महाकाळभृङ्गि चण्डस्कन्दाः कुबेरशक्र यंअवरुण निर् ऋतिवाय्वीशानादिदिक्षु वा पूजनीयाः । एतेषां ध्यानभेदाश्च तत्तदागमप्रसिद्धा द्रष्टव्याः ॥
एवं गणेश्वरैस्तृतीयावरणं संपूज्य लोकपालैश्चतर्थावरणमर्चयेत् । इन्द्राय शचीसहिताय नमः । सुवर्णवर्ण मैरावतारूढं वज्रांकुशवराभयपाणिं शचीसहित मिन्द्रं पूजयामि । अग्रये स्वाहासहिताय नमः । रक्तवर्णं कमण्डल्वक्षसूत्रशक्तिवर-मुद्रान्वितं मेषारूढं स्वाहासहित मग्रिं पूजयामि । यंआय कालकण्ठीसहिताय नमः । कृष्णवर्णं दण्डपाशवराभयधारिणं महिषारूढं कालकण्ठीसहितं यंअं पूजयामि । दाहिनीसहितायनैर् ऋतायनमः रक्तवर्णं खड्गखेटकवराभयधारिणं भूतारूढं दाहिनीसहितं नैर् ॠतंपूजयामि । वरुणाय भोगिनीसहिताय नमः । चन्द्रवर्णं पाश्कम-लवराभयकरं मकरारूढं भोगिनीसहितं वरुणं पूजयामि । वायवे घोरासहिताय नमः । धूम्रवर्णं ध्वजकमलवराभयधारिणं मृगारूढं घोरासहितं वायुं पूजयामि । कुबेराय गंभीरिणीसहिताय नमः । स्वर्णवर्णं गदनिधिवराभयकरं खर्वविग्रहं मनुष्यारूढं गंभीरीणीसहितं कुबेरं पूजयामि। ईशानाय हर्षिणीसहिताय नमः। चन्द्रवर्णं शूलपाशवराभयकरं त्रिणेत्रं वृषभारूढं हर्षिणीसहितमीशानं पूजयामीति प्रागा-दिक्रमेण पूजयेत् । ब्रह्मणे सावित्रीसहितायनमः सुवर्णवर्णं चतुर्वक्त्रं कमण्डल्व क्षसूत्रस्रुग्दण्डधारिणं हंसारूढं सावित्रीसहितं ब्रह्माणं पूजयामि । विष्णवे लक्ष्मीसहितायनमः । विद्युद्वर्णं सहस्रफणालङ्कृतमनन्तरूपं शङ्खचक्रगदाकमलधारिणं कूर्मारूढं लक्ष्मीसहितं विष्णुं पूजयामीति ॥
इन्द्रेशानमध्ये निर् ऋतिवरुणमध्येच विधातृवैकुण्ठौ पूजयेत् ।
यद्वा यंअस्य उत्तरभागे कुबेरस्य दक्षिणभागे च तौपूजयेत् ॥
अथलोकपालायुधौः पञ्चमावरणम्-प्रसन्नात्मशक्तिसहिताय वज्राय नमः । नानावर्णधरं ट्टढकर्कशविग्रहं वज्रमूर्द्धानं दीप्तं प्रसन्नात्मशक्तिसहितं वज्रं पूजयामि । शक्तये नमः । अरुणवर्णां वराभयकरां शिरसा शक्तिं बिभ्राणां योषिदाकारां शक्तिं पूजयामि । कोपात्मशक्तिसहिताय दण्दाय नमः ।कृष्णवर्णं वराभयकरं लोहित-लोचनं दण्डमूर्द्धानं कोपात्मशक्तिसहितं दण्डं पूजयामि । जुणात्मशक्तिसहिताय खड्गाय नमः । श्यामवर्णं वराभयकर मर्धलोचनं खड्गालङ्कृतमूर्द्धानं गुणात्म-शक्तिसहितं खड्गं पूजयामि । कोमळात्मशक्तिसहिताय पाशाय नमः । किंशुक-पुष्पवर्णं नाभेरधो भुजङ्गाकारं तदूर्द्ध्वं पुरुषाकृतिं सप्तफणोपेतमूर्द्धानं कोमळात्म-शक्तिसहितं पाशं पूजयामि। विषात्मशक्तिसहिताय ध्वजायनमः। पीतवर्णं वरा भयकरं विवृतास्यं मूर्ध्नि ध्वजान्वितं विषात्मशक्तिसहितं ध्वजं पूजयामि । गदयै-नमः । पीतवर्णां योषिदाकारां गदोपेतशिरसं गदं पूजयामि । विकृतात्मशक्तिसहि ताय शूलाय नमः । श्यामवर्णं त्रिषूलाङ्कितमस्तक मञ्जलियुतं विकृतात्मशक्तिसहितं त्रिशूलं पूजयामि। महात्मशक्तिसहिताय पद्माय नमः । शङ्खवर्णं पद्मकोशाङ्कित-मूर्द्धानं महात्मशक्तिसहितं पद्मं पूजयामि । मङ्गळात्मशक्तिसहिताय चक्राय नमः । श्यामवर्णं सतारचक्राङ्कितमस्तकं मङ्गळात्मशक्तिसहितं चक्रं पूजयामि । इमे चाव-रणदेवाश्शिवाभिमुखा श्शिवमंबिकाञ्च भक्त्यावीक्षमाणाः स्वासनेषूपविष्टा ध्येयाः । द्विभुजाश्चतुर्भुजाश्चैते हस्ताञ्जलिपुटावाध्येयाः । एव्ं पञ्चावरणपूजाशक्तौ पञ्चब्रह्मषडड्गरूपमेकमावरण मर्चयेत् । तेषाञ्च ब्रह्मषडङ्गदेवाना मावाहनस्थापनसन्निधान सन्निरोधन पाद्याचमनार्घ्यपुष्पदानाख्यं संस्काराष्टकं कार्यं । यद्वा-आवाहनादि संस्काराष्टकं समुदितमेव स्मृत्वा प्रत्येक मर्घ्यंआत्रं दत्वा पूरणतया ब्रह्मान्तं तत्त -दर्घ्यावसाने क्रंमेण सुरभिपद्मत्रिशूलमकरस्रगाख्यंउद्राः प्रदर्श्याङ्गानां नमस्कारमुद्रां प्रदर्शयेत् । पञ्चब्रह्मषडङ्गपूजनाशक्तौ केवलं ब्रह्मावरणमात्र मङ्गावरणमात्रं वाऽर्चयेत् । अथ वा-तत्तत्स्थाने वामादिशक्तिं पूर्वादिदिक्ष्वभ्यर्च्य सदाशिवस्याङ्के वामभागे स्थितां मनोन्मनी मभ्यर्चयेत् । इत्थमावरणार्चनानन्तरं शिवमष्टपुष्पिकया- ऽभ्यर्च्याचमनार्घ्याणि दत्वा मूलमन्त्रेण पुष्पं समर्पयेत् । शिवस्यावरणभावकृत शोभासिद्धये पञ्चब्रह्मषडङ्गादीनां शिवपृथग्भावेनार्चनायां प्रसक्तस्य पूजातमसत्व दोषस्य परिहाराय शारदशशाङ्ककोटिसङ्काश परमामृतस्यन्दि परमशिवमयूखजाल मग्रतया सर्वानप्यावरणदेवान् परमशिवेनैकवर्णान् परमशिवापृथग्भूतान् भावयेत् । तदश्शिवे धेनुमुद्रां महामुद्राञ्च प्रदर्श्य गन्धपुष्पैः घण्टामस्रमन्त्रेणाभ्यर्च्य सावरणाय देवाय धूपदीपौ प्रदर्शयेत् । एवमावरणार्चनं कर्तव्यं न कर्तव्यं वेति विकल्पितं केषुचि दागमेष्वात्मार्थपूजायां भोगाङ्गपूजनस्य निषिद्धत्वात् ॥
तत्र व्रीहिशालि प्रियङ्गु नीवार गोधूम वैणव यवाः प्रशस्ताः । तत्र व्रीहयः कानिष्ठा श्शालयो मध्यंआः इतरे श्रेष्ठाः । तत्रापि प्रियङ्गुनीवार गोधूम वैणवानि शतसहस्रलक्षानन्तफलान्युत्तरोत्तरं प्रशस्तानि । यद्वा शालयःश्रेष्ठाः यववैणवादयोमद्ध्यंआः व्रीहयः कनिष्ठाः । सिततण्डुलश्शालयः इतरेव्रीहय इतिभेदः । आत्मार्थपूजायां कुडवादि चतुर्द्रोणपर्यन्तमुत्तरोत्तरं प्रशस्तम् । पञ्चविंशत्युत्तरद्विशतसङ्ख्यैः व्रीहिभि रेका शुक्तिरुच्यते । शुक्तिद्वयं तलम् । तलद्वयं प्रकुञ्चम् । प्रकुञ्चद्वयं प्रसृतिः । प्रसृतिद्वयं कुडवम् । कुडवद्वयंअञ्जलिः । अञ्जलिद्वयं प्रथम्। प्रस्थद्वयं पात्रम् । पात्रद्वय माढकम् । आढकद्वयं शिवम् । शिवद्वयं द्रोणम् । अथवा गुञ्जाद्वयं माषः । माषविंशतिर्निष्कम् । निष्काष्टकं पलम् । पलचतुष्टयं पादः । पादचतुष्टयं प्रस्थम् । प्रस्थचतुष्टय माढकम्। तच्चतुष्टयं द्रोणम् । द्रोणचतुष्टयावधिकान् नैवेद्यार्थं कल्पितान् केशकीटादिविरहितान् निर्मुक्ततुष कम्बुकणा नखण्डा नतिधावळ्यशालि तण्डुलान् प्रशस्तवर्णगन्धरसैर्वस्रपूतैर्जलै र्मुहुर्मुहु र्निष्पीडनपूर्वकं षट्कृत्वष्षडङ्गमन्त्रैस्संक्षाळ्य सम्यग्वालुकादीन् संशोध्य पाकाभांडे निहितेषुतेष्वधिकार्धावधिकं जलं पक्षिप्य गोमयोपलिप्ते प्रोक्षिते पक्षिदर्शनादिरहिते परिश्रिते बहिष्कृताद्यगोचरे महानसे हृदयंअन्त्रार्चितायां चुल्ल्यां वानदेवमन्त्रेण उद्धृतं पाकभाण्डं हृदयंअन्त्रेणारोप्य अघोरेणाग्रिं विन्यस्य मुखेन प्रदीप्य यथाऽत्र मपक्कं मतिपक्कं च नभवति तथा सावधानं पचेत् । एवं शुद्धान्नपाकः । तण्डुलद्विगुणक्षीरेण तण्डुळार्धमुद्गसहितेन वा तण्डुलत्रिगुण-क्षीरेण तण्डुलचतुर्थांशमुद्गसहितेन तदुचितगुळकदळीफलयुतेन वा पायसान्नपाकः । तण्डुलचतुर्थां शमानतिलपूर्णेन तोलार्धमानेन तिलचतुर्थांशमानेन वा घृतेन च कृस-रान्नपाकः । अथवा तण्डुलार्धपुद्गचूर्णमिश्रैः किञ्चिल्लवणचूर्णयुतैस्च कृसरान्नपाकः । प्रत्येकं तण्डुलार्धप्रमाणाभ्यां क्षीरगुडाभ्यां तदर्धप्रमाणेन घृतेनच गुळान्नपाकः । अथवा तण्डुलत्रिगुण क्षीरेण तण्डुलार्धगुळसहितेन गुळार्धघृतसहितेन गुळान्नपाकः । अथवा तण्डुलत्रिगुण क्षीरेण तण्डुलत्रितयांशमुद्गसहितेन तण्डुलचतुर्थांशगुळमिश्रेण-कदळीफलयुतेनचगुळान्नपाकः तण्डुलत्रितयांशमुद्गसहितेन तण्डुलचतुर्थांशगुळमिश्रेण-कदळीफलयुतेनचगुळान्नपाकः । तण्डुलचतुर्थांशौ स्तत्तृतीयांशौ स्तत्समैर्वा मुद्रैर्नाळिकेरखण्डयुतै स्तद्रहितैर्वा मुद्गन्नपाकः । शुद्धान्नपायसान्न कृसरान्न गुळान्न मुद्गन्नान्युत्तरोत्तरं सहस्रगुणफलानि। एवं दधिमिश्रितं मधुमिश्रितंचान्नं प्रशस्तम्। एतेष्वनेकं एकंवायथाविभवं कार्यं । नैवेद्यस्याष्टमांशेन षोडशांशेन वा मुद्गढकी माष राजमाष निष्पाव कुळुत्थाद्यन्यतमेन कर्तव्यं । एवं मुद्गद्याश्च सति संभवे निस्त्व-ग्विदळरूपा ग्राह्याः । शाकानि प्रस्थान्ननैवेद्यस्य पलद्वयप्रमाणेन एकपलप्रमाणेन वा कदळी पनस कूश्माण्डोर्वारुक कारवल्लीव्याघ्रीबृहतीद्वय कोशातकीद्वय चूत नाळिकेर फलादीनि शिशुकन्द वल्लीकन्द सूरणकन्दाद्यान्यानि च प्रशस्तरसगन्धा न्यार्द्राणि शुष्काणि वा यथार्हं लवण मरीचि जीरक एला चूर्ण शर्करादि सकल संस्कारोपेतानि घृतभर्जितानि कार्याणि । आम्लेन घनतक्रेण लवणमरीचि जीरक-किळुत्थ सिद्धार्थचूर्ण शर्करासहितं चोष्यं कार्यं । माष मुद्गगोधूम शालिपिष्टादि विकारास्समृद्धशर्करोपेताः कर्पूरैलांदिचूर्णैर्वासिता बहवोऽपूपाः पानकादयश्च कार्याः । नैवेद्यस्य षोडशांशं द्वात्रिंशांशं चतुष्षष्ट्यंशं वा घृतम् । घनदधि अष्टमांशम् । सर्वत्र क्षीरदधिघृतानि गव्यान्येव ग्राह्याणि स्थालिका स्सुवर्णेन रजतेन ताम्रेण शुद्धकांस्येन वा कर्तव्याः । अष्टचत्वारिंशदङ्गुळायामाः एकाङ्गुळोत्सेधाः अङ्गुळघनोष्ठवत्य-श्चेदुत्तमाः । उत्तमोत्तमादिक्रमेण तु षट् त्रिंशदङ्गुळप्रभृति द्वादशाङ्गुळपर्यन्तायंआ नवयवप्रभृत्येकयवपर्यन्तमानोष्ठवत्य ओष्ठप्रमाणायामवेत्रवत्य स्तद्रहितावा नवाङ्गुळायामा स्तदर्धमानाश्चातिजघन्याः । सर्वाश्च पादरहिता स्सुवृत्ताकाराः कर्तव्याः । स्थालिकाधारत्रिपाद्यः पूजनीयलिङ्गपीठिकोत्सेधपर्यन्तमुन्नताः प्रकर्तव्याः । नैवेद्यञ्च सर्वंशिवदीक्षासंस्कृतैः शुद्धवस्त्रै र्भस्मरुद्राक्षभूषितैः पवित्रधारिभिः परिचारकैः कारयेत् । तथा भूषिताभिः स्त्रीभिर्वा कारयित्वा द्रव्यशुद्धिकाले पूजकस्तण्डुलक्षाळ नादिमन्त्रान्जपेत् । यदि कृतिं नैवेद्य मपक्कं मतिपक्कं कालातिपाता दतिशीतळ नरैर्लङ्घितं वा स्यात् तदाऽन्यत्पक्कं निवेदनीयं ॥
अथनैवेद्यसमर्पणम्-देवस्य पाद्याचमनीय मर्घ्यं च दत्वा देवस्य पुरतो गोमयेन चतुरश्रं मण्डलं परिकल्प्य पिष्टादिचूर्णौ रलड्कृत्यशुद्धान्नपायसन्नादिपूरिताः कदळीनाळिकेर चूत पनसद्राक्षा खर्जूरादिफलैर्लड्डुककस्तूरिकापिष्टक मोदकादिभिरपूपैः कदळीपनसादिशाकैरार्द्रकोर्वारुकादिहारितै श्चूतनारङ्गाद्युपदंशै र्मुद्गविदळादि सूपैश्चवलयाकारसोपानक्रमेण निबद्धैर्भूषिताः मद्ध्ये क्षीरदधिघनैरलङ्कॄताः सद्योघृता-भिषिक्ताः शर्करादधिक्षीरफलरसादिविकारैर्नानाविधपेयचोष्यलेह्यैः क्षीरदधिनवनीत-घृतै रेलाचंपकमुकुळ कर्पूर मृगमद लामज्ज पाटलीपुष्पादिवासित सुशीतळ स्रपन-कलशाहृताढकतदर्ध तदर्धप्रमाणेन पानीयेन परिपूरितैश्चषकैः परितः परिष्कृताः शिवस्य् शिवायाश्च नैवेद्यस्थालिकाः सदाशिवस्य मनोन्मन्याश्च परिवारदेवताना मा-वरणदेवतानां च नैवेद्यस्थालिकाश्च निधाय स्थालिकानामुपरि पत्रं विन्यस्य हृदयेन प्रोक्ष्य ताळत्रय दिग्बन्धनावकुण्ठन धेनुमुद्रा विरचय्य अन्नमुद्रां पर्वतमुद्रां प्रदर्श्य पूर्वविन्यस्तं पत्रमुद्धृत्यास्रेणपरिषिच्य हृदयेन प्रत्येक मापोशनं त्वासपुष्पया मृगमुद्रया पूर्वं गणपतये निवेद्य तत्पुष्पं विसृज्य हस्तप्रक्षाळनं कृत्वा हां हौं शिवाय स्वधेति शिवाय नैवेद्यं पञ्चवारं त्रिवार मेकवारंवा नैवेद्यदानभिनयवत्या सपुष्पया मृगमुद्रया नैवेद्यंदत्वा सदाशिवादिक्रमेण सर्वेभ्योऽपि पृथक्पृथक् नैवेद्यं दद्यात्। पृथक् पात्नासंभवे सर्वासां परिवारावरणदेवताना मेकस्मिन्नेव पात्रे नैवेद्यंआनीय प्रत्येकं निवेदयेत् । ततश्शिवाय सुगन्धिपानीयं प्रदाय नमोन्तमूलेन पुष्पं समर्प्यद्रव्यजातं संपूर्णं विभाव्य स्वधान्तमूलेनाचमनं दत्वा देवस्य सव्यवामहस्तयो रुद्व-र्तनार्थं कर्पूरादिसहितं चन्दनं दत्वा हस्तप्रक्षाळनगण्डूष पादक्षाळनादि भावयेत् । सर्वाणि च निर्माल्यान्युद्धृत्य सदाशिवानिर्माल्यं प्रागीशदिशि विन्यस्तगन्धपुष्पनिर्माल्याभ्यां सह ऎशान्यां दिशि चण्डेशाय निवेदयेत् ।
अथ सदाशिवः केन वक्त्रेण भुङ्क्ते ऊर्द्ध्वक्त्रेण । "भक्ष्यभोज्यान्नपानादि लेह्यं चोष्य मनेकधा। ऊर्द्ध्ववक्त्रे प्रदातव्यं यत्किञ्चिदिह चोदित मिति सर्वज्ञानोत्तर-वचनात्। भक्ष्यंभोज्यं च पेयं च लेह्यं चोष्यं च पञ्चधा। ऊर्द्ध्ववक्त्रे प्रदातव्यं हॄदयेन षडाननेति द्विशतीवचनाच्च । अथवा पञ्चभिरपि वक्त्रैर्भुङ्क्ते।
पञ्चवक्त्रेषुनैवेद्य मूर्द्ध्ववक्त्रेऽथवा पुनरिति पञ्चसु वक्त्रेषु प्रत्येकनैवेद्यविधानस्यापि दर्शनात् । ऊर्द्ध्ववक्त्रे नैवेद्यदानं च तदूर्द्ध्ववक्त्रं पूजाकाले दक्षीणामुखीभूतं विभाव्य कर्तव्यं ।देवस्य दिश्युत्तराभिमुखतया पूजकस्य स्थितत्वात् । स्थण्डिलेचरलिङ्गेच साधकाभिमुखश्शिवः । प्रत्यग्वक्त्र स्सकुंभादौ स्थिरे द्वाराभिसम्मुख इति चरलिङ्गार्चने देवस्य पूजकाभिमुखत्वश्रवणात् । एवंचात्मार्थपूजायां शिवस्य साधकाभिमुखत्वसिद्ध्यर्थं हॄदयगुह्यपादवयवा अपि दक्षिणदिक्स्था एव । यानितु पूजकस्य शिवाभिमुखावस्थानपरिहारवचनानि नप्राच्या मग्रतश्शंभो र्नोत्तरे योषिदाश्रये । न प्रतीच्यां यतः पृष्ठं तस्माद्दक्षं समाश्रयेदित्यादीनि तानि पूर्वाभिमुखस्थिरलिङ्ग-विषयाणि। चरलिङ्गपूजायां स्थण्डिले चरलिङ्ग च साधकाभिमुखश्शिव इति विशेषवचनदर्शनात् । अग्रौ वा निर् ऋतौ वाऽपि स्थित्वा देवं प्रपूजयेदिति वच नानुसारेण पूजकस्याग्रेयदिगवस्थाने शिवस्य पूजकाभिमुखत्वं नलभ्य इतिचेत् सत्यं । तदपि वचनं स्थिरलिङ्गविषयंएव । स्थिरलिङ्गं सर्वसाधारण्येन लोकानुग्राहकत्वाच्च चतसृषु दिक्षु स्वेष्टमुखमिति यस्यां दिशिद्वारं तद्दिगभिमुखं भवति । तत्र हृच्चरणैस्सार्ध मूर्द्ध्वमुखं तद्वाराभिमुखं । द्वारस्याभिमुखंचोर्द्ध्ववक्त्रं तत्र प्रकल्पयेदिति वचनात्। यस्यां दिशि भवेत्द्वारं तां प्राचीं परिकल्पये दिति वचनाच्च। अथवा ऊर्द्ध्ववक्त्र मेकमेव हॄद्गुह्यचरणैस्सह द्वाराभि मुखं भवति । तत्पुरुषादिवक्त्राणि तु पूर्वादिदिक्ष्वेव व्यवस्थितानि नतु द्वारभेदेन भिद्यन्ते । प्रासादस्य द्वारम्भवतु यथा काष्ठया कामं । तत्पुरुषादिमुखानि नजहति पूर्वादिदिक्संस्थामिति वचनात् । इदं तत्पुरुषादिवक्त्रविषये पक्षद्वयंअपि कामिकसंमतम् । अतएव तत्र पश्चिमद्वारर्चने द्वारस्याभिमुखं चोर्द्ध्ववक्त्रं देहं प्रक्ल्पये दित्युपक्रम्य पुरुषं पूर्व देशेवापश्चिमे वाऽथ चिन्तयेत् । दक्षिणे वोत्तरेवाऽपि बहुरूपं विचिन्तयेत् । उत्तरे दक्षिणे वाऽपि वामदेवं स्मरेत् गुरुः । पश्चिमे मूर्वदेशे वा सद्यवक्त्रंस्मरन्त्यसेत् इत्युक्तम् ॥ तत्रैव दक्षिणद्वारार्चनेऽप्युक्तम् -अघोरं पुरुषं वाऽपि दक्षिणेसम्यगर्चयेत् । अघोरं -वाऽथ सद्यं वा पश्चिमेतु समर्चयेत् । सद्यवक्त्रं तु वामं वा सौ म्यदेशे समर्चयेत् । पुरुषं वाऽथ वामं वा पूर्व देशेसमर्चयेत् इति ॥
सर्वमपि स्थिर मुत्तराभिमुखं पूजनीयं ।लिङ्गं वा प्रतिमा वा क्रियतेऽन्यद्वा यया ककुभा। तस्यां तस्यां यज्वा यजेत् शिवमुत्तराभिमुख इति वचनात् । तत्र मुख्यपूर्वाभिमुखलिङ्गपूजायां मुख्याग्रेयदिशि स्थितस्य पूजकस्य मुख्य मुत्तराभिमुखत्वमेव घटते । नच देवस्य वामभागे नैर् ऋतदेशे देव्या निविष्टत्वात्तत्र पूजकस्योपस्थितौ नोत्तरे योषिदाश्रय इति निषेधप्रसङ्गः । कामिके पश्चिमद्वारार्चनपटले वामेवा दक्षिणेवाऽपि स्थापनीया मनोन्मनी। देवसंमुखसंयुक्ता द्विहस्तैकमुखान्वितेति पश्चिमाभिमुखलिङ्गपूजूयां दक्षिणभागेऽपि देवीनिवेशनस्याङ्गीकृतत्वेन नैर् ऋतदिक्स्थितस्य पूजकस्य देवदक्षिणभागनिविष्टदेवीभावनोपपत्तेः । एवं दक्षिणदिग्रूप गौणपूर्वाभिमुखलिङ्ग पूजायां नैर् ऋतदिग्रूपगौणग्रेयदिशिस्थितस्य प्राचीरूपगौणोत्तराभिमुखत्वंउत्तरदिग्रूप-गौणपूर्वाभिमुखलिङ्गपूजायामीशानदिग्रूपगौणाग्रेयदिशि स्थितस्य प्रतीचीरूपगौणोत्तर-वक्त्रत्वंच घटते। एवं पूजकाभिमुखत्वनियंओ नविहन्यते । सर्वत्रान्मार्थपूजा प्रकरणे उत्तराभिमुखो भूत्वा रुचिरासनसंस्थित इत्यादिविधानात् । तत्रायं विशेषः-पापक्षयार्थिभिर्मुक्त्यर्थिभिश्च मुखानां दिश्यवस्थामाश्रित्याघोरवक्त्र मभिमुखत्वेन भावनीयं । नविभोः पुरतस्थिष्ठेत् न पश्चात् स्त्र्यन्तिकेऽपिच अघौघध्वंसमोक्षार्थं दक्षे दक्ष्स्थितोऽर्चयेत्। हिमं मरुच्च शीतञ्चपद्मं निर्दहतेयथा । तथाऽघोरः प्रशान्तोऽपि पापनिर्दाहकारकः ॥ महानपि यथा दन्ती यन्तारमनुवर्तते । तस्मादाप्तेन वचसा उत्तराभिमुखो यजेत्। इत्यघोरमुखस्य सकलपापहरत्वेन प्रशं सादर्शनात् । अजातमिममेवैकं मत्वाजन्मनि भीरवः । रुद्रस्यास्य प्रपद्यन्ते रक्षार्थं दक्षिणामुखम् इति वायुसंहितायां दक्षिणमुखस्य मुक्तिप्रदत्वेन प्रशंसादर्शनात् ।
भोगपूर्वकमोक्षार्थिभिस्तु तत्पुरुषमुखस्य द्वाराभिमुख्यन्यायेन साधकाभिमुख्यन्यायेन वा साधकाभिमुख्यपक्षमाश्रित्य तत्पुरुषमुखमभिमुखत्वेन भावनीयं प्रसन्नत्वं यदीशस्य स्तेमित्वं पुरुषस्यच । चण्डत्वं बहुरूपस्य मुक्तिस्थित्यन्तहेतुकम् इति तत्पुरुषमुखम् स्थितिहेतुत्वश्रवणात् । सर्वथाऽप्यूर्द्ध्ववक्त्रस्य दक्षिणाभिमुखत्वं स्थितमेव। एवञ्चावाहनादिकृतं देवस्याभिमुख्यंअप्यात्मार्थं पूजायामाञ्जस्यं लभते । अन्यथा परार्थपूजायामिव तदूर्द्ध्वमुखस्य ऊर्ध्वाभिमुखत्वत्यागमात्रपरतया कथञ्चिन्नर्वाह्यं स्यात् । परार्थपूजायां लोकानुग्रहप्रयोजनायां विशिष्य पूजकाभिमुख्यं नापेक्षितमिति युक्तं तत्र द्वाराभिमुखस्यैव कथञ्चित् गौणाभिमुख्यसमर्थनम् । इहतुसाध-कानुग्रहार्थायामात्मार्थपूजायां स्थण्डिले चरलिङ्गेचे तिवचनबलादाञ्चस्येन संभव-त्साधकाभिमुख्यं किमित्युपेक्षितमिति केषांचिन्मतम् । अन्येत्वाहुः आत्मार्थपूजाया-मूर्द्ध्ववक्त्रं हृत् गुह्यचरणैस्सह तत्पुरुषवक्त्रंच पूर्वाभिमुखमेव ।
अंशुमदादिततन्त्रेष्वात्मार्थपूजाप्रकरण एव न विभोः पुरतस्तिष्ठेन्नपश्चातस्त्र्यंतिकेऽपिचानयोषित्सन्निधौनाग्रे नपॄष्ठेस्वामिनोभवे दित्यादिवचनानां पठितत्वेन तेषां परार्थपूजाविषयतया नेतु मशक्यत्वात् । साधकाभिमुख्यवचनस्य दीक्षाप्रकरणे पठितत्वेनततो नित्यपूजायां साधकाभिमुख्यालाभात्। न च दीक्षायां चरलिङ्गपूजाप्रसक्त्यभावात् चरलिङ्गे साधकाभिमुख्य्वचनस्य नित्यपूजाविषयत्वमेवेति वाच्यं । दीक्षायामपि चरलिङ्गार्चने दोषाभावात् । तस्मान्निरपवादात् नप्राच्यामत्रत इति वचनात् नित्यनैमित्तिककाम्ये सर्वाधिकारणः सदाशिवः पूर्वाननो लक्ष्मीप्रत्यक्प्रष्टकलातनु रिति लक्ष्मीकेशवसंवादे, दीक्षादिषुघटेशस्य प्रतीच्यां चिन्तयेद्गुरुम् । ईशं तत्पुरुषं शान्तं नित्ये नित्ये पुरानन मिति मुखबिंबे ध्यायेत् सदाशिवं नित्यं प्राङ्मुखेशास्यवक्षसाम् ।
दीक्षादौ कलशाधारं तमेव प्रत्यगाननमिति बॄहद्भार्गवादिषुच सदानित्यशुब्दाभ्यां विशेषविहितदीक्षादिव्यतिरिक्तेषुसर्वेष्वपि नित्यनैमित्तिक काम्येष्वीशान पुरुषमुखयोः प्राङ्मुखत्वश्रवणा देतेषां वचनानां द्वाराभिमुखत्व नियतस्थिर लिङ्गप्रहाणेन चर लिङ्गादिविषयावशंयभावाच्चत्मार्थपूजायां नित्यनैमित्तिककाम्यरूपायां शिवस्य पूर्वाभिमुखत्व मौत्सर्गिकम् । दीक्षादिनैमित्तिकेषु विशेषवचनैर्दक्षिणमुखत्वादिरूपस्तदपवाद इति । इदं चान्यदाहुः । ईशानतत्पुरुषमुखयोर्मध्येऽपि सदाशिवस्तत्पुरुष-मुखेनैव भुङ्क्ते। द्वारं पश्चिम मेवं तु नैवद्यं पूर्ववक्त्रक मिति सूक्ष्मवचनादीशान वक्त्र्स्य शिरोरूपतया तत्र नैवेद्यदानस्य लोकविरुद्वत्वा ज्जेति अस्तु तत्पुरुषमुखेन भुङ्के इत्यपि कश्चन पक्षः । नतु तेनैवेति नियंअः । भक्ष्यभोज्यान्नपानादी त्यादिप्रागुदाहृत विषमवतनै रूर्ध्ववक्त्रे महासेन आहुतिं संप्रदापये दित्यादिवचनै-श्चोर्द्ध्वमुखेनापि भोजनावगमतु पञ्चवक्त्रेषु नैवेद्यंइति वचनेन ततोहविःप्रदानं स्यात् पञ्चवक्त्रेषु चैव हि। ईशानस्य तु शुद्धात्रं गौडं तत्पुरुषे ततः ॥ कृसरं दक्षिणे वक्त्रे मुद्गान्नं च तथोत्तरे । पश्चिमे पायसंचैव स्वस्व नाम्ना समाहितः । दापयेत्स्वस्वदिग्भागे ईशानस्याग्रतो भवेत् ।
अलाभे पञ्चहविषा मग्रे शुद्धान्नमिष्यते इति प्रतिवक्त्रन्नैवेद्यभेदप्रतिपादकवचनजातेन च पञ्चभिर्वक्त्रै र्भोजनाच्च। नह्याग माना मविशिष्टे प्रामाण्ये कस्यचिदर्थोऽनुष्ठेयो नान्यस्येति युक्तम् । तस्मात्तत्तदगम् वचनप्राप्तपक्षत्रयस्यापि विकल्प इत्येव युक्तम् । ननु नैवेद्यदानमुद्रया शिवे नैवेद्यं समर्पयता पूजकेन किं शिवस्य हस्ते तत्समर्पणीयं उत तत्तद्वक्त्र एव । अत्रापिविकल्प एव । उत्तरत्र अमृतीकृत्य गोस्तन्या निवेद्य कुसुमं न्यसेत् । निवेद्य दक्षिणे हस्ते दद्यात्पानीय मुत्तममिति दक्षिणहस्ते नैवेद्यसमर्पणश्रवणात् ऊर्द्ध्व वक्त्रे तु दातव्यं यत्किञ्चिदिह चोदितम् । ऊर्द्ध्वक्त्रे महासेन आहुतिं संप्रदापये दिति वक्त्रे समर्पणश्रवणाच्च । एवंचात्र योग्यतानुसारेण व्यवस्थितोविकल्पः । यद्धृदयादिसंमिते पुरुषवक्त्रे निवेदितव्यं द्रवद्रव्यवर्जं भक्ष्यभोज्यादि तत्सर्वं परित्यक्ताभयंउद्रे वामहस्ते समर्पणीम् । यद्वक्त्रान्तरे निवेदनीयं यच्च पानीयादि द्रवद्रव्यजातं तत्सर्व मग्रिहोत्राहुतिवत् सूक्ष्मरसरूपेण स्थालिकाभ्यो निर्गत्य तत्त- द्वक्त्रपर्यन्तं नैवेद्यंउद्रया सहागतं सम्भावयता साक्षात्तद्वक्त्र एव समर्पणीयंइति । एवञ्च हस्ते समर्पणसंभवाद्धस्तोद्वर्तनस्य न वैफल्यं । पूजकहस्तेन तद्वक्त्रे नैवेद्यप्रक्षेपाभावात् पूजकहस्तस्य न निर्माल्यसङ्करप्रसङ्ग ॥ इति नैवेद्यविधिः ॥
॥ तांबूलदानम् ॥
अथ मुखवासं ताम्बूलं च निवेदयेत् । भोजनानन्तरं मुखे वासार्थं यद्दीयते तन्मुखंवासयतीति व्युत्पत्या मुखवासम् । तच्च एलालवङ्ग तक्कोल जातीफल कर्पूर चूर्ण हिमजलपिष्टङ्गुळकीकृत मित्युक्तम् । एलालवङ्गङ्कित तक्कोल जातीफल कर्पूरचूर्ण मीषन्मधुसितायुक्तं केवलंवा पञ्चसौगन्धिकाख्य मुत्तमम् । केवलं कर्पूर जातीलवङ्गतक्कोलचूर्णंवा मध्यंअम् । प्रस्थनैवेद्यस्य द्विधाकृतमॄदुक्रमुकखण्डानि षट्चत्वारिंशद्वेवापत्राणि क्रमुकफलापेक्षया चतुर्गुणानि त्रिगुणानि द्विगुणानिवा शुभ्राणि खण्डितमूलाग्राणि शिलाचूर्णं चेतिसर्वमिदं संगृह्य कर्पूरादिसहितं सुपक्कसंस्कृत नाळिकेरमातुलिङ्गफलयुक्तं तांबूलं निवेदयेत्। ततोमूलमन्त्रेण विशेषार्घ्यं दत्वा एकत्रिपञ्चसप्तनवावृत्तियुक्तदीपं प्रदर्श्य त्रिताल पञ्चताल नागचक्रपद्म पुरुषमृगगजारूढदेवेन्द्राद्याकृतिपात्र निहितान् दीपानपि यथा विभवं प्रद् र्श्यारात्रिकं कुर्यात् ॥

No comments