श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Shivarchana Chandrika. Astro Classes.
श्रीमदप्पय्यदीक्षितेन्द्र्कृतयः शिवार्चनाचन्द्रिका || Astro Classes, Silvassa.
Srimad Appayya Dikshithar's - Shivarchana Chandrika.
शिवार्चनाचन्द्रिकायाः विषयसूचिका ॥
विषयाः ---- पृष्ठे
दन्तधावनविधिः
स्नानविधिः
संक्षिप्तशैवसन्ध्याविधिः
भस्मधारणविधिः
त्रिपुण्ड्रविधिः
रुद्राक्षधारणविधिः
सकळीकरणप्रकारः
द्वारपालार्चनम्
आत्मशुद्धिः
देहशुद्धिः
अन्तर्यागक्रमः
अग्निकायक्रमः
स्थानशुद्धिः
द्रव्यशुद्धिः
पाद्यादिपूजा
पञ्चामृतविधिः
स्नपनोदकविधानं
द्रव्यसुद्धिः
मन्त्रशुद्धिः
लिङ्गशुद्धिः
पाद्यादिप्रकारः
आवरणार्चनं नैवेद्यविधिः
तांबूलदानं आरात्रिकविधिः
पञ्चाक्षरजपविधिः
प्रदक्षिणविधिः
प्रणामविधिः
अग्निकार्यविधिः
शिवज्ञानपूजाविधिः
कपिलापूजापरार्थालयदर्शनंचुल्लीहोमः
निर्माल्यविचारः
भोजनविधिः

शिवार्चनाचन्द्रिका ॥
यस्याहुरागमविद: परिपूर्णशक्तेरंशे कियत्यपि निविष्टममुं प्रपञ्चम् । तस्मै तमालरुचिभासुरकन्धराय नारायणीसहचराय नमश्शिवाय ॥ अवश्यकार्यं शैवानामात्मार्थशिवपूजनम् । तच्च वैदिकमिश्राभ्या मेतेषां शैवमुत्तमम् ॥तदप्यशक्तिकाच्छुद्धात् मिश्रात्सैरादिकादपि । सशक्ति केवलं श्लाघ्यं संक्षिप्तं भुक्तिमुक्तिदम् ॥ तस्मादात्मार्थयजनं शम्भो रंबिकया सह । संगृह्य दर्श-यिष्यामि सर्वदिव्यागमोद्ध्रुतम् ॥ दिव्यागमार्थसाङ्कर्यंऐकतन्त्र्यान्न दोषकृत् । विन्तुपाशुपतार्थं च साङ्कर्यं तेषु दोषकृत् ॥ तेष्वप्येकम् समाश्रित्य ग्राह्यंअन्यदपेक्षिते ।इत्येतन्मानुषे लिङ्गे नतु स्वायंभुवादिषु॥ एकागमावलंबेऽपि प्रविहाय तदीरितम् । प्रशस्तमन्यतो ग्राह्यंइत्युपादिशदीश्वर: ॥ प्राशस्त्यस्योभयोस्साम्येऽप्यर्चनाङ्गम-पेक्षितम् ॥ तत्रोक्त मन्यतन्त्रोक्तं सममित्यप्युपादिशत् ॥ तस्माद्दिव्यागमेभ्योऽसौ अखिलेभ्यस्समुद्दुतै: । अपेक्षितांशै: क्रियते श्रीशिवार्चनचन्द्रिका ॥
आचम्य भह्स्मरुद्राक्षविभूषितकळेबर: । सकळीकृत्य संस्कुर्यात्सामान्यर्घ्यं यथाविधि ॥ शुद्धविद्यात्मकं ध्यात्वा शिवपूजानिकेतनम् । तद्द्वारे(अ)नुत्तरे कुर्यात् द्वारपालार्चनं क्रमात् विघ्नत्रयं समुत्सार्य प्रविश्यास्त्रादिपूजनम् । कृत्वा पूजोपकरणं सकलं सन्निधापयेत् ॥ देवस्य दक्षिणे भागे पावकस्योत्तरामुखम् । विहिता सनमास्थाय पञ्चशुद्धिं समाचरेत् ॥ आदित्यस्योदयात्पूर्वं मुहूर्तद्वितये स्थिते । उत्थाय धैताम्घ्रिकर: कृतभस्मावकुण्ठन: हृदि सामान्यसमयी चिन्तयेत्परमेश्वरम् । विशिष्टसमयी बिन्दो मूर्ध्रि निर्वाणदीक्षित: ॥ आचार्यबोधकश्चैनं द्वादशान्ते विचिन्तयेत् । नामानि चास्य ह्रुद्यानि चरित्राणि च कीर्तयेत् ॥ विण्मूत्रोत्सर्जनं कुर्यात् गत्वा देशं यथोचितम् ॥ उदङ्मुखो(अ)हस्सन्ध्यासु रजन्यां दक्षिणामुख:
प्राक्प्रत्यग्वदनो यद्वा दिनपूर्वापरार्धयोः । उदङ्मुखस्तु मध्याह्ने रजन्यां दक्षिणामुख: । नभो विण्मूत्रादिक्चन्द्र सूर्यतराग्निदर्शनम् ॥ देवगोमुनिविप्रस्त्रीसम्मुखं च विवर्जयेत् । त्रुणै:पायु मयज्ञार्है रिज्याद्यनुपयोगिभि: ॥ लोष्टाद्यैर्वा न सत्पुष्पपर्णकाष्ठफलादिभि: । अधोद्रुष्टि: प्रजननं ग्रुह्णन्वामेन पाणिना । जलाभ्याशमुपागम्य शौचं कुर्वीत मृज्जलै: ।एका लिङ्गे गुदे पञ्चदश वामकरे मृद: । षष्ठं च पृष्ठे चाग्रे च करयोस्सप्त म्रुत्तिका: ॥ वल्मीके वृक्षमूले च गृहे मार्गे जलान्तरे । ऊषरे मूषिकोत्खाते गोव्रजे देवतालये ॥ वापीकूपतटाकादिमूले च सिकतास्थले ॥ वीथ्यां श्मशाने कीटास्थितुषाङ्गारादिदूषिते । पांसुले परशौचार्धशिष्टमृत्कीर्णभूतले ॥ हलोत्खाते च जंबाले शर्करे नाहरेन्मृदम् । । शुद्धभूमै च मृत्ग्राह्या व्यपोह्योपरि मृत्तिकाम् ।यथा स्यात् शौचपर्याप्ता नावशिष्येत वा यथा ॥ प्रथमं पायुशौचें स्यादर्धप्रसृतिमानत:। तदर्धमानत: पश्चात्तदर्धे न तत: परम् ॥ आर्द्रामलकमानं स्यान्मूत्रशैचेतु म्रुत्तिका । द्विगुणं मृत्तिका शुक्ल्ये त्रिगुणं दारसङ्गतौ॥ एतच्छौचं गृहस्थस्य भावशुद्ध्यै ततोऽधिकम् । ब्रह्मचार्यादिकानां तु क्रमात् द्वित्रिचतुर्गुणम् ।यस्य यावद्दिवा शोचं तदर्धं निशि तस्य तत् । तदर्धमातुरे चोक्त मातुराधं वनाध्वनि ॥ आगुल्फं चरणौ मृद्धि: करावामणिबन्धकौ ।संक्षाल्य क्षाळयेत्पश्चा दाजान्वाकूर्परं जलै: ॥ धाराशौचं च कर्तव्यं शौचशुद्धिमभीप्सता ।चुळकैरेव कर्तव्यं हस्तौ शुद्धिविधानत: । शौचे मृज्जलदानार्थं कर्तव्यौ परिचारकौ । सव्यहस्तग्रुहीता च क्षेप्या मृद्वामहस्तके ॥ कुर्याद्द्वादश गण्डूषान् पुरीषोत्सर्जने कृते । कुर्वीत चतुरो मूत्रे भोजनान्ते तु षोडश ॥ प्राङ्मुख: क्षाळयेत्पादौ हस्तौ वक्त्रमुदङ्मुख: । उदङ्मुख: प्राङ्मुखो वा ततस्त्वाचमनं चरेत् ॥
॥ दन्तधावनविधि:॥
ह्रुन्मन्त्रेण ततो ग्राह्यं दन्तकाष्ठं त्वगन्वितम् । अपर्वाग्रसमच्छेदमाद्यंअग्रे च कूर्चितम् ॥ कनिष्ठिकासमस्थौल्यं सूक्ष्मं वा दन्तसौक्ष्म्यत: ॥ अष्टांगुळं नैष्ठिकानां भोगिनां द्वादशांगुळं । वर्णानां दशकं चाष्टसप्तांगुळिकमेवच । षडङ्गुळं प्रहीणानां नारीणां चतुरङ्गुळम् । जम्ब्वाम्लककुभाशोककपित्थवकुलोद्भवम् ॥ प्लक्षौदुम्बरफल्लांघ्रीजाजीचम्पकशंखजम् । अतिमुक्तकदम्बोत्थमपामार्गं च भोगिनाम् । ग्राह्यंएतच्चशैरीषचिरिबिल्वकरञ्चकम्। श्रीपर्णदारुनिर्गुण्डी सारसम् खादिरायते ॥ अक्षक्षीरिध वैरण्डवाश्वत्थाग्रशिग्रुजम् । अकुलिशेलुवानीरधात्री चोदुम्बरोद्भवम् ॥ खर्जूरना ळिकेरोत्थं पालावंशम् तालवंशजम् । तृणपणापिशोचोहमोष्टकान्गारभस्मजम् । अङ्गुली चविवर्ज्यानि सुवर्णादिकृतम् तथा ॥ प्रतिपन्नवमीषष्ठी द्वादशी पञ्चपर्वकम् । उपवासदिनं जन्मत्रयं च शनिवासरम् ॥ भानुवारं व्यतीपातं ग्रहणश्राद्धवासरम् । सूर्योदयानन्तरं च विवर्ज्यं दन्तधावनम् ॥ अलाभे दन्तकाष्ठानां निषिद्धदिवशेषु च । गण्डूषैर्द्वादशाव्रुत्तैर्दलैर्वा शोधयेद्रदान् । जिह्वानिर्लेहनम् कुर्याज्जिह्वामलविशोधनै: । फालाक्षिश्रोत्रनासास्यरेतोविण्मूत्रगात्रजम् । करपादगतं यद्वच्छोद्ध्यं तत्सकलं मलम् ॥ नासिकाश्रोत्रनेत्रादिक्षिलनेन विशुध्यति ॥ एवम् मलानि संशोध्य वारुणस्रानमाचरेत् । अशेषमालिन्यहरं दु:स्वप्नादिविनाशनम् ॥
॥ अथ स्त्नानविधि: ॥
विधिवदाचान्त: कृतकरन्यास: प्राणानायंय दर्भान्धारयन् ॥ अमुकस्थे रवौ मासि तिथौ वारे सरिद्वरे । स्त्रानं देव करिष्यामि त्वत्पूजार्थम् प्रसीद मे ॥ इति विज्ञाप शुद्धभूमि मष्टांगुलपर्यतम् हुम्फडन्तास्त्रेण खात्वा तेनैव मन्त्रेण म्रुदमुद्धुत्य तद्वस्तुनि मृदम् मूलमन्त्रेण नमोन्तह्रुदयेनवाऽऽदाय नमोन्तह्र्दयेन प्रथममुद्धुतया म्रुदा खातमापूर्य नमोन्तशिरसा सरित्सरस्तटाकादितीरे विशुद्धे निक्षिपेत् । सरिदादीनां दक्षिणतीरं स्त्रानार्थ मतिप्रशस्तम् । ततो हुम्फडन्तास्त्रेण मृदमभ्यक्ष्य नमोन्तशिरसा मृदमस्त्रेण मूलादीन्युद्धुत्य नमोन्तकवचेन तां त्रिधा विभज्य नाभ्यादिपादान्त मेकाम्शेन प्रक्षाल्य द्वितीयंश्म् सप्तवार म्स्त्रमन्त्रजप्तमस्त्ररश्मिसम्पर्काद्दीप्तम् विभाव्य सर्वमन्गतेनालिप्य जलम् प्रविश्य जलमस्त्रेणालोड्यान्गुष्ठाभ्याम् कर्णौ तर्जनीभ्यामक्षिणी मध्यंआभ्याम् नासिकेच द्रुढम् पिधाय प्रणवम् मूलसहितम् वा जपन् ह्रुदये ज्वलदस्रम् देहम् तत्तेज: पुन्जपिन्जरच्छवि विभावयन् जले निमग्नो यावच्छक्ति अवतिष्ठेत। अथवा म्रुदम् द्वेधा विभज्य अस्त्रजप्तेन एकेन भागेन सर्वमन्गमालिप्य स्रायत् । तदेतन्मलस्त्रानम् । यद्वा-वक्ष्यंआणविधिस्त्रानार्थमेव मृदाहरणम् मलस्त्रानां तु हरिद्रामलकादिपिष्टैरेव कार्यं । अत्र रेतोविण्मुत्रनासिकामुखचक्षुश्रोत्रनखपादमलरूपाणां शरीरमलानाम् शौचादिमलस्त्रानान्तकर्मान्तर्गतै:म्रुद्द्न्तकष्ठहरिद्रामलकादिघर्षणैरुदकसेचनैश्च शुद्धि: । वाचिकमलस्त्रानं स्त्रानकालिकै: प्रणवादिजपै: । मलस्त्रानमस्त्रमन्त्रस्त्रानादिभि: । ततो जलादुत्थाय आदित्यं निरीक्ष्य अस्त्रेण मूर्ध्रि निक्षिप्य जलादुत्तीर्याचम्याविरक्तो द्विजश्चेद्वैदिकसन्धया मुपास्य संषेपत: शैवीमपि सन्ध्यामुपासीत। विरक्तो द्विजश्चतुर्थश्च शैवीमेवोपासीत ॥
॥ सम्क्षिप्तशैवसन्ध्याप्रकार: ॥
अस्त्रमन्त्रेण शिरसि त्रिवारमङुल्यग्रगतैर्जलबिन्दुभि: प्रोक्ष्य शिवास्त्राय विह्महे कालानलाय धीमहि । तन्नश्शस्त्र: पचोदयात् इत्यस्त्रगायत्रया सूर्यंअण्डलस्थाय अस्त्राय त्रिवारमर्घ्यं द्त्वा यथाशक्त्यस्त्रगायत्रींजपेत् । यद्वा अस्त्रासन्ध्यास्थाने ह्रुदये ज्वलन्तमस्त्रमन्त्रंध्यायेत् । ततो विधिस्रानार्थं बिन्दुस्थानाद्गन्गादितीर्थानाम् मध्ये एकतमम् तीर्थम् अङ्कुशमुद्रया औषडन्तह्रुदयेनाकृष्य उद्भवमुद्रया नमोन्तह्रुदयेन पुरतस्सं स्थाप्य तेनापूरितं सरित्तटाकादिकम् सन्चिन्तयेत् । तदनु विधिस्त्रानार्थम् स्थापितमृद्भाग मादाय नाभिदघ्नजलं प्रविश्य नदीषु प्रवाहाभिमुखोऽन्यत्र प्राङ्मुख उदङ्मुखो वा मत्स्यंअण्डू कादिवासभूत जलदोषपरिहारार्थं हस्तमात्रं चतुरश्रं शिवतीर्थं पुरत: परिकल्पयेत् । तत्रायं क्रम: मृद्भागं वामकरे पूर्वयाम्यसौ म्यदिक्षु त्रिधा विभज्य पूर्वं सप्तवाराव्रुत्ते- आस्त्रमन्त्रेणाभिमन्त्र्य याम्यंअष्टवाराव्रुत्तेन कवचान्तैरङ्गैर्वा सौ म्यं दशवारावृत्तेनास्त्रमन्त्रेण शिवेन चाभिमन्त्रय तत्रास्त्रजप्तं हुंफडन्तास्त्रेण नाराचमुद्रया पूर्वादिषु सर्वासु दिक्षु क्षिपेत्। एवं दिग्विघ्नामधिपस्य इन्द्रस्य दिशि स्थितस्य मृद्भागस्य दिक्षुक्षेपेण तत्तद्दिगवस्थिता: सर्वे विघ्नाश्शमम् यान्ति । तदनु शिवज्प्तमृद्भागार्धं मूलेन जले शिवतीर्थसिध्यर्थे निक्षिप्य तदपराधं शिवतीर्थसमानसिध्यर्थं मूलमन्त्रकृतेन बाहुपरिभ्रमणेन समन्तान्निक्षिपेत् । एवं सोमदिशि स्थापितो मृद्भाग: केवलममृत मयस्सन्शिवमन्त्रेण लोळनात् क्षरतीति तत्तीर्थमम्रुतमयं भवति । इत्थं शिवतीर्थम् परिकल्प्य विधितस्स्त्रायात् । तदर्थम् प्रथमम् ब्रह्माङ्गजप्तेन मृद्भागेन सर्वमन्गम् लिपेत् । धर्मराजदिशि स्थितस्य म्रुद्भागस्य सम्स्पर्शनात्सर्वपापक्षयो भवति। अतष्षण्मुखीकरणमुद्रया श्रोत्रादिद्वाराणि पिधाय शिवतीर्थमध्ये निमज्ज्य शिवमन्त्रम् ह्यायन्नन्तर्जले यावच्छक्ति अवतिष्ठेत । अन्तर्जले सर्वाङ्गानिमज्जनमुत्त्ममर्द्धान्गनिम्निमज्जनम् मध्यमं मुखमात्रनिमज्जनं कनीय: । ततो ज्लाद्रुत्थाय वामदक्षिणहस्तौ सोमसूर्यात्मकौ शक्तिशिवौ वा विचिन्त्य ताभ्याम् क्रुतया कुम्भमुद्रया वैषडन्तसहिताभिमन्त्रितै: जलैश्शिरस्यभिषिच्य हंफडन्तास्त्रेण विघ्नशमनार्थं जलं दिक्षु विदिक्षु च विनिक्षिप्य तत्तीर्थजले शिवतीर्थसिद्ध्यर्थे निक्षिप्य तदपरार्द्ध्म् शिवतीर्थसीमनि सम्हारमुद्रया उपसम्हरेत् । इत्थं सरिदादिकं गत्वा स्त्रातुमशक्तौ ग्रुहएव शुद्धे गोमयलिप्ते भूभागे पीठेस्थ: शीतजलपूरितैश्शिवमन्त्रजप्तै: नवभिरष्टभि: पञ्चभिर्वा कुम्भैस्स्त्रायात् । राजान: स्त्रीबालरोगिण: प्रवासिनश्च शीतोदकस्त्रानाशक्तौ उष्णोदकेन स्त्रानम् कुर्यु: ॥ शिरसि स्त्रानाश्क्तौ कण्ठस्त्रानादिकम् कुर्यु: । राजानस्चेत् शिवपूजार्थं शिवस्त्रपनोक्तसर्वोपचरस्त्रानसहितस्त्रानविधानात् सुवर्णपीठे स्थित्वा सुवर्णकुम्भहॄतैर्जलैश्शन्ग्खादिमन्गलवाद्यघोषपुरस्सरम् स्त्रानम् कुर्युः। तदनु शुद्धमृदुवस्त्रेण देहसम्मार्जनं धौतवस्त्रद्वयपरिधानं आचमनं सकलीकरणं भस्मस्त्रानं त्रिपुण्ड्रधाराणमित्येतत्सर्वं निर्वर्त्य सन्ध्यां वन्देत् ॥
॥शैवसन्धयाप्रकारः॥॥तत्प्रकारः॥
संहितया गायत्र्यावा त्रिः प्राणानायंय हौं नेत्राभ्य्यां नम इत्यङ्गुष्ठाभ्यां नेत्रयोर्दिव्यंउद्रां विन्यस्य नमोन्तमूलेन जलं निरीक्ष्य तेनैव सन्ताड्य वौषडंतकवचेना भ्युक्ष्य वौषडंतहृदयेनाङ्कुशमुद्रया बिन्दुस्थानाद्ङ्गादीना मेकतमं तीर्थमाकृष्य नमोन्त हृदयेनोद्भवमुद्रया तत्तीर्थं जले निक्षिप्य मूलेनाभिमन्त्रय हुंफडन्तास्त्रेण संरक्षय नमोन्तकवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रया अमृतीकुर्यात् । अथ सन्ध्यां ध्यायेत् । सन्ध्या त्रिविधा ब्राह्मी वैष्णवी रौद्रीति । तत्र रक्तस्रग्वसनारक्ता रक्तालङ्कारशोभिता । हंसासनसमासीना यज्ञसूत्रटाधरा ॥ चतुर्भुजाचतुर्वक्त्रा लोचनाष्टकभूषिता । अक्षमालां स्त्रुचं सव्ये वामे द्ण्डं कमण्डलुम् । दधाना ब्रह्मदेवत्या प्रातस्सन्ध्या त्रिधाच सा । प्रात: कालेऽल्पनक्षत्रे सुबाला मुक्तिदा प्रभुः॥ प्रातस्तु लुप्तनक्षत्रे भुक्तिमुक्तिप्रदायिनी ॥ ज्ञानशक्तिस्वरूपा सा मध्यंआ बाल्यंआश्रिता ॥ भुक्तिप्रदायिनी भानो रर्द्धमण्डलदर्शने । क्रियाशक्तिस्वरूपासा प्रौढा बाल्यं समाश्रिता ॥ सुवर्णपङ्कजासीना सितवस्त्रादिभूषिता । वनमालोपवीताभ्यां भूषिताच द्विलोचना ॥ एकवक्त्रा चतुर्हस्ता दक्षिणे सगदाम्बुजा । शङ्खचक्रधरा वामे मध्या स्न्ध्यात् वैष्णवी ।साचद्वितीया यामस्य तुर्यभागे त्रिधा भवेत् । आद्यांशे मुक्तिदा साच किञ्चिदुद्भित्रयौवना । मध्यांशे मध्यातारुण्या वागीशी भुक्तिमुक्तिदा ॥ ज्वालाभिधा तृतीयांशे मुक्तिदा प्रौढयौवना ॥ वृषपङ्कजमध्यस्था त्रिणेत्रा चन्द्र्शेखरा ॥ शार्दूलचर्मवसना मेघश्यामळविग्रहा ॥ त्रिशूलाक्षधरा सव्ये वामे साभयशक्तिका ॥सायं सन्ध्या समृतारोद्री त्रिविधासापि पूर्ववत् । आरक्तार्ककरे काले किञ्चिच्चलित यौवना॥ वामाभिधाना सारौद्री ध्यातॄणां मुक्तिदायिनी । यौवनार्धच्युताऽर्धार्केज्येष्ठाख्या भुक्तिमुक्तिदा ।भुक्तिदास्तमिते सूर्ये रौद्र्यख्या गरयौवना । एवं नवविधास्सन्ध्या श्शिवशास्त्रे शिवोदिता: । साक्षिभूतास्समस्तस्य पूजिता वाञ्छितप्रदा: ॥ ब्राह्मी हृत्पङ्कजगता वैष्णवी बिन्दुमध्यगा ॥ ब्रह्म रन्ध्रगता रौद्र्य् स्स्वस्वकालेषु चिन्तयेत् । प्रातस्सन्ध्या समयिनो मध्यंआच विशेषिण: ॥ निर्वाणदीक्षितस्यैव स्न्ध्यात्रितयंइष्यते । तत्र यस्स्यात्सप्तकलाप्रासादप्रवणो बुध: । सबिन्दु शक्तिस्समनास्थानत्रितयवर्तिनी: । मृणाळतन्तुवत्तन्वी रारक्तश्वेतचामरा: ॥ ध्यायेत्क्रियाद्दगिच्छाख्या: प्रासादोच्चरपूर्वकम् ॥ यस्य तु द्वादशकले प्रसादे निष्ठिता मति: । तेन सन्ध्या परा चिन्त्या या निशीथे विभाव्यते ॥ नाभ्यादिद्वादशान्तान्तं ततो नाभ्यवसानकम् । गमागमवती तुर्या निरूपा मेचकाऽःथवा ॥ ज्ञनिनां तु वरा सन्ध्या शिवबोधस्वरूपिणी । द्वादशान्तस्थितं शंभुं चन्द्रिकेन्दुमिवाश्रिता ॥ एकैव वस्तुतस्सन्ध्या शिवशक्तिस्वरूपिणी । कालाधिकारिभेदेन सैव भिन्ना त्रिधा मता । सन्ध्याचिन्तनमेवेदं सन्ध्यावन्दनमुच्यते । अङ्गमस्य प्रधानस्य यदन्यन्मार्जनादिकम् ॥एवं कृतसन्ध्योपासनादिकर्मणा शिवपूजा समारम्भणीया ॥
तत्रायं क्रमः- ततोङ्गुष्ठमीशान मनामिका ममृतकलां च ध्यात्वा अङ्गुष्ठयुक्तयाऽनामिकया चक्षुषी नासिके शोत्रे अंसौ हृदयं नाभिं शिरश्च क्रमेण आदित्यस्तृप्यतु विष्णुस्तप्यत्विति भावयन्नेव स्पृशेत् । एवं कृते शिवतेजस्संपर्कात् क्षुभिता नामिकामृतप्रवाहतृप्ता: नेत्राद्यधिष्ठातार स्सूर्यादयो विष्ण्वन्ता देवा: कर्तुरधिष्ठानोप बृह्मिका भवन्ति । तदनन्तरं शरीरगतपञ्चत्रिंशत्तत्वशुद्ध्य्र्थं चिन्मात्राचमनं कुर्यात् ॥
तत्रायंविशेष: - सुवर्णवर्णं पद्माक्षमालास्त्रक्कुण्डिकालङ्कृतकरचतुष्टयं चतुर्वक्त्त्र् मात्मतत्वरूपं ब्रह्माणं ध्यायामीति आत्मतत्त्वध्यानपूर्वकं हां आत्मतत्वायस्वधेति प्रथममाचामेत् । अनेन स्वशरीरे पृथिव्यादिमायान्ते एकत्रिंशत्तत्वशुद्धिं भावयेत् । ततो नीलवर्णं चक्रबाणकमलचिन्मुद्राशङ्खकार्मुक कमण्डल्वभयंउद्राङ्कितकराष्टकमेकवक्त्रं विद्यातत्वरूपं विष्णुं ध्यायामीति विद्यातत्वपूर्वकं हिं विद्यातत्वाय स्वधेत्याचामेत् । अनेन शुद्धविद्येश्वरसदाशिवाख्यत्रितत्व्शुद्धिं भावयेत् । ततस्फटिकर्णं पद्माक्ष्मालशूलकमण्डलुधरकरचामेत् । अनेन शक्तितत्वशुद्धिंभावयेत् । ततोऽस्त्रमन्त्रेण ओष्ठं द्वि: प्रमृज्य हृन्मन्त्रेण नेत्रादीन्स्पृशेत्।अन्यत्तु तत्तद्देवतातृप्ति ध्यानादिकं पूर्ववत्कुर्यात् ॥ इत्याचमनक्रम: ॥
ततोऽभिषिच्य देवेशं निवेश्य कमलासने । तत्रासनंच मूर्तिच विद्यादेह्ं च पूजयेत् ॥आवाह्याथ महादेवं संपूज्य स्थापनादिभि: । मनसा स्त्रापयित्वाच दद्याद्वस्त्रोपवीतकम् ॥ततस्सम्पूज्य देवेशं ग्न्धपुष्पविभूषणै: धूपं दीपञ्च दच्वाऽथकुर्यादावरणार्चनम्। नैवेद्यं मुखवासञ्च तांबूलं च समर्पयेत् । धूपमारात्रिकां दत्वा पवित्रञ्च समर्पयेत् ॥ धारयित्वा सितं भस्म दर्पणाद्यै: प्रपूजयेत् ॥ बलिं दत्वाऽथपाद्याद्यै: गन्धपुष्पैश्च पूजयेत् ।जपस्तोत्रनमस्कारप्रदक्षिणपुरस्सरम् ॥ अष्ठपुष्पिकयाऽभ्यर्च्य विशेषार्घ्येण पूजयेत् ॥ परङ्मुखार्घ्येणोद्वास्य शिवं सावरणादिकम् ।काले शिवं हृदि ध्यायन् अश्रीयात्तन्निवेदितम्॥
एवं संक्षिप्य कथित: शिवपूजाविधिक्रम: । विविच्य दर्शयिष्यामो नातिसंकोचविस्तरम् ॥तत्र तावदाचमनमुच्यते । ह्रीं शिरसेनम: । आजानुपादा वाम् मणिबन्धञ्च पाणिं प्रक्षाळ्य प्राङ्मुख उदङ्मुखोवा कुक्कुटासनस्थ: पाणिद्वयं जानुनी अन्तर निधाय पाणिद्वयेऽपि कनिष्ठिकादिषु अङ्गुळीषु हां हृदयायनमः । हीं शिरसेनम: । हूं शिखायैनम: । हैङ्कवचायनम: । हौं नेत्रत्रयायनम: । हः अस्त्रायफडिति विन्यस्य दक्षिणपाणिं गोकर्णाकृतिं कृत्वा तेन माषामज्जनार्हं जलं गृहीत्वा संवीक्ष्याङ्गुष्ठकनिष्टिके मुक्त्वा तज्जलं शुक्लपक्षे सोमरूपं कृष्णपक्षे सूर्यरूपं च विचिन्त्य तत्प्राशनेन रसनाग्नस्थिताया भारत्यास्तृप्ति: स्वस्यान्तर्देहशुद्धिञ्च ध्यात्वा अन्तरान्तरा हस्तप्रक्षाळनपूर्वकं ब्रह्मतीर्थेन स्वधान्तेन मूलमन्त्रेण त्रिराचामेत् । तत स्स्वस्याननशुद्धिं ओष्ठोसंपुटस्थिताया: प्रणवदेवताया : शुद्धिंविभावयन् अङ्जुष्ठमूलेन द्विरोष्ठौ द्विवारं मार्जयेत् ॥
अथ भस्मधारणम्
चतुर्विधं भस्म कल्प मनुकल्प मुपकल्प मकल्पञ्चेति । तत्र व्याध्यादिरहितां सवत्सां गां तदीयं गोमयं भूमावपतितं आकाशस्थमेव गृहीत्वा पिण्डीकृत्य विशोष्य पञ्चब्रह्ममन्त्रैश्शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य यत्संपादितं यच्चग्निहोत्रे समुद्भूतं तदुभयं कल्पम् । वने शुष्कं गोमयं गृहीत्वा शिववह्नौ दग्ध्वा मूलेन विशोद्ध्य संपादितमनुकल्पम् । अटवीगृहे गोवासे इष्टकापाकादिषु दावाज्ञादिभिर्दग्धंभस्म गृहीत्वा वस्त्रेण संशोद्ध्य गोमूत्रेण पिण्डीकृत्य पुनश्शिवाग्नौ दग्धं मूलेन शोधितमुपकल्पम् । मन्त्रादिहीनं ब्राह्मणै: स्त्रीशूद्रादिभिर्वा शुचि गोमयं गृहीत्वा संपादितं श्रोत्रियागारचुल्ल्यादिभ्योगृहीतंवा यत्तदकल्पम् । अकाल्पञ्चेत्तदृहीत्वाऽस्त्रमन्त्रेण दिज्बन्धनं कृत्वा हों ईशानमूर्ध्नेनमः । हें तत्पुरुषवक्रायनमः । हुं अघोरहृदयायनमः । हिं वामदेवगुह्यायनम: । हं सद्योजातमूर्तयेनम: । हां हृदयायनम: । हीं शिरसेनम: । हूं शिखायैनम: । हैं कवचायनम: । हौं नेत्रायनम: । हः अस्त्रायनमः । ह्लां निवृत्तिकलायै नम: । ह्लीं प्रतिष्ठाकलायैनम: । ह्रूं विद्याकलायै नम: । ह्यैं शान्ति कलायैनम: ।हौं शान्त्यतीतकलायैनम: । इति पञ्चब्रह्मषडङ्गेन कलामन्त्रैस्संशोधयेत् । एवंभूतस्य भस्मानो धारणं द्विविधं उद्धूळनं त्रिपुण्ड्रंच। उद्धूळ्नमपि द्विविधम् । मलस्नानरूपं विधिस्नानरूपं च। अम्भसास्रातस्य द्विविधेऽपि भस्मस्त्राने अधिकारः । तदशक्तौ कण्ठपर्यन्तं कतिपर्यन्तं जानुपर्यन्तंवा संक्षाळ्य क्षाळिताङ्गुष्ठोत्थितवह्निना देहगरबाह्यंअलमात्रं दग्धं विचिन्त्यवह्निसंबन्धक्षुभित बिन्दुस्थानस्थितशक्तिमण्डलस्त्रवदमृतप्रवाहेण शरीरमाप्लायेत् । अथ मनसा मूलमन्त्रन्नादान्तमुच्चरन्नेव तत्संपर्कक्षुभितशक्तिपरिसृतबहुळामृतधारया देहमभिषिक्तं भावयेत् । इदं मानसस्रानमशुचित्त्वशङ्कायां सदासर्वत्रविधेयं । अथवा तामेव शक्तिं गोरूपां ध्यात्वा तत्पुच्छकिरणामृतप्रवाहेण शरीरमाप्लावयेत् । एतद्भावस्रानम्। गङ्गायंउनादिदिव्यजलैर्वा शरीरं प्रोक्षयेत् । तत्क्षेत्रमृत्तिकारजोभिर्वा पञ्चब्रह्माषडङ्गमूलमन्त्रैर्देहंस्पृशेत् । एषामएकतमप्रकारं कृत्वा पञ्चब्रह्मषड्ङ्गमूलमन्त्रमेकवारं त्रिवारंवा जपेत्। तत: प्राग्वदाचमनद्वयं कृत्वा पञ्चब्रह्मषडङ्गमूलमन्त्रमेकवारं त्रिवारंवा जपेत् । तत: प्राग्वादाचमनद्वयं कृत्वा संभावितसकलबाह्याभ्यन्तराशुद्धिनिरासकं भस्मस्त्रानं कुर्यात् ॥
तत्क्रम:
गोब्राह्मणदेवताग्निगुरुविद्यासन्निधिं परिहृत्य म्लेच्छान्त्यजकृतघ्नदर्शनादिरहिते मार्गभिन्ने शुचौ देशे प्राङ्मुख उदङ्मुखोवा निवेश्य कल्पानुकल्परूपं मुष्टिमात्रं विप्रादिक्र्मेण निष्कसार्धनिष्कद्वयसार्धनिष्कद्वयप्रमाणं वा भस्मादाय नैर् ॠतकोणे तद्राक्षसाशं निरस्याकल्पं भस्म चेद्दिग्बन्धनपूर्वकं पञ्चब्रह्मषडङ्गमन्त्रैस्संशोद्ध्य चतुर्विधमपि भस्म सप्तवारं हुंफडन्तास्रेणाभिमन्त्र्य तेन विरक्तश्चेत्पादादारभ्यंअस्तकान्त मविरक्तश्चेन्मस्तकादरभ्य पादान्तं दक्षिणाङ्गुष्टतर्जन्यग्रगृहीतेन स्वल्पेन भस्मना तद्गम्यकरपादव्यतिरिक्ताङगसंस्पर्शरूप मुद्धूळनं कुर्यात् । तदेतन्मलस्नानम् । ततष्षडङ्गमन्त्रजप्तेन भस्मनेशानादिपञ्चब्रह्ममन्त्रै: मूर्धहृदयगुह्यपादावयवानां सद्योजात मन्त्रोणवांऽसयोस्तदितरसर्वाङ्गानां च दक्षिणहस्तेनच तदगम्याङगानां वामहस्तेन चोद्धूळ्नं कुर्यात् । अवशिष्टं भस्म मूलेन कुम्भमुद्रया शिरस्यभिषिञ्चेत् । एवं सर्वा ङ्गोद्धूळ्नं ब्राह्मण: कुर्यात् । क्षत्रियादय: क्रमेण ललाटे चतुरश्रत्र्यश्रवृत्तानि कृत्वा कण्ठादधो नाभेरूर्द्ध्व मुद्धूळयेयुः शूद्रः इद्धूळनं वर्जयित्वा वक्ष्यंआणत्रिपुण्ड्रात्मकमेववा भस्मस्नानं कुर्यात्। तदेतत्त्पस्विव्यतिरिक्तशूद्रविषयं । अत एव ज्ञानरत्नावल्याम्तपस्वी चेद्विधिवद्भस्मसङ्गृह्य तेनस्नानमाचरे दित्यादिना मलस्नानविधोस्नानयो रधिकारिविशेषेण तपस्विनामुक्तम् । एवं क्षत्रियवैश्यावप्यतपस्विनौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्याताम् । ब्राह्मणादयश्चत्वारोवाऽप्युद्धूळनाशक्तौ त्रिपुण्ड्रात्मकमेव भस्मस्नानं कुर्युः। केवलत्रिपुण्ड्रात्मकभस्मस्नानाभिप्रायेणैव केषुचिदागमेष्वपि विप्रादिक्र्मेण निष्कंनिष्कार्द्धं तदर्द्ध्ं तदर्द्ध्ं चेति भस्मप्रमाणमुक्तम् । इदं व विधिस्नानरूपं दीक्षितगृहस्थैस्सन्ध्यात्रयेऽपि जलसंयुक्तं कार्यं । स्त्रीभिर्यतिभिश्च जलवर्जितं व्रतिवानप्रस्थकन्यकादिभिर्दीक्षाहीनैश्च मद्ध्याह्नात्प्राग्जलसंयुक्तं परतोजलवर्जितञ्च कार्यं । एवं भस्मास्नानानुष्ठाने वस्त्रांतरं परिधायाचामेत् । अपिधायवा केवलमाचामेत् ॥
त्रिपुण्ड्रविधिः ॥ अथ त्रिपुण्ड्रम्॥
तच्च वर्णानां क्रमेण सप्तपञ्चचतुस्त्र्यङ्गुळं सर्वेषांवा ललाटे हृदि बाह्वो श्चतुरङ्गुळं अवयवान्तरेष्वेकाङ्गुळमित्यादिनानागमोक्तपक्षाणां मध्ये पूर्वाचारप्राप्तं कञ्चित्पक्षं परिगृह्य ललाटादिषु स्थानेषु तर्जनीमद्ध्यंआनामिकाभिस्तिसृभिरङ्गुळिभिःकर्तव्यं । ललाटे मद्ध्यंआनामिकाङ्गुष्ठैर्वा कर्तव्यं । त्रिपुण्ड्रं सान्द्रवळित्रयं व्यक्तञ्च यथाभवति तथा कर्तव्यं । त्रिपुण्ड्रधारणञ्च भस्मस्रानञ्च त्रिवक्त्रं त्रिहस्तं त्रिपादं त्रिणेत्रं भस्मरूषितं ताण्डवं कुर्वन्तं रौद्रं रक्तपुष्पालङ्कृतं भस्मदेवं ध्यात्वा कर्तव्यं । त्रिपुण्ड्रस्थाने कुलाचारप्राप्तं चतुरश्रार्द्धचन्द्रदीपं त्रिपुण्ड्रान्तरं वा धारणीयं। सर्वञ्च पुण्ड्रं केवलभस्मना चन्दनयुक्तभस्मना जलसिक्तेन कार्यं । ललाटेयदृशं पुण्ड्रं तादृशं ललाटहृदयांसनाभिषु पञ्चसु स्थानेषु शिवमहेश्वररुद्रविष्णुपिता महदैवत्यं शिरोललाटगळांसहृदयनाभिपृष्टसु स्थानेषु ब्रह्मवाणीलक्ष्मीविष्णुशिवसूर्याग्निचन्द्रदैवत्यं ललाटकन्धरांसबाहुकूर्परमणिब्रन्धवक्ष: कुक्षिनाभिपार्श्वद्वयपृष्ठेषुषोडशस्थानेषु शिवमहेश्वरादिपञ्चकवामादिनवकाश्विद्वयदैवत्यं शिरोललाटेत्रकर्णना सावक्त्रगळांसकूर्परमणिवन्धहृदयपार्श्वनाभिहुह्यद्वयस्फिगूरुजानुजङ्घापादरूपेषु द्वात्रिं शत्स्थानेषु अष्टमूर्त्यष्टविद्येश्वराष्टदिक्पालाष्टवसुदैवत्यं करपादाङ्गुळिपङ्क्तिभिस्सहषट्रिं त्रशत्स्थानेषु शिवशक्तिमहेश्वरसदाशिवशुद्धविद्यामायाविद्याकलारागकालनियति पुरुषप्रकृत्यहङ्कारबुद्धिमनश्श्रोत्र त्वचर्क्षिजिह्वघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलपृथिवीभूततत्वदेवताकं देशकालाद्यपेक्षया यथाव संभवं कर्तव्यं ।षट्त्रिं शत्थानपक्षे शिवाद्याकाशान्ततत्वानि वृत्ताकाराणिस्फटिकसूर्यकान्त चन्द्रकान्तगोक्षीर विद्रुमहरिताञ्जनेन्द्रायुधेन्द्रकोपमेघपद्मराग विद्रुमेन्द्रनीलकुङ्कुमजपाकुसुमेन्द्रायुध सूर्यकान्तकनक दूर्वा हरिद्रा करवीर काळमेघनीलमणि मौक्तिक माणिक्कनकस्फटिकवर्णानि कृष्णं चतुरश्रं वायुं वृत्तं त्र्यश्रं वह्निं सितमर्द्धचन्द्राकारं जलं पीतं चतुरश्रं पृथिवीतत्वञ्च विभाव्य हां शिवतत्वरूपाय शिवायनम इत्यादिमन्त्रैस्तत्तत्स्थानेषु पुण्ड्राणि धारयेत् । एवं पक्षान्तरेष्वप्यूहनीयंएव । तत्त त्पूर्वाचारप्राप्तनानादिव्यागमस्मृतिपुराणाद्युक्तस्थानसंख्यादिव्यान्तरदेवतान्तरयुक्तानिवापुण्ड्राणि धारणीयानि । इति भस्मधारणक्रमः।
॥ रुद्राक्षधारणविधिः ॥
अथरुद्राक्षधारणम् । तदपि भस्मधारणवत् शिवपूजायां नित्यं । रुद्राक्षञ्चब्राह्मणादिभिःक्रमेण श्वेतरक्तपीत कृष्णवर्णं ग्राह्यं । उक्तवर्णालाभे ब्रह्मणैश्चतुर्विधमपि धारणीयं । रक्तादिवर्णत्रयं क्षत्रियैः । पीतादिद्वयं वैश्यैः । शूद्रैस्तु कृष्णमेव धार्यं। रार्वंवा सर्वैर्यथालाभं धार्यं । शिरसि कण्ठे कर्णयो र्बार्ह्वोर्मणिबन्धयो रुरसिच स्वशिरः प्रमाणाद्युचितसंख्याविशेषयुक्तं वा । शिरसि चत्वारिंशत् कण्ठे द्वात्रिंशत् कर्णयोः प्रत्येकं षट् बाह्वोःप्रत्येकं षोटश मणिबन्धयोः प्रत्येकं द्वादश वक्षसि अष्टोत्तरशत मित्येवं अष्टचत्वारिंशदधिकशतद्वयसंख्याकंवा । शिखाया मेकमित्येकाधिकंवा । शिखायामेकं मस्तके षट्त्रिंश द्वक्षसि पञ्चाशत् साष्टशतमु पवीतं कण्ठकर्ण बाहुमणिबन्धे पूर्ववदिति पञ्चनवत्युत्तरद्विशतसंख्याकंवा । शिरसि अष्टोत्तरशतसंख्या नाभ्यन्तमालिकात्रयं कण्ठकर्णवक्षो बाहुमणिबन्धे पूर्ववदिति द्व्यशीत्युत्तर पञ्चशरसंख्याकंवा धारणीयं । वज्रमाणिक्यवैडूर्य प्रवाळमौक्तिकरूप पञ्चरत्नसहित रुद्राक्षधारणं ज्वरग्रह पिशाच मेह कुष्ठभगन्धरकुमारग्रहापस्मारनिवारकं मकुटकुण्डलकर्णिकाहारकेयूरकटकोदरबन्धादिषु तद्धारण मपमृत्युविनाशकं आयु रश्रीकीर्तिवर्द्धन मन्यत्र रुद्राक्षधारणात् । शिखायां तद्धारणं कोटिगुणफलं कर्णयो: कण्ठे भुजयो रुत्तरोत्तरदशगुणफलं हस्तयोरपरिमितफलं । एकवक्त्रस्य रुद्राक्षस्य शिखायां सङ्गोप्य धारणं ब्रह्महृत्यादोषशस्त्राग्नि चोरवृष्ट्यादिमहाभहरं आयुश्श्रीकीर्तिवर्द्धनं भुक्तिमुक्तिकरं सर्वसिद्धप्रदञ्च । द्विवक्त्रं गोहत्यादोषहरम् । त्रिवक्त्रं स्त्रीहत्यादोषहरम् । चतुर्वक्त्रमगम्यागमनाभक्ष्यभक्षणदोषहरम् । पञ्चवक्त्रं सर्वपाप हरम् । षड्वक्त्रं दक्षिणकरे धृतं भ्रूणहत्याहरम् । सप्तवक्त्रं सुवर्णस्तेयगोहत्यादोषहरम् । विषहरञ्च। अष्टवक्त्रं गुरुतल्पदोषहरं सर्वकूटव्यवहारदोषहरञ्च। नववक्त्रं वामकरे धृतं च लक्षकोटिमहापातकदोषहरम् । दशवक्त्रं ग्रहपिशाचवेताळब्रह्म राक्षससर्पसिंहव्याघ्रादिभयहरम् ।एकादशवक्त्रं शिखायां धृतं सहस्त्राश्वमेधशत वाजपेयशतसहस्त्रगोदानफलप्रदञ्च । द्वादशवक्त्रं कण्ठदेशेधृतं बहुदक्षिणगोमेधाश्वमेधफलप्रद मैश्वर्याभिवृद्धिकारि दष्ट्रिंश्र्रुङ्गिचोराग्निभयहरं सर्वपापक्षयकरञ्च । त्रयो दशवक्त्र मतुलभोगप्रदं रससाधनधातुवादघुटिकादि सिद्धिकरं पितृमातृभ्रातृस्त्रीवधदोषहरम् । चतुर्दशवक्त्रं सर्वकार्यसिद्धिकरंसकलव्याधिपापहरं ज्ञानयोगसिद्धिकरञ्च। मूर्द्धभुजकणठकर्णव्यातिरेकेणान्येष्वङ्गेषु क्षयवृद्धिसूतकस्त्रीसङ्गतिमलमूत्रोत्सर्जनमत्स्यंआंसलशुनकत कशिग्रुश्लेष्मातकभक्षणादिसमयेषु रुद्राक्षधारणं वर्जयेत् । रुद्राक्षदानकल्पोक्तप्रकारेण तद्दानं सर्व वेदपुराणाद्ध्ययनसर्वयज्ञादानानुष्ठानसर्वतीर्थाभि गमनफलप्रदं सर्वरोगहरं शतलिङगस्थापनशतलिङ्गदानसहस्त्रश्रीमूर्तिदानसहस्त्रकन्या दानफलप्रदं पुत्रमित्रादिसहितसकलैश्वर्यभोगप्रदं शिवसायुज्यपदं प्रतिग्रहीतुरपि शिवभक्तस्य तावत्फलदञ्च । पौर्णमास्यंआवास्यासंक्रान्त्युपरामजन्मनक्षत्रादिदिवस्षु रुद्राक्षधारणं सर्वपापक्षयकरम् । पूजाकाले रुद्राक्षधारण मीशानमन्त्रेण शिरसिकार्यं कर्णयोस्तत्पुरुषमन्त्रेण कणठादिष्वघोरमन्त्रेण वक्षसि व्योमव्यापिमन्त्रेण ॥
सकळीकरणप्रकारः
अथ करन्यासाङ्गन्यासरूपं सकळीकरणम्। तत् त्रिविधम्-गृहस्थानां सृष्टिन्यासरूपं ब्रह्मचारिणां स्थितिन्यासरूपं यतिवानप्रस्थानां संहारन्यासरूपम् । इहसृष्टिन्यासरूपमुच्यते - करौ गन्धादिलेपितौ कृत्वा वामकरतलं तत्पृष्ठंच मणिबन्धात्समारभ्य दक्षिणपाणिना हः अस्त्राय फडिति प्रतिमार्जनं अस्त्रमन्त्रेण द्विःपरिमृज्य तेनैव मन्त्रेण दक्षिणकरतलं तत्पृष्ठञ्च वामकरेणैकवारं प्रमृज्य करावा मणिबन्ध मस्त्रतेजसा व्याप्तौ सञ्चिन्त्य संपुटिकृत्याङ्गुष्ठद्वयंअद्ध्ये अमृतरूपं शक्ति मण्डलं ध्यात्वा तेनामृतेन हांशक्तयेवौषडिति कवचद्वयंआप्लाव्य योजिताङ्गुष्ठद्वयकर्णिकेकरसंपुटकमले ओं हां शिवासनायनमःइति विन्यस्य तन्मद्ध्ये ओं हां हं हां शिवमूर्तयेनम इति तेजोमयीं स्थिरविद्दुन्निभां सितवर्णां शिवस्य सूक्ष्ममूर्तिविन्यस्य हों ईशानमूर्ध्ने नमः इत्यङ्गुष्ठयोस्तर्जनीभ्यां विन्यस्य तर्जन्यादिषु कनिष्ठान्त मङ्गुष्ठाभ्यां हेंतत्पुरुषवक्राय नम इत्यादि चतुरोमन्त्रान्विन्यस्य हांहौं विद्यादेहायनम इत्यङ्गुष्ठाभ्यां करतलयो रष्टत्रिंशत्कलामयं सदाशिवात्मकं स्थूलं विद्यादेहं विन्यस्य नेत्रेभ्योनम इति नेत्रं करतलयोर्विन्यस्यह्रां हौं शिवायनम इति अङ्गुष्ठानामिकाभ्यां मदाशिवदेहव्यापकं शिवमावाहयेत् । ततः कनिष्ठिकादिषु हांहृदयायन इत्यादि नेत्रमन्त्रव्यतिरिक्तान् पञ्चमन्त्रान्क्रमेण विन्यस्य वामदक्षिणकरौ तदितरकराभ्यां कवचायनमः इति अवकुण्ठ्य करद्वयं संयोज्यवौषडन्तमूलेन परमीकुर्यात् । न्यस्तानां हृदयशिरश्शिखादीनां कलानाञ्च भिन्नभिन्नवर्णाना मावाहितपरशिवतेजसाऽति धवळेन तत्त्द्वर्णताप्तिभावनं परमीकरणम् । ततः अङ्गन्यासं कुर्यात् ॥दक्षिणा ङ्गुष्टनामिकाभ्यां हांशिवासनायनम इति देह्मद्ध्ये हृदित्वा मूलाधारात् समुद्भूतं श्वेतं शिवस्यासनपङ्कजं विन्यस्य ओं हां हां हां शिवमूर्तयेनम इति नाभीकन्दादि हृद्-यादिवा भ्रूमध्यपर्यन्तं तेजोमयीं शिवस्य सूक्ष्ममूर्ति विन्यस्य मुष्टिं बध्वाऽङुष्ठेन ईशानमन्त्रं मूर्ध्रि विन्यस्य अङ्गुष्ठयुक्ततर्जन्यादिभिर्वक्त्रे हृदि जुह्ये पादयोश्च तत्पुरुष मन्त्रादीन् क्रमेण विन्यस्य, भ्रुमध्यादिब्रह्मरन्ध्रान्तं हां हौं विद्यादेहायनम इति विद्यादेहं विन्यस्य नेत्रमन्त्रं नेत्रेषु मध्यंआङुळिभिस्तिसृभिर्विन्यस्य तस्मिन्नङ्गुष्ठानामिकाभ्यां हां हौं शिवायन इति परमशिवमावाहयेत् । ततो हृदशिरश्शिखास्थानेषु स्वांगुष्ठयुक्तकनिष्ठिकानामिकाम्ध्यंआभिर्विन्यस्य कण्ठप्रावरणत्वेन स्तनमध्यान्तं कवचतर्जनीभ्यां विन्यस्य हस्ततलयोरस्त्र्मनमिकाङ्गुष्ठाभ्यां त्रिवारं विन्यसेत् ।सर्वेऽप्येते मन्त्रा नमोन्ता: । अस्त्रमन्त्रस्तु हुंफडन्तः । ततोहुंफडन्तास्त्रमन्त्रेण ताळत्रयपुरस्सरंदिग्बन्धनं कृत्वा कवचेनावेष्ट्य वौषडन्तमूलेन महामुद्रां प्रदर्शयेत् । मस्तकादि पादान्तं हस्ताभ्यां संस्पर्शनं महामुद्रा । ततश्शिवसमानरूपता मात्मनश्चिन्तयेत् । इत्थं कृताङ्गन्यासो बद्धपट्टशिरोवेष्टनमस्तकत्राण कङ्कटककरगृहीतास्राभीषणो भट इव क्षुदाणामप्रधृष्योभवतीति सकळीकरणम् । अथ सामान्यार्घ्यपात्र मस्त्रमन्त्रेण प्रक्षाळ्य बिन्दुस्थानस्त्रनस्त्रवदमृततया भाविते शुद्धजलेन हां हृदयायवौषडिति आपूर्य हां हृदयायनम इति सप्तवारमभिमन्त्र कवचेनावकुण्ठ्य जन्धपुष्पादिभिरभ्यर्च्य धेनुमुद्रां प्रदर्शयेत् । इदं सामान्यार्घ्यजलं शिवमपहाय अन्येषां द्वारपालादीनां साधारणम् ॥
॥द्वारपालार्चनम् ॥
अथ द्वारपालार्चनम् ।तस्यायं क्रमः- अस्रपञ्जरमध्यस्थं आत्मानं भावयन् पृथिव्यादिमायान्तमेकत्रिंशत्तत्ववर्गं मनसाऽतिलड्घ्य शिवपूजामन्दिरं वृत्तकारं रक्तवर्णशुद्धविद्यातत्वात्मकं भावयन् भोगमोक्षकामः पूर्वद्वारे द्वारपालानर्चयेत् । कीर्तिविजयसौभाग्यकामः दक्षिणद्वारे। केवलं मोक्षकामः पश्चिमद्वारे । उदग्द्वारेतु पूजा न कर्तव्या । सामान्यार्ध्योदकेन द्वारमस्त्रमन्त्रेण संप्रोक्ष्य बहिर्द्वारपालानर्चयेत् । तेच गणपत्यादयः । तत्र द्वारस्योर्द्ध्वोदुम्बरमुखे दक्षिणवमभागयोर्मध्येच गणपतिसर-स्वतीमहालक्ष्म्यः उपविष्टाः। वामदक्षिणव्यवस्था च देवमपेक्ष्य द्वारे प्रविशन्तं पूज-कमपेक्ष्य वग्राह्या । द्वारस्य बहिःप्रदेशे दक्षिणपार्श्वे नन्दी दक्षिणपार्श्व एव नन्दिन उत्तरभागे गङ्गा वामपार्श्वे महाकाळः वामपार्श्व एव तस्य दक्षिणभागे यंउनाचस्थिताः । हां गणपतयेनमः । श्यामवर्णं ततोक्षसूत्रपाशाङ्कुशान् पुष्करेण बीजापूरञ्च धारयन्तं गणपतिं पूजयामि । हांसरस्वत्यैनमः । स्वेतवर्णा मक्षमालापुस्तकधरां वीणावादनव्यापृतकरद्वयां सरस्वतीं पूजयामि । हां महालक्ष्यै नमः । श्रीफल कमलाभयवरधारिणीं उभयपार्श्वस्थितगजयुगळहस्तोद्धृत हेमकुम्भामृत धाराभिषिच्यामानां महालक्ष्मीं पूजयामि । हां नन्दिनेनमः । अरुणजटामकुटधरं त्रिशूलाक्षमालातर्जनीमुद्गरधारुणं स्थूलदेहं नन्दिनं पूजयामि । हां गङ्गयैनमः । धवळवर्णां मकरवाहना ममृतकलशचामरधारिणींगङ्गांपूजयामि । हां महाकाळायनमः । कष्णवर्णं दंष्ट्राकराळभ्रुकुटीभीषणस्थूलदेहं शूलकपालमुद्गरतर्जनीमुद्राधारिणं महकाळं पूजयामि । हां यंउनायैनमः । श्यामवर्णां कूर्मवाहनां चामरामृतकलशधारिणीं युमु-नांपूजयामि । तत्तत्स्थानेषु पुजयेत् । सर्वएते द्वारपालाः गङ्गायंउनेविना त्रिणेत्राः सर्वेचैते द्वारसमानमुखाः । श्लोकैः कवाटोद्धाटनप्रार्थनापूर्वक मस्रमन्त्रेण कवाटमुद्धाट्य हौंशिवायनम इति नेत्रयोर्विन्यस्य ।दिविस्थितान्विघ्नान् दिव्यध्यानदृष्टि सन्त्रस्तान् । कृत्वा । नभोगतान् विघ्नान् तर्जन्यङुष्ठोत्क्षिप्तपुष्पसन्त्रस्तान्कृत्वा ।भूमिगतान् विघ्नान् दक्षिणपार्ष्णिघातत्रयत्रस्तान् कृत्वा । अस्त्रायहुंफडिति मन्त्रेण त्रिविधान् विघ्नानुत्सारयेत् । अथद्वारस्य देहळीशाखां वामांश्रितो दक्षिणां देहळीमस्पृशन् दक्षिणपादेन शिवमन्दिरं प्रविश्य। हां अस्त्रायनमः ।अग्निवर्णं चतुर्वक्त्रं शक्तिश्लाभयवरान्वितकरचतुष्टयं जटामकुटालङ्कृत मर्धेन्दुशेखरं सकलविघ्ननिवारकं अस्रं पूजयामीति देहळीमध्ये शिवमन्दिराभिमुखतया स्थितं अस्रराजं प्रीत्या परावृत्य तदभिमुखः पूजयेत् । राजा ब्रह्माणं परावृत्य तदभिमुखः पूजयेत् । ततः हां ब्राह्मणेनमः । कनकवर्णं सश्मश्रुचतुराननं तुन्दिलं दण्डक्षवलयस्त्रक्कमण्डलुधारिणं वास्त्वधिपतिं ब्रह्माणं पूजयामीति । ब्रह्मणमपि देहळीमध्य एव पूजयेत् । ततो द्वारस्याभ्यन्तरे दक्षिणपार्श्वे हां नन्दिकेश्वराय नमः । रक्तवर्णं त्रिणेत्रं चन्द्रकलालङ्कृतजटामकुटं मृगपरशुनमस्कारमुद्रान्वितकरचतुष्टयं बाहुमूले वेत्रं क्ट्यां क्षुरिकांच धारयन्तं भस्मरुद्राक्षधारिणं वानरास्यं नन्दिकेश्वरं पूजयामीति द्वारस्याभ्यन्तरदक्षिणे पार्श्वे पूजयेत् हां सुं सुयशायै नमः । श्यामवर्णा मुत्पलालङ्कृत दक्षिणकरां सुयशादेवीं पूजयामीति द्वारस्याभ्यन्तरे सुयशादेवीं पूजयेत् । ततश्शिवं प्रदक्षिणीकृत्य निर् त्रृतिकोणे ब्रह्माणं पूजयेत् । पूजाचैतेषां आसनदानवाहन स्थापन सन्निधान पाद्याचमनार्घ्य गन्धपुष्पधूपदीपदानान्तं नैवेद्यताम्बूलदानान्तंवा प्रत्येकं कर्तव्या । अशक्तौ मध्यएव सर्वेभ्यो द्वारपालेभ्योनम इति गन्ध्पुष्पादिभिः पूजयेत् । द्वारपा देवदेवस्य द्वारं रक्ष्त यत्नतः । निर्वाय विघ्नसङ्घात मित्याज्ञा पारमेश्वरीति शिवाज्ञां श्रावयेत् । इदञ्च द्वारपालर्चनं आत्मर्थपूजायामागमभेदेन विहितप्रतिषिद्धत्वात् तद्विकल्पकमिति नवैकल्यं । तदकरणे नप्रत्यवायःकरणे अभ्युदयः षोडशिग्रहन्यायेन ॥
अथ पूजोपकरणं सर्वं शिवाग्रे सन्निधाप्य देवस्य दक्षिणभागे आग्रेयभागेवा उत्तराभिमुखः स्थित्वा रुचिरं स्वस्तिकं वाऽभ्यस्तमासनमास्थाय पञ्चानामात्मस्थानद्रव्यंअन्त्रलिङ्गशुद्द्धीनां मद्ध्ये प्रथम मात्मशुद्धिं कुर्यात् । अयंऊर्द्ध्वोदुंवरादिषु गणपत्यादिपूजाकारो यथोक्तलक्ष्णशिवमन्दिरसद्भावे आत्मशुद्धेः पूर्वं कर्तव्यः । तद्ध्येवं विहितम् । गृहस्येशानदिग्भागे शिलामयं पक्केष्टकामयं शुद्धदारुमयं मृन्मयं वा चतुरश्र मायतं वृत्तं पूजागृहं वा यजमानमध्याङुळिपर्वतृतीयपर्वान्ताराळमध्यपर्व दैवत्यरूप उत्तममध्यंआधमभेदभिन्नाङ्गुळिचतुर्विंशत्याख्यहस्तमानेन त्रिपञ्चसप्तनव त्रयोदशसप्तदशविंशत्येकविंशतिद्वात्रिंशद्धस्तान्यतमप्रमाणमेकं द्विभूमं त्रिभूमं वा पूजागारं निर्माय तत्पञ्चधा विभज्य तन्मद्ध्यभागे शिलासुधे वर्जयित्वा मृन्मयीमिष्टकाचितां वा चतुष्कोणस्तंभयुक्तां स्तंभरहितां वा षोडशाङ्गुळोत्सेधां अष्टादशाङ्गुळोत्सेधांवा वेदिकां विरचय्य तदुपरि पश्चिमभागे एकतालविस्तारायामं पञ्चाङ्गुळोत्सेधं गर्भगृहस्थानीयदेशं तस्य पूर्वभागेताद्दशायामविस्तारोत्सेध मर्द्धमण्टपस्थानीयदेशं च कृत्वा तस्य पूर्वभागे पञ्चतालायामं चतुस्तालविस्तार मष्टाङ्गुळोत्सेधं बेरमण्टपस्था नीयदेशं च कल्पयेत् । तत्र गर्भगृहस्थानीयदेशे सौवर्णं राजतं ताम्रं दारुमयं वा चतुरश्रमायतं वृत्तंवा पेटकं स्थापयेत् । वेरमण्टपस्थानीयदेशे द्विहस्तायत मेकहस्तविस्तृतंवा द्वादशाङ्गुळोच्छ्रायं वा कमलभूषितपेटकं विन्यस्य तदुपरि नमनीं तन्मानां प्रसार्य तन्मध्ये जीवगजदन्तादिनिर्मितं पीठं विन्यस्य तदुपरि सुवर्णादि रचितं पद्मपीठं पश्चिमभागरचितप्रभामण्डलसहितं पूर्वाभिमुखं स्थापयेत् । पूजा मण्टपञ्च प्रकीर्णकुसुमधूमामोदचन्दन चर्चावितान मुक्तादामध्वजपताकादर्पण प्रदीपादिभि रलङ्कुर्वितेति । एवंविधपूजामण्टपाभावे शिवपूजास्थानमेव ताद्दश्ं पूजा मण्टपं मनसि भावयेत् । शिवपीठसमीपोपविष्टः तत्रैव द्वारपालार्चनमात्मशुद्धेः पूर्वं पश्चाद्वा कुर्यात् ॥ इति द्वारपालर्चनम् ॥
॥ आत्मशुद्धिप्रकारः ॥
अथ आत्मशुद्धिः । सा द्विविधा । पूजकजीवस्य शिवभावापादनात्मिका जीवशुद्धिरूपा पूजकदेहस्य शिवदेहत्वापादनात्मिक देहशुद्धिरूपाच । तत्रायं जीवशुद्धि प्रकारः । त्रिः प्राणानायंय देहान्तर्गतमशुद्धवायं रेचकत्रिप्राणायामेनास्त्रमन्त्रेणोत्सार्य बाह्यवायुनोदरं प्रपूर्य पादाङ्गुष्टद्वयादारभ्य यावन्मूलाधारं द्विधाभूतां तत ऊर्ध्व माब्रह्मरंध्र मेकीभूता मदोमुखैः पद्ममुकुळैः युक्तं शरीरन्तराळेतिसूक्ष्मां विद्युल्लेखामिव भास्वरा मन्तस्सुषिरयुक्तं सुषुम्नानाडीं संचिन्त्य तन्मध्ये हूमिति शिखाबीजं ज्वलन्तं संचिन्त्य हृत्कण्ठतालुभ्रुमध्य-ब्रह्मरन्ध्रेष्वधोमुखतया स्थितानि पद्ममुकुळानि पूरककुंभकरेचकैर्विकसितोत्तंभितोर्द्ध्वमुखीकृतानि भावयित्वा मूला-धारप्रदेशे दीपशिखावत् ज्वलन्तं हूङ्कारं हुंफडिति सन्ततोच्चरणेन ऊर्द्ध्व मुद्गच्छन्तं ध्यायन् तेन पञ्चापि ब्राह्मादिग्रन्धीन्पद्मनाळग्रन्धीन् भिन्नान् भावयित्वा हुंकारं प्रतिनिवृत्य वायुं विरेचयेत् । पुनरपि हूङ्कारं मूलाधारे ध्यायन् पूरकवायुनोपसंहृतसर्व शरीरव्यापकचैतन्यं हृत्पङ्कजाश्रीतं पुर्यष्टकरूपसूक्स्मदेहान्वितं जीवं पुर्यष्टकादादाय स्फुरत्तारकाकारमतिसूक्ष्ममेकाकिनं हामिति हृदयबीजसंपुटितं कृत्वा हूङ्कारं मूर्ध्रिनिवेश्य कुंभकं कृत्वा वायुमूर्द्ध्वं प्रवर्तयन् संहारमुद्रया तमादाय द्वादशान्तपर्यन्तं नीत्वा तदुपरि स्थितेपरमशिवे योजयेत् । एवंच जीवः स्थूलसूक्ष्माशुद्धदेहोपाधिनिर्मुक्तः शिवसायुज्यप्राप्तनिर्मलज्ञानक्रियाशक्तियुक्तः शुद्धोभवति । यद्वा जीवं द्वादशान्तपर्यन्तं नीत्वा हृयकमलएव शक्तिमण्डलसम्पुटितं कृत्वा भूतशुद्धिसमय कर्तव्यदेहदाहतो रक्षेत् ।तत्रायं क्रमः हृत्कमलकर्णिकोपरि हां सूर्यंअण्डलायनमः । हां सोममण्डलायनमः। हां अग्निमण्डलायनमः । हां शक्तिमण्डलायनम इति विन्यस्य हां हं हां आत्मनेनमः इति देहव्यापकं जीवात्मानमादयोपसंहृतव्यापकरूपं स्फुरत्तारकाकारं सञ्चिन्त्य तं शक्तिमण्डलस्योपरि विन्यस्य तस्योपरिच शक्तिवह्निसोमसूर्यंअण्डलानि क्रमेण विन्यस्य ऊर्ध्वाधस्थितशक्तिमण्डलद्वयविनिस्सृतामृतपरिप्लुतं भावयेत् । एवं जीवस्य रक्षामात्रं कर्तव्यं । तस्य दीक्षाकाल एव शुद्धत्वात् प्रतिदिवसं पूजासमये शुद्धिर्नापेक्षितेति ॥
॥ देहशुद्धिप्रकारः ॥
अथ देहशुद्धिः । साद्विविधा सूक्ष्मदेहशुद्धिः स्थूलदेहशुद्धिश्च। तत्र शब्द स्पर्शरूपरसगन्धबुद्ध्यहङ्कारमनोरूपपुर्यष्टकात्मकसूक्षरीरशुद्ध्यर्थं हृत्कण्ठतालुभ्रूमद्ध्यब्रह्मरन्ध्रस्थितेषु ब्रह्मादिषु कारणपुरुषेषु ब्रह्मणि शब्दस्पर्शौ प्रविलापयामि ।रसंविष्णौ प्रविलापयामि । रूमगन्धौ रुद्रे पविलापयामीति सूक्ष्मशरीरांशान् शब्दादीन् प्रविलापयेत् । ततः स्थूलशरीरशुद्ध्यर्थं स्वशरीरे पादादि द्वादशान्तस्थानेषु स्थितानि वश्यंआनस्थानाकृतिरूपादियुक्तानि पञ्चमहाभूतानि ध्यात्वा पृथिवीमप्सु प्रविलापयामि । अपोऽग्नौ प्रविलापयामि । अग्निं वायौप्रविलापयामि । वायुमाकाशे प्रविलापयामि । आकाशं पराशक्तौ प्रविलापयामि । पराशक्तिं परशिवे प्रलापयामीतिभावयेत् । इयं स्वकारणेषु पृथिव्यादिप्रविलापनरूपा भूतशुद्धिः । अन्यातत्तत्गुणक्षपणरूपा गुणक्षपणरूपाच द्विविधा । प्रत्येकशोधनरूपा परस्परशोधनरूपाच । तत्राद्यायथापादाद्यारभ्य जानुपर्यन्तं चतुरश्रं पीतवर्णं कठिनस्वभावं वज्रलाञ्छितं ह्लामिति हृदयबीजेन पार्थिवबीजसहितेन युक्तं ब्रह्मणा कारणेश्वरेणा धिष्ठितं निवृत्तिकलारूपं पार्थिवमण्डलं भावयामीति विधिन्त्य ह्लां निवृत्तिकलायैहुंफडिति मन्त्रेण पञ्चभिरुद्धातैः पृथिव्या गन्धरसरूपस्पर्शशब्दगुणानुत्सारयेत् । ततोजान्वादिनाभिपर्यन्त मर्धचन्द्राकारं श्वेतवर्णं द्रवस्वभावं पद्मलञ्छितं हीमिति शिरोबीजेनाप्यबीजसहितेन युक्तं कारणेश्वरेण विष्णुनाऽधिष्ठितं प्रतिष्ठाकलारूप माप्यंअण्डलं भावयामीति विचिन्त्य ह्रीं प्रतिष्ठाकलायै हुंफडिति मन्त्रेण चतुर्भिरुद्धतै रपां रसरूपस्पर्शश्ब्दगुणानुत्सारयेत् । ततो नाभ्यादिकण्ठपर्यन्तन्त्र्यश्रं रक्तवर्णं पचनस्वभावं स्वस्तिकलाञ्छितं हूमिति शिखामन्त्रेणाग्निबीजसहितेन युक्तं रुद्रेण कारुणेश्वरेणाधिष्ठितं विद्याकलारूपमग्निमण्डलं भावयामिति विचिन्त्य हूं विद्याकलायै हुंफडिति मन्त्रेण त्रिभिरुद्धातै रग्निगतान् रूपस्पर्शशब्दगुणानुत्सायेत्। ततः कणठदि भ्रूमध्यपर्यन्तं षडश्रं कृण्णवर्णं चलनस्वभावं षडिबन्दिलञ्छितं हैमितिकवचमन्त्रेण वायुबीजसहितेन युक्तं महेश्वरेण कारणेश्वरेणाधिष्ठितं शान्तिकलारूपं वायुमण्डलं भावयामीति विचिन्त्य ह्यौं शान्तिकलाय हुंफडिति मन्त्रेण द्वाभ्यामद्धताभ्यां वायोः स्पर्शशब्दगुणावुत्सारयेत् । ततो भ्रूमध्यादिद्वादशान्तपर्यन्तं वृत्ताकारं धूम्रवर्णं आकाशस्वभावं बिन्दुशक्तिञ्छितं हः इति अस्रमन्त्रेण संयुक्तं सदाशिवेन कारणेश्वरेणाधिष्ठित माकाशमण्डलं भावयामिति विचिन्त्य हौं शान्त्यतीतकलायै हुंफडिति मन्त्रेण एकोद्बातेन आकाशस्य शब्दगुणमुत्सारतेत् । एतानि पृथिव्यादिमण्डलानि हॄत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रगतानि विभाव्यशोधयेत् । इति प्रत्येकशोधनप्रकारः ॥ परस्परशोधनेत्वयं विशेषः - सर्वाणि पृथिव्यादिमण्डलानितत्तत्शोधनसमये पादादिमूर्धान्तव्यापकानि भावयेत् । पृथिवीशोधने तद्गुणपञ्चकोत्सारणानन्तरं पृथिवींस्वविरुद्धवाय्वभिभूतावाय्वाकारापन्नां वायुशोधनसमये वायुं स्वविरुद्धपृथिव्यभिभूतं पॄथिव्याकारापन्नञ्च भावयेत् । एवं जलानलावपि तत्तद्गुणोत्सारणानन्तरंस्वविरुद्धानलजलाभिभूतावनलजलाकारा-पन्नौ भावयेत् । आकाशगुणोत्सारणानन्तर माकाशं नित्यत्वव्यापकत्वशुद्धत्वादितद्धिरुद्ध-गुणयुक्तपरशक्त्यात्मकपरमाकाशाभिभूतं तदाकारापन्नं शुद्धस्फटिकनिर्मलं भावयेदिति । इत्थं महाभूतानां प्रत्येकशोधनेन परस्परशोधनेनवा गुणक्ष्यात् क्षीणशक्तिकस्य भूतसमुदायात्मकस्य शरीरस्य शोषं विभाव्य पादाङ्गुष्ठोत्थितेन शिवशक्त्यधिष्ठितेन कालाग्निना हः अस्त्राय हंफडिति मन्त्रेण शरीरं दग्धं निरवशेषं निवृत्यादि कलामात्रशेषं शरीरगतदोषमात्रं वा दग्धं भावयित्वा द्वादशान्तस्थित शक्तिमण्डल रव्रवदमृतवर्पेणाप्लावयेत् । एवं शरीरशोषार्थमुक्तशक्तिप्रकारं शरीरारम्भकभूतगणोत्सारणं कृत्वा वा स्थूलशरीरं पृथिव्यादिपञ्चभूतबीजं मायाक्षेत्रविनिक्षिप्तं धर्माधर्ममूल मिन्द्रियशाखोपशाखं शब्दादिविषयालोचनपल्लवं भावप्रपञ्चकुसुमं सुखदुःखफलं पुरषविहगोपभोग्य मूर्द्ध्वमूलमधश्शाखं वटवृक्षं विभाव्य प्राणायामं कुर्वन् षण्मात्रेण पूरकपूर्वार्धेन ह्लामित्युच्चरपञ्चकयुक्तेन पत्रपुष्पफलरहितं स्तब्धं विचिन्त्य पूरकापरार्धेन ह्वीमित्युच्चारचतुष्टययुक्तेन स्निघ्धपत्रपुष्पफलोपेतं विभाव्य एकस्मिन्नेवोद्धातेन द्वादशमात्रेण कुम्भकेन ह्रूमित्युच्चारत्रययुक्तेन सव्यपादाङ्गुष्ठोत्थितेन कालाग्निना शुष्कं दग्धं विभाव्य रेचकपूर्वार्धेन ह्येमित्युच्चारद्वययुक्तेन भस्मीभूय दिक्षुविप्रकीर्णं विभाव्य रेचकापरार्धेन हौ मित्येकोच्चारयुक्तेन स्फटिकनिर्मलं शद्धव्योमरूपं चिन्तयित्वाऽमृतेनाप्लावयेत् । एवं देहदाहं कृत्वा यथोक्तसंख्यैरुद्धातै स्तत्तद्गुणोत्सारणपर्यं तामेववा गुणोत्सारणादिभावनांविना पृथिव्यादिकं बन्धकत्वान्निवृत्तं भवतीत्यनुसंधानपूर्वकं तत्तत्स्थानेषु वायुमनोधारणापर्यन्तमेववा भूतशुद्धिं कुर्यात्। उद्धातशब्देन उद्धन्यते उत्सार्यते अनेनेति व्युत्पत्त्या भूतगुणानां तदशुद्धेर्वा उत्सारणसाधनमुच्यते । तत्तत्कलामन्त्रोच्चारणपूर्वकं पूरकं कृत्वा सुषुम्नाया याव्द्वादशान्तं प्राणवायोरूर्द्ध्वप्रवर्तनरूपं कर्म। तच्च पूरकं कृत्वा कुंभककाले प्राणवायोरूर्द्ध्वं प्रेरणं कृत्वा तंप्रतिनिवर्त्य दक्षिणनाड्या तद्रेचकपर्यन्तम् । एवंच एकैकस्मिन्नुद्धाते पूरकाद्यास्त्रयस्रयः प्राणायामा इति पृथिव्यां पञ्चाना मुद्धातानां पञ्चदशप्राणायामास्संपद्यन्ते जलदिषु द्वादश नव षट् त्रयश्च भवन्ति। एकैकस्मिंश्च रेचकादिरूपे प्राणायामे द्वादशमात्राकालः । ततश्चैकैक उद्धातः षट् त्रिंशन्मात्राकालो भवति । यद्वा-धारणार्थे कुम्भकप्राणायाम एव द्वादशमात्राकालनियंअः । पूरकरेचकयोर्यथा-संभवं कालो ग्राह्यः । जानुमण्डल मद्गुत मविळंबित मेकवारं प्रदक्षिणीकृत्य अङ्गुळिस्फोटनकालो मात्राकालः । त्रिः प्रदक्षिणीकृत्य अङुळिस्फोरनकाल इति तु सिद्धान्तशेखरादिषूक्तम् ।अयञ्च कनिष्ठो मात्राकालः । द्विगुणो मद्ध्यंअः । त्रिगुण उत्तमः इत्थं कालविशे षावच्छिन्नप्राण्वायुप्रवर्तनात्मक मुद्धातमनपेक्ष्य तत्तद्गुणसमसड्ख्यकलामन्त्रोच्चारणेन तत्तद्गुणोत्सारणानुसन्धानरूपां वा एकवारं तत्तत्कला-मन्त्रोच्चारणेन तत्तत्कलातत्वभुवनवर्णपदमन्त्रयुक्तानां पार्थिवमण्डलादीनां स्वात्मानं प्रति प्रतिबन्धकत्वनिरुत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपां वा भूतशुद्धिं कुर्यात् ।
पार्थिवादिमण्डलानिच निरुत्तिप्रतिष्ठाविद्याशान्ति शान्त्यतीताकलामयानि शरीरेपादादि जान्वादि नाभ्यादि कण्ठादि भ्रूमध्यादिच स्थितानि । हृत्कण्ठतालुभ्रूमध्य-ब्रह्मरन्ध्रश्रितानिवा शतकोटियोजन परिमाणमारभ्य उत्तरोत्तरदशगुणपरिमाणानि चतुरश्रर्धचन्द्र त्रिकोण षडश्र वृत्तरूपाणि वज्रपद्मद्वय स्वस्तिक षडिंवद्वेकबिन्दुलाञ्छितानि पीतरक्तश्वेतकृष्णधूम्रवर्णानि कठिनद्रवोष्णचलनावकाशस्वभावानि गन्धादिपञ्चचतुस्त्रिद्व्येकगुणानि ब्रह्मविष्णुरुद्रमहेश्वरसदाशिवाधिष्ठितानि बिन्दुयुक्त लकारवकाररेफयकारहकाररूपैः पार्थिवादिबीजैर्युक्तानि भावनीयानि । तत्र निरुत्तिकलायां पृथिवीतत्वमेकं अष्टोत्तरशतं भुवनानि ककार एकोवर्णः अष्टाविंशतिपदान्ति सद्योजातहृदयाख्यौ द्वौ मन्त्रौ।प्रतिष्ठाकलायां जलादिप्रकृत्यन्तानि त्रयोविंशतितत्वानि षट्पञ्चाशद्भौवनानि खादिमान्ताश्चतुर्विंशतिवर्णाः द्वात्रिंशत्पदानि वामदेवशिरस्समाख्यौ द्वौ मन्त्रो ।विद्याकलायां पुरुषादिमायान्तानि स्प्ततत्वानि शप्तविंशतिभुवनानि यादिसान्तास्सप्तवर्णाः एकविंशतिपदानि अघोरशिखाख्यौ द्वो मन्त्रो। शान्तिकलायां शुद्धविद्या महेश्वरश्चेति द्वे तत्वे अष्टाद्शभुवनानि हक्षौ वर्णां द्वादश-पदानि पुरुषकवचाख्यौ द्वौ मन्त्रो। शान्त्यतीतकलायां सदाशिवशक्ती द्वे तत्वे पञ्चदश भुवनानि स्वराष्षोडश वर्णाः एकं पदं मूलेशानास्राख्यास्रयोमन्त्राः। एवमेका-दशमन्त्रात्मको मन्त्राध्वा। व्योमव्यापी मन्त्रगतचतुर्नवतिपदात्मकः पदाध्वा । पञ्चाशद्वर्णा त्मकः वर्णाध्वा । निवृत्त्यादिपञ्चकलात्मकः कलाध्वा । एवं सकलाध्वग-र्भाणि पृथिव्यादिमण्डलानि विभावनीयानि । यद्वा-संक्षेपेण सर्वाध्वगर्भत्वं विभावनीयं । तद्यथा-सद्यादिपञ्चमन्त्रात्मको मन्त्राध्वा । जाग्रत्स्वप्नसुषुप्तितुर्यतु-र्यातीतरूप पञ्चावस्थात्मकः पदाध्वा। पादादि हॄदयादिवा पार्थिवमण्डलादिस्थान-पञ्चकरूपो भुवनाध्वा। अकारादिवर्णत्रयबिन्दुनादात्मको मूलमन्त्रपञ्चवर्णात्मको वा वर्णाध्वा । पञ्चकलात्मकः कलाध्वेति । एवं वासर्वाध्वगर्भाणि विभाव्य प्रागुक्तप्रकारेण संस्थानवर्णस्वभावलाञ्छनबीजमात्रयुक्तानि वा विभाव्या शोधनीयानि । एवं पृथिव्यादिप्रविलापनरूपा तत्तद्गुणक्षेपणेन देहदाहरूपा देहगतबाह्याभ्यन्तरदोषमात्र दहनरूपा गुणक्षपणं विना केवलदेहदाहरूपा दाहं विना केवलतत्तद्गुणक्षपणरूपा बन्धकत्वनिवॄत्त्यनुसन्धानात्मकपाशच्छेदमात्ररूपा च भूतशुद्धिः । सर्वाऽप्येषा सोद्धातानिरुद्धाता चेति द्विविधा। तत्तद्गुणक्षपणं च प्रत्येकशोधनरूपं परस्पर शोधनादिमन्त्रेण चेति द्विविधम् ।
सर्वाध्वगर्भत्वेनसंस्थानं च द्विविधं भूतचिन्तनमपि सर्वाध्वगर्भत्वेन संस्थानादिमात्रेणचेतिद्विविधं सर्वाध्वगर्भत्वचिंतनञ्च प्रपञ्चेनसंक्षेपेणचेति द्विविधं एवमुक्तप्रकारासुभूतशुद्धिषुपूर्वाचारदेशकालाद्यनुसारेणया-काचिद्भूतशुद्धिरनुष्ठेया। एवं भूतशुद्ध्यात्मिकादेहशुद्धिरुक्ता । तत्वशुद्ध्यात्मिकां देहशुद्धिंकुर्यात्॥
यथा- प्रकृत्यहङ्कारबुद्धिमनश्श्रोत्रत्वकक्षुर्जिह्वाघ्राणवाक्पाणिपादपा-यूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूमितत्वभूत मरूप मशुद्ध मात्मतत्वं स्थूलदेहं मायाकलाविद्यारागकालनियतिपुषतत्वरूपं शुद्धाशुद्धं विद्यातत्वं सूक्ष्मदेहं शिव-शक्तीश्वरसदाशिवशुद्धविद्यातत्वरूपं शुद्धं शिवतत्वं परदेहञ्च विभाव्य स्थूलदेहं सूक्ष्मदेहे तत्परदेहेच प्रविलापयेत् । उक्तप्रकारणामन्यतमशोधनानुष्ठानानन्तरं हौं शान्त्यतीतकलायैनम इत्यादिभिर्मन्त्रैस्सूक्ष्मपञ्चकलामयस्य शुद्धसूक्ष्मशरीरस्य सृष्टिं पञ्चभिः कलामन्त्रैरेव स्थूलपञ्चकलामयस्य स्थूलदेहस्य सॄष्टिंच तत्तध्वंसनपक्षेविभाव्य हां शक्तये वौषडिति शक्तिमण्डलस्त्रुतामृतधारयाऽऽप्लावयेत् । ततोहृत्कमलकर्णिकायां हामाधारशक्तयेनमः । हां धर्मासनायनमः । हां ज्ञानायनमः । हां वैराग्यायनमः । हामैश्वर्याय नमः । हां पद्मायनम इति मध्याग्नेयादिकोण चतुष्टय-मध्येषु षडुत्थासनं विन्यस्य तत्र पुनस्स्थूलसूक्ष्मदेहात्मिकामविभक्त-करचरणादिरूपां मूर्ति हां हं हां आत्मूर्तये नम इति विन्यस्य हौं विद्यादेहायनम इति अष्टत्रिंशत्कलारूपं सदाशिवरूपं ध्यात्वा शिवायनम इति द्वादशान्तस्थ परमशिवसायुज्यं निर्मलज्ञानक्रियाशक्तिकं यजमानमूर्तिरूपं जीवात्मानं तत्रावाह्य हृदयादिस्थानेषु हृदयादि मन्त्रान्विन्यस्य मूलेन परमीकृत्य वौषडन्तशक्तिमन्त्रेण द्वादशान्तस्थितशक्तिमण्डल स्त्रुतबहुळमृतधारयाऽभिषिञ्चेत् । ततो दण्डमुण्डकलाश्रीकण्ठादिन्यासान्कुर्यात् ।
तत्रायं क्रमः - शिवासनमव्यक्तां शिवमूर्तिञ्च हृदये विन्यसेत् । होमीशान्मूर्धेनम इतिसमुष्टिकाङ्गुष्ठाग्रेण मूर्ध्नि । हें तत्पुरुषवक्त्राय नम इत्यङुष्ठतर्जनीभ्यां मुखे । हुमघोरहृदयायनम इति अङ्गुष्ठमध्यंआभ्यां हृदये । हिं वामदेवगुह्याय नम् इत्यङ्गुष्ठानामिकाभ्यां गुह्ये । हं सद्योजातमूर्तयेनम इत्यङ्गुष्ठकनिष्ठिकाभ्यां पादे । हो मीशानायोर्द्ध्ववक्त्रायनमः । हें तत्पुरुषाय पूर्ववक्त्रायनमः । हुं अघोराय दक्षिण वक्त्रायनमः ।हिं वामदेवाय उत्तरवक्त्रायनमः हं सद्योजाताय पश्चिमवक्त्रायनम इत्यूर्ध्व पूर्वदक्षिणोत्तरपश्चिमस्थानेषु पूर्वोक्तप्रकारेण तत्तदङ्गुळिभिर्विन्यसेत् । एवं दण्डवक्त्रभगिन्यासानन्तरं सशक्तिकाः कलाशक्तिरहितावा वक्ष्यंआणस्थानेषुदीक्षित -ब्राह्मणः न्यासं कुर्यात्। क्षत्रियवैश्यौ युगान्तरे न्यासं कुर्याताम् । तदितरेशक्तीरे वन्यसेयुः । यथा -हें शशिन्यैनमः । हों अङ्गुदायैनमः । होमिष्टदायैनमः । हों मरीच्यै नमः । हों ज्वालिन्यै नमः । इत्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिममूर्धसु समुष्टिकाङ्गुष्ठमुद्रया न्यसेत् ।हें शान्त्यैनमः । हें विद्यायैनमः । हें प्रतिष्ठायैनमः । हें निवृत्यै नमः । इति पूर्वदक्षिणोत्तरपश्चिमवक्त्रेषु अङ्घुष्ठरर्जनीभ्यां न्यसेत् । हुं तमायैनमः हुं मोहायैनमः हुं क्षुधायैनमः हुं निद्रायैनमः हुं मृत्यवे नमः । हुं मायायै नमः । हुं भयायैनमः हुं तारायै नमः । इत्यङ्गुष्ठमध्यंआभ्यां हृदय-कण्ठांसद्वयनाभिजठरपृष्ठवक्ष्स्सु न्यसेत् । हिं रजायैनमः हिं रक्षायै नमः हिंरत्यै ः नमः । हिं पाल्यै नमः हिं कामायै नमः । हिं संयंआयै नमः हिं क्रियायै नमः । हिं बुद्ध्यैनमः । हिं कार्यैनमः । हिं धात्र्यै नमः हिं ब्राह्मण्यैनमः । हिं मोहिन्यै नमः । हिं मनोन्मन्यै नमः । इत्यङ्गुष्ठानामिकाभ्यां मूलाधारगुगुह्यवृषणोरुद्वयजङ्घाद्वयस्फिग्द्वयकटिदक्षिणपार्श्वेषु विन्यसेत् । हंसिद्ध्यै नमः । हं त्रृद्ध्यैनमः । हं दूत्यै नमः । हं लक्ष्म्यै नमः हं मेघायै नमः । हं कान्त्यै नमः । हं स्वधायै नमः । हंधृत्यैनमः । इत्यङ्गुष्ठकनिष्ठिकाभ्यां पादद्वयकरद्वयघ्राणशिरोबाहुद्वयेषु न्यसेत् । नमस्स्वाहादि जातिषट्कयुक्तमङ्गन्यासं च कुर्यात् । यस्यावसरोऽस्ति मतिक्षोभश्च नभवति स श्रीकण्ठादिन्यासषडध्वन्यासादिकमपि कुर्यात् । एवं जीवशुद्धि देहशुद्धिपूर्वकन्यस्त- मन्त्रतनुस्वरूपेण विग्रहेण च शिवरूपतां प्राप्तश्शिवार्चनयोग्यो भवति । नाशिव-श्शिवमर्चयेदित्यामानन्ति । एवं जीवदेहशुद्धिकरणाशक्तौ न्यासमात्रं कुर्यात् । न्यासस्यापि कृत्स्नस्य करणाशक्तौ दण्डन्यासमात्रं ष्डङ्गन्यासमात्रंवा कुर्यात् । तावतैव देहात्मनोश्शुद्ध्या शिवरूपतापत्त्याच शिवार्चनयोग्योभवति । एवं कृताङ्गन्यासोऽन्तर्यागं कुर्यात् ।
अग्निकार्यक्रमः
तत्रायं क्रमः - नाभौ त्रिमेखलं कुण्डं तत्राग्निं च स्वतस्सिद्धं विभाव्य तमग्नि-मस्त्रमन्त्रेण प्रज्वाल्य तत्राग्नौ किञ्चिदंगारं क्रव्यादांशत्वेन भावयित्वा तन्निर् ऋतिकोणे परित्यज्य कुण्डस्थमग्निं निरीक्षणादिभिरसंशिद्ध्य तस्य शिवाग्नित्वसिद्ध्यर्थं रेचकेण वायुना तं चैतन्यात्मना हृदयं नीत्वा तत्रत्येन ज्ञानाग्निना संयोज्य ततस्सुषुम्नाया-द्वादशान्तं नीत्वा तत्र परमशिवेन संयोज्य तत्तेजःपुञ्जपिञ्जरं सूर्यायुतसमप्रभं भाव यित्वा तं ज्ञानाग्निरूपं प्रत्यानीय नाभिकुण्डे स्थापयेत् । एवं कृते संस्कारान्तर- मनपेक्ष्य शिवाग्निर्भवति । तत्र शिवाग्निं रक्तवर्णं चतुर्वक्त्रं दशभुजं सदाशिवसमा-नायुधं धयात्वा तस्य हृदयकमले आसनमूर्तिविद्यादेहविन्यासपुरस्सरं शिवमावाह्य सुषुम्नास्त्रुवेण द्वादशान्तस्थितृतधाराज्यं मूलेनाष्टोत्तरशत मष्टविंशतिवार मष्टवारं वा हुत्वा शाक्तामृतघृतपरिपूर्णनाभिकन्दकलां हृदयकमलङ्कितसुषुम्नामन्तस्स्त्रुचं विभाव्य तया हां शक्तयेवौषडिति पूर्णाहुतिं हुत्वा होमसंतर्पितं शिवं नाडीमार्गेण हृत्पद्म-पूजिते शिवेसंयोज्याष्टपुष्पिकयाऽभर्च्य पूजां समायेत्। तदनन्तरं भ्रूमध्ये सर्वावयवसंपूर्ण शुद्धदीपसमाकृतिङ्च शिवं सकळनिष्कळरूपेण ध्यात्वा शिवं संपूज्य पूज्यपूजकभावेन द्विधास्थितः शिवोऽहमेवेति मनस्समाधियतामिति आत्मशुद्धिः ॥
॥स्थानशुद्धिप्रकारः ॥
अथ स्थानशुद्धिः । तत्प्रकारः हृद्यूर्द्ध्वमुखौ करौ कृत्वा हः अस्त्राय हुं फडिति ताळत्रयं कृत्वा छोटिकया दशसु दिक्षु विघ्नानुत्सार्यास्त्रमन्त्रेण ज्वलदग्निवर्णं प्राकारं कृत्वा ततोबहिः हैं कवचायनम इति दक्षिणतर्जनीभ्रमणेन परिखात्रयं च कृत्वा हांशक्तये वौषडिति शावतं ज्योतिरूर्द्ध्वमधश्च विभाव्य महामुद्रां प्रदर्शयेत् । इति विघ्ननिवारणार्थं स्थानशुद्धिः ॥
॥द्रव्यशुद्धिप्रकारः ॥
अथ द्रव्यशुद्धिः । सर्वाणि वक्ष्यंआणयागोपयोग्यानि द्रव्याणि देवस्य वाम भागे निवेश्य वस्त्रपूतशुद्धजलपरिपूर्णजलपात्रं च दक्षिणभागेनिवेश्य आत्मार्चना-वरणपूजार्थं गन्धपुष्पादिकं शिवार्थद्रव्येभ्यः पृथग्निवेश्य अर्घ्यपाद्याचमनीयजलानि पूरयेत् । चत्वार्यर्घ्याणि॥ सामान्यार्घ्यं विशेषार्घ्यं निरोधार्घ्ये परङ्मुखार्घ्यंइति । द्वारपालवरणदेवतादीनां सामान्यार्घ्यं शिवस्यार्घ्यकालेषु विशेषार्घ्यं शिवस्यैव निरो-धनसंस्कारसमये निरोधार्घ्यं विसर्जनसमये पराङ्मुखार्घ्यं । चतुर्णा मेतेषामर्ध्याणां चत्वारि पात्राणि दशपलप्रमाणेनवा पञ्चपलप्रमाणेनवा सार्धद्विपलप्रमाणेनवा यथासम्भवप्रमाणेनवा सुवर्णरजतताम्रान्यतमद्रव्येणवा पञ्चपर्वोन्नतानि पञ्चपर्वविवृतानि वृत्ताकारणि चतुरश्राकाराणिवा बहिरष्टदळपद्माङ्कितानि एकाङ्गुळिप्रमाणानि अङ्गुळचतुर्थांशघनानि उक्तप्रकारादर्धप्रमाणानिवा तदर्धप्रमाणानिवा अर्घ्यपात्राणि ग्राह्याणि । पाद्याचमनपञ्चगव्यपञ्चामृतगन्धधूपदीपपात्रघण्टादीन्यपि पूर्वोक्तदशपलादिप्राणेनैव कर्तव्यानि । तत्र पाद्यपात्रं षडङ्गुळविस्तारं चतुरङ्गुळोत्सेधं चतुरङ्गुलविस्तारोत्सेधपादं चतुरङ्गुळोष्ठं तदर्धमानं तदर्धमानंवा कर्तव्यं । (आचमनपात्रं) पाद्यक्षेपपात्र मष्टाङ्गुळोत्सेधं षोडशाङ्गुळविस्तारं चतुरङ्गुळोत्सेधमष्टाङ्गुळविस्तारपादयुक्तं एकाङ्गुळोष्ठमुक्तप्रकारर्धप्रमाणं तदर्धप्राणंवा वृत्त-कङ्कणयुक्तपार्श्वद्वयं कर्तव्यं। आचमनपात्रं द्वादशङ्गुळोत्सेधं विस्तारकुक्षिकं षडङ्कुळविस्तारेण षडङ्गुळोत्सेधेनवा पादेन युक्तं द्व्यङ्गुळ्त्र्यंगुळोत्सेधकण्ठं एकाङ्गुळोष्ठं त्र्यंगुळविस्तारमुख मैच्छिकप्रमाणमुकुळाकारवितानसंयुक्तं चतुरङ्गुळप्रमाणत्रिवक्त्रयवप्रमाणरन्ध्रमूलप्रभृतिक्रमापचितपरिमाणनासिकायुक्तं तदर्धपरिणं वा कर्तव्यं। यद्वा पाद्याचमनीयपात्रे अप्यर्घ्यपात्रवदेववृत्ताकारेकर्तव्ये । आचमनक्षेपपात्र मंपिपाद्यक्षेपपात्रवत्कर्तव्यं । अर्घ्यपाद्याचमनाधारयन्त्रिकास्तु त्रिपदीरूपाः त्रिवक्रपादसंयुक्ताः अष्टाङ्गुळोत्सेधाः पादाद्वद् र्ध्वभागे वलयस्याधस्तात्सिंह्मवक्त्राङ्किताः कर्तव्याः । सुवर्णाद्यसंभवे पाद्यादिपात्राण्यपि अर्घ्यपात्रवत् शिलादारुमयपत्रपुटादिरूपाणि ग्राह्याणि । तत्र सामान्यार्घ्यद्रव्याणि तिलतण्डुलाः । विशेषार्घ्यस्य एलालवङ्गकर्पूरर्तिबूजातिफलमुरव्रीहितिलावा जलक्षीरकुशाग्रतण्डुलसुमनस्तिलयव सिद्धार्थावादर्भदूर्वादिव्रीहितिलक्षीरनीरसिद्धार्थावायवसिद्धाथव्यतिरिक्तादर्भादयष्षड्वादर्भ सिद्धार्थजलतिलाश्चत्वारो वा दूर्वाकु~कुमकर्पूरास्त्रयो वा द्रव्याणि । निरोदार्घ्यस्य दर्भ्दूर्वायवतण्डुलसिद्धार्थाः पञ्चद्रव्याणि ।तिलसहिताष्षट्परङ्मुखर्घ्यस्य द्रव्याणि ।पाद्यस्यदूर्वाचन्दनसिद्धार्थोशीरह्निबेरकुङ्कुमानि षड्वा। तान्येव कुङ्कुमं विना पञ्चवा । दूर्वासिद्धार्थचन्द्नोशीराणि चत्वारिवा ह्नीबेरचन्दनोशीराणि त्रीणि वा द्रव्याणि । आचमनीयस्य एलालवङ्गकर्पूरजातीकोष्ठतिंबुत्रिफलचन्दनोशीराणिएकादशवा एलालवङ्गकर्पूरर्तिबूमुरजातिफलानिषड्वा एलालवङ्गकर्पूरजातीकोष्ठोतिंबुत्रिफलचन्दनोशीराणिएकादशवाएला-लवङकर्पूरर्तिबूमुरजातिफलनिषड्वा एलालवङ्गकर्पूरह्नीवेरजातिफलानि पञ्चवा एलालवङ्गकर्पूराणि त्रीणिवा द्रव्याणि । एलादीनि चार्घ्यादिद्रव्याणि प्रत्येकं उत्तम मध्यंआदिभावेन अशीतिचत्वारिंशद्विंशतिदश्पञ्च्व्रीहिपरिमितानि देयानि ॥
॥ पाद्यादिपूजा ॥
अथ पाद्यादिपूजाविधानमुच्चते । पाद्याचमनीयसामान्यार्घ्यवोशेषार्घ्यानरोधा-र्घ्यपराङ्मुखार्घ्यपात्रत्रिपदीर्देवस्यपुरतो वामदिक्रमेण विन्यस्य तासां पादेषु ब्रह्म-विष्णुरुद्रान् वलयेष्विडाधारशक्तिं चाभ्यर्च्य पाद्यादिपात्राण्यस्त्रमन्त्रेण संक्षाळ्य त्रिपदीषु विन्यस्य अस्त्रमन्त्रेण वौषडन्तहॄदयंअन्त्रेण वा शुद्धतोयेनापूर्य कवचमन्त्रेण पाद्यादिद्रव्याणि तत्तत्पात्रेषु निक्षिपेत् । द्रव्यालाभे शुद्दोदकपूरणमात्रंकुर्यात् । ततः पाद्यादिपात्राणि बिंद्वन्तं समुदृत्य बिन्दुप्रस्रॄतामृधारामयेन गङ्गादिसकलतीर्थोदकेना-पूर्णानि भावयित्वा यन्त्रकाणामुपरिस्थापयेत् । अथवा बिन्दुस्थानादङ्कुशमुद्रयादि-व्यामृतमयं गङ्गादितीर्थमाकृष्य संहारमुद्रया तमादाय वौषडन्तहृदयेनोद्भ वमुद्रया यन्त्रकान्तस्थेष्वेव पाद्यादिपात्रेषु विनिक्षुपेत् ॥ ततो विशेषार्घ्यजले शिवासनमूर्ति पञ्चब्रह्मविद्यादेहनेत्र मूलाङ्गानि विन्यस्यंऊलेन गन्धपुष्पाक्षतैस्संपूज्य ब्रह्माङ्गमूलैरभिमन्त्रयेत् ।
केवलं वा ब्रह्माङ्गमूलैरभिमन्त्रयेत् । निरोधार्घ्यं ब्रह्मभिःपराङ्मुखार्घ्यंअङ्गैस्सामन्यर्घ्यंअस्त्रमन्त्रेणाभिमन्त्रयेत्। पाद्याचमनीये ब्रह्मभि रङ्गैरस्त्रेण वा अभिमन्त्रयेत् । ततोऽस्त्रेण दिग्बन्धनं कृत्वा कवचेनावकुण्ठनं कृत्वा बौषडन्तशक्तिमन्त्रेण धेनुमुद्रां प्रदर्श्यामृतीकुर्यात् । पाद्यादिपराङ्मुखार्घ्यपर्यन्तेषु त्रिपदीविन्यासाद्यंऋतीकरणान्तं प्रत्येकं काण्डानुसमयेन वा कुर्यात् । अथ पराङ्मुखार्घ्यसमीपे शङ्खपूजा-कर्तव्या । प्रस्थमानुकाः कुडवजलपूरणीयाश्शङ्खा उत्त्ममध्यंअकनीयांसः तथा मूलाग्रमूलस्थूलाग्रस्थूलाः पुंस्त्रीनपुसकरूपाःशङ्खार्घ्यंऊलेवसुंधरा वलये सूर्यः कुक्षौविष्णुः पार्श्व चन्द्रमाः धारायामघोरः मुखेसप्ततीर्थानिच सन्ति। तथापि शङ्खो बहिर्मूलाग्रयोरस्थिवदशुचिरितितयोर्हेमरत्नादिभूषितः कर्तव्यः । एवंभूतं शङ्खदग्धन्तुपशोधितास्रमन्त्रक्षाळितं पूर्ववदर्चितायान्त्रिपाद्यांविन्यस्य विशेषार्घ्यवत्पूजयुत्वा आत्मानं शिरसि तत्तोयैस्त्रिवारमभिषिञ्चेत् । एवं बहुपात्रसंपादनतत्पूजनाशक्तौ निरोधार्घ्यपराङ्मुखार्घ्यै निरोधार्घ्यजलेनैव कर्तव्ये । विशेषार्घ्यजलेनैववा अर्घ्यपात्रत्रयंअपि कर्तव्यं । एवं पाद्याचमनीयद्वयंअपि विशेषार्घ्येणैव कर्तव्यं । विशेषार्घ्यस्यापि पात्रान्तराभावे शङ्खजलेनैव पाद्याचमनद्वयंअर्घ्यत्रयञ्च कर्तव्यं । आवरणदेवताद्यर्थं सामान्यार्घ्यंआत्रं पात्रान्तरे संस्कार्यं । एवं पात्रसङ्कोचपक्षे यदीयजलेन उपचारान्तरं क्रियते तदीयंएव पात्रमादाय तत्संस्काराः कर्तव्याः अन्यदीयसंस्कारा अपि वा परिधौ यूपधर्मवदविरुद्धाः कर्तव्याः । अथवा नित्यं विषुवायनोपरागादिषु कर्तव्यं ॥
॥पञ्चगव्यविधिः॥
अथ पञ्चगव्यविधानमुच्यते - देवस्य पूर्वभागे ईशानादिभागे वा द्विहस्तमात्रं हस्तमात्रं वा चतुरश्रं गोमयेनोपलिप्य चतुर्भिः प्राचीनैश्चतुर्भिरुदीचीनैश्च सूत्रैः प्रत्येकं तालप्रमाणानि नवकोष्ठान्युंद्धॄत्य प्रतिकोष्ठं आढर्के तदर्द्धमानान् व्रीहीन् तदर्द्धमानान् तण्डुलान्कुशान्वा प्रासार्य उत्तराभिमुखःप्रतीचीं दिशं पञ्चसंख्यै रुदगग्रैः प्रागग्रैश्च दर्भैः परिस्तीर्य परितः पुष्पैरलञ्कृत्य शिवतत्वायनमः । सदाशिवतत्वाय नमः । विद्यातत्वायनमः । पुरुषतत्वायनमः । कालतत्वायनमः । पृथिवीतत्वाय नमः । जल तत्वाय नमः वायुतत्वायनमः । प्रकृतितत्वाय नमः इति मद्ध्यपूर्वदक्षिणोत्तर पक्षिमाग्रेयनैॠतमारुतैशानकोष्ठानि संपूज्य सौवर्णानि कांस्यानि अभिन्नकृष्णनव मृन्मयानिवा पात्राणि संक्षाळ्य नवसु कोष्ठेषु संस्थाप्य सुप्रतिष्ठपात्रायनमः । सुशान्तपात्रायनमः । तेजोमयपात्रायनमः । रत्नोदकपात्रायनमः । अमृतपात्रायनमः ।अव्यक्तपात्रायनमः । सूर्यपात्रायनमः । संयुक्तपात्राय नमः । अव्यक्तपात्राय नमः । इति प्रागुक्तकोष्ठक्रमेण पात्राणि संपूज्य। ताम्रवर्णायाः क्षीरं त्रिकुडवं मध्यपात्रे शुक्लवर्णायाः दधि द्विकुडवं पूर्वपात्रे कपिलवर्णायाः घृतं कुडवं दक्षिणपात्रे श्याम-वर्णायाः गोर्मूत्रं प्रस्थं उत्तरपात्रे, कृष्णवर्णायाः गोमयं कुडवं प्रमाणं पञ्चकुडवजल-संयुक्तं वस्त्रपूतं पश्चिमपात्रे कपित्थफलप्रमाणानितदर्द्धप्रमाणानि तदर्धप्रमाणानिवा तण्डुलामलकहरिद्रपिष्टा न्याग्नेयनैर् ऋतवायव्यकोणपात्रेषु कुशोदकं षट्त्रिंशत्पञ्चविंशतिद्वादशञ्च तदर्धकृतेन प्रदक्षिणं दर्भ वायव्य परिवीतेन हस्तमानेन तालमानेन वा द्व्यङ्गुलग्रन्थिना चतुरङ्गुलाग्रेण कूर्चेन संयुक्त माढिकमानकं गन्धदूर्वायुक्त मैशानकोणपात्रेच हृदयेन प्रक्षिप्य क्सीरादिगोमयान्तानि पञ्चगव्यानि क्रमात्पञ्चचतुस्त्रि द्वयेकसंख्यैरीशानादिमन्त्रैश्शालिपिष्टं हॄदयेनामलकं शिरसा हरिद्रां कवचेन कुशोदकं षड्वारावृत्तब्रह्मपञ्चकेनाभिमन्त्रयेत्। तदनन्तरं गोमूत्रे तदुभयं घृते तत्रयं दध्नि तच्चतुष्टयं क्षीरेच हॄदयंअन्त्रेण निक्षिप्य तत्रैव कुशोदकं मूलमन्त्रेण क्षिपेत् । पञ्चब्रह्मषडङ्गैरभिमन्त्र्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुमुद्रां प्रदर्श्य गन्धपुष्पै रभिपूज्यास्रमन्त्रेण धूपदीपौ प्रदर्श्य मूलेनाभिमन्त्रयेत् ।
॥पञ्चामृतविधिः ॥
अथ पञ्चामृतविधानमुच्यते- तत्पूजा पञ्चगव्यपूजायाः प्राग्भागे कर्तव्या । तत्र पात्रपूजापर्यन्तं पूर्वमध्यादिपश्चिमान्तेषु क्षीरदधिघृतमधुशर्कराः प्रत्येकं प्रस्थमानाः पादोनप्रस्थमानावा प्रस्थार्द्धमानावाऽऽग्नेयादिकोणेषु यथासंभवं कदळीपनसाम्राफला-नीशानकोणे कुशोदकवद्गन्धोदकं तत्तत्स्थानस्थिताना मभिमन्त्रणं पूर्ववत् । शर्करा गोमयवज्ज्लयुक्ता। संयोजनन्तु नास्ति । अथवा संयोजनयुक्तपञ्चामृतविधानं कुर्यात् । तस्यायं क्रमः -
पूर्वदुपक्लृप्ते व्रीहिमये स्थण्डिले पूर्वादिदिक्षु मद्ध्येन पञ्च कोष्ठानीशानदिशि अष्टदळपद्मञ्च विलिख्य शिवनियतिकालव्यक्ताव्यक्तसुमङ्गळानामभिः-षड्भिर्मद्ध्या-दिक्रमेण तानिसंपूज्य तेषु षट्पात्राणि अमृतसोमविद्यारत्नोदक सुधाप्रीत सुरप्रीतना-मभिस्संपूज्य पूर्वोक्तक्रमेण मद्ध्यादिपात्रेषु पञ्चामृतानि ऎशानकोणपात्रे नाळिकेरोद-कञ्च निक्षिप्य तानि पञ्चगव्यकुशोदकवदभिमन्त्र्य शर्करादीनि गोमयादिवत् क्रमेण क्षीरे संयोज्य कुशोदकवन्नाळिकेरोदकञ्च संयोजयेत् । ततस्समृद्धं कदळीफलं मूलाभिमन्त्रितं क्षिप्तवा मूलेन मर्दयेत् । पञ्चगव्यवद्गन्धपुष्पाद्युपचरांश्च कुर्यात् । पञ्चगव्याद्यर्थ मुक्तद्रव्याभावे दधिक्षीरेपरस्परङ्गोम्यगोमूत्रेच परस्परं प्रतिनिधिः । शर्कराया इक्षुरसः ।पञ्चगव्याद्युक्तपात्रद्रव्यपरिमाणालाभे गोमयंअङ्गुष्ठार्धमानं गोमूत्र-घृतदधिक्षीरकुशोदकान्येकद्वित्रिपञ्चैकपलानि ग्राह्याणि । पञ्चामृते क्षीरादीनि देवस्य लिङ्गसेकार्हाणिग्राह्याणि । गवामुक्तवर्णानामभावे निर्दोषाया स्सवत्साया रोगगर्भरहिताया गोः क्षीरादीनि ग्राह्याणि । क्सीरं वत्सलालाजलास्पृष्टं दध्यंअथ्यङ्गोमयंआकाशस्थं घृतं गोमूत्रंच वस्रपूतं ग्राह्यं॥
॥स्नपनोदकविधानम् ॥
अथ स्नपनोदकविधानमुच्यते-शुद्धं जलकुम्भमादाय शिवाल्लब्धानुज्ञाः प्रश्स्तवर्णगन्धरसनदीतटाकं देवखातादिशुद्धतीर्थं गत्वा तज्जलं ब्रह्माङ्गै रभिमन्त्र्या स्त्रसंक्षळितं कुम्भं वस्त्र्पूतेन तेन हॄदयंअन्त्रेणापूर्य आहृत्य देवस्य दक्षिणभागे स्थापयित्वा एलोशीरलवङ्गकर्पूर वारिपाटलोत्पल पद्मकरवीरादिवासितं कुर्यात् । इदं पञ्चगव्यपञ्चामृतस्तपनोदकसंविधानं आत्मशुद्धेर्द्वारपालर्चनाच्चप्रागेव कर्तव्यं । स्नपनोदकं सूर्यरहितेकालेनाहर्तव्यं । पुष्पाहरणमपि पूजकेनस्वयंएवकर्तव्यं । अशक्तौसमयालाभे च पुष्पोदकाहरणं गन्धघर्षणनैवेद्यपाकादिवत्स्नातैर्वाशुद्धवस्त्रैः पवित्र पाणिभिः परिचारकैः करणीयं । छित्रेपिष्ट इति न्यायसाम्यात् । एवं सकलमपि वक्ष्यंआणोपयोगद्रव्यजातं सन्निधाप्य तस्यशुद्धिं कुर्यात् ॥
॥ द्रव्यशुद्धिः॥
तत्रायंक्रमः-अङ्गुष्ठानामिकास्पृष्टेन चक्षुषा मूलेन निरीक्ष्यंआणं दृक्क्रियेच्छात्मकै रर्कबह्निसोमनेत्रेः क्रमात् शुष्कं दग्धममृताप्लावितं च भावयेत् । ततश्शुद्ध्यर्थं मस्त्रमन्त्रेण पताकया प्रोक्ष्य चिच्छक्त्यभिव्यक्त्यर्थं अस्त्रमन्त्रेणैव मध्यंआङ्गुळ्या ताडयेत् । ततोवौषडन्तकवचेन तत्सर्वं विशेषार्घ्यजलेन शङ्खजलेन वा कुशपुष्पैरम्युक्षन् ताडितात्पाषाणा द्वह्निस्फुलिङ्गादिवत्द्रव्यजाता चिदग्निस्फुलिङ्गाना मुद्गतिं ध्यायेत् । एवं निरीक्षणादिसंस्कारचतुष्टयेन। द्रव्यजात मशुद्धेन मायारूपेण परित्यक्तं शुद्धचित्छंक्त्यात्मकं शिवयोग्यतार्हंभवति । ततस्सद्योजातेन गन्धं वामदेवेन वस्त्रं अघोरेणाभरणं तत्पुरुषेण नैवेद्य मीशानेनं पुष्पं हृदयंअन्त्रेणान्यानि शिवार्थद्रव्याणि आवरणपूजाद्यर्थद्रव्याणि चाभिमन्त्रयेत् । ततस्सर्वं द्रव्यजात मस्रेण संरक्ष्य कवचेनावकुण्ठ्य वौषडन्तशक्तिमन्त्रेण धेनुमुद्रयाऽमृतीकृत्य शिवार्थं कल्पित मेतत्सर्वं शिवात्मकमेवेति भावयन् गन्धपुष्पधूपदीपैः हॄदयास्रमन्त्राभ्यां पूजयेत् ततस्स्व शरीरस्यार्घ्यजलबिन्दुमस्रेण निक्षिप्य स्वासने शिवासनायनम इति पुष्पन्दत्वा स्वदेहेशिवमूर्तिं विन्यस्य फाले चन्दनतिलकं कृत्वा स्वशिरसि पुष्पं स्वाहान्तमूलेन स्वशिरस्येवार्घ्यंच दद्यात् इत्थमात्मनि पशुबुद्धिं त्यक्तवाशिववन्निर्मलज्ञानक्रियश्शुद्धोऽहमिति भावयन्नेवात्मानं पूजयेत् । इति द्रव्यशुद्धिः ॥ यद्यप्यात्मशुद्धिः प्रागभिहिता। तथाऽपि पूजाकर्तृकतया द्रव्यान्तरवत्पूजोपकरणत्वेन प्रविष्टस्य तस्य द्रव्यान्तरवदेव गन्धादिभिः पूजयेदिति तदन्तद्रव्यशुद्धिः ॥
॥ मन्त्रशुद्धिप्रकारः॥
अथ मन्त्राणां दन्तताल्वोष्ठव्यापारजन्यंआयिकाशुचिरूपनिर्हरणार्थं ऎश्वर्याधि-कारि मलतिरोहितफलप्रदानसामार्थ्यादीनां तेषां सामर्थ्योन्मीलनार्थं च शुद्धिः कर्तव्या। तत्प्रकार उच्यते -हॄद्यञ्जलिं बुद्ध्वा बिन्द्वन्तब्रह्मरन्ध्रान्तशिखान्तं ह्रस्वदीर्घप्लृतप्रण-वादिनमोन्ततया क्रमेण त्रिवारं शनैर्मूलमन्त्रोच्चारणं कुर्यात् । ततो ब्रह्माङ्गादीनामपि तथैवोच्चारणं कुर्यात् । इत्थं मन्त्रशुद्धिं विधाय तदनन्तरं परिवारदेवतासद्भावे तदर्चनं कुर्यात् । कथं परिवारदेवतासद्भावः सशक्तिककेवलपूजने । इत्थं । सूक्स्मोक्तानि शुद्धकेवलमिश्रभेदेन प्रत्येकं त्रिविधानि। अंशुमति केवलं नामपरिवारदेवतारहित-लिङ्गपूजनम्। सहजन्नाम वृषभगणेशस्कन्द-पार्वतीरूपपरिवारचतुष्टयसहितलिङ्गपूजनम्। मिश्रंनाम महेश्वरनृत्तमूर्ति दक्षिणामूर्त्यादिभिरपि सहितस्य लिङ्गस्य पूजनम्। एवं केवलशुद्धं सहजशुद्धं केवलकेवलं सहजकेवलं मिश्रकेवलं केवलमिश्रं सहजमिश्रं मिश्रमिश्रं चेति नवविधानि पूजनानि भवन्ति । तत्र शिव-पूजारम्भात्प्राक् सूर्यपूजां तदनन्तरं चण्डपूजां च विधाय लिङ्गे शक्तिं विना केवलं शिवमावाह्य परिवारदेवतारहितस्य तस्य पूजनं केवलशुद्धम् । परिवारचतुष्टय-साहित्येन प्रागुक्तपूजनं सहजशुद्धं महेश्वरादिभिरपि सह प्रागुक्तपूजनं मिश्रशुद्धं । आद्यन्तयोस्सूर्यादि चण्डपूजां विहाय लिङ्गे सशक्तिकं शिवमावाह्य परिवारारर्चनं विना तत्पूजनं केवलकेवलम् । उक्तपूजनमेव परिवार चतुष्टयार्चनसहितं सहज-केवलम् । महेश्वराद्यर्चासहितं मिश्रकेवलम् । आद्यन्तयोस्सूर्यचण्डपूजासहितं सशक्तिकस्याशक्तिकस्यवा परिवारदेवतारहितस्य लिङ्गे पूजनं केवलमिश्रम्। देवपरिवारचतुष्टयार्चनसहितं सहजमिश्रम्। महेश्वराद्यार्चादिभिरपि सहितं मिश्रमिश्रमिति । एवञ्च केवलकेवले परिवारभावेऽपि सहजकेवले मिश्रकेवलेच परिवारसद्भावात् । मन्त्रशुद्ध्यनन्तरं केवले परिवारार्चनकथनं युक्तमेव। तत्र वृषभं देवस्य पूर्वभागे पश्चिमाभिमुखमर्चयेत् । गणेशकुमारपार्वतीः पूर्वाभिमुखतया दक्षिणपश्चिमोत्तर-दिक्ष्वर्चयेत्। पार्वत्या दुर्गारूपतयाऽर्चने दक्षिणाभिमुखत्वेनार्चयेत्। पौराणिकास्तु सूर्यगणेशविष्णुदुर्गारूपं परिवारदेवताचतुष्टयंआहुः । वृषभादिचतुष्टयेऽप्यारोग्यादि-फलकामनायां परिवारदेवतामध्ये सूर्यादिपूजनमपि कर्तव्यंएव । वृषभस्य वामभागे सूर्यः देवस्य दक्षिणभागे दक्षिणामूर्तिः पश्चिमेस्कन्दस्य वामे विष्णुः उत्तरभागेदेव्याः प्राग्भागे नृत्तमूर्तिः । एन्वमन्येषामपि कामन्यार्चनीयाना मागमोक्तानि स्थानानि द्रष्टव्यानि ॥
॥ लिङ्गशुद्धिः ॥
अथ लिङ्गशुद्धिः-गर्भगृहे स्थितं देवस्य पेटक मुद्धाट्यतदग्रे स्थितं चतुर्भुजं त्रिणेत्रं वराभयच्छत्रचामरकरं भीमरुद्रमभ्यर्च्य निशाचरान्तकृद्देव देवस्य यजनार्थकम्। शुद्धद्वारस्य सव्येतु गच्छत्वं हि प्रसीदमे । इति संप्रार्थ्य पेटकमध्ये स्थितं देवं ओं नमोदेव्देवेशसर्वलोकैकनायक । उत्तिष्ठस्रानकर्मार्थ मात्मरक्षार्थमेवचे ति संप्रार्थ्य लिङ्गं हस्ताभ्यां संगृह्य वस्त्रं विसृज्य प्रागेव षडुत्थासनेनार्चितायां स्नानवेद्यां सुवर्णरजतकांस्यत्रपुसीसक्षीरवृक्षान्यतमनिर्मितायां उपानपद्मजगरीकंपकण्टकं पजगतीपद्मवाजिनयुक्तायां वृत्तारकारायां मध्योन्नताया मुपरिप्रसारितवस्रायां विन्यस्य लिङ्गे पूर्वेद्युरर्चितां पूजां हृदयंअन्त्रेण संपूज्य शिरसीशानक्रमेण स्वाहान्तमूलेन सामान्यार्घ्यजलेनार्घ्यन्दत्वा धूपदीपौ प्रदर्श्य अङ्गुष्ठादिकनिष्ठान्तैः ईशानादिपञ्चकं विन्यस्य कनिष्ठिकानामिकामध्ये पुष्पं संगृह्य अङ्गुष्ठतर्जनीभ्यां लिङ्गमस्तकात्पूजां हृदयेनावरोप्य तत्पुष्पं लिङ्गमूर्ध्नि विन्यस्य निर्मास्य मीशानदिशि हृदयेनशुद्धपात्रे-निधाय अस्त्रेणलिङ्गं पाशुपतास्रेण पीठं प्रक्षाळ्य सामान्यार्घ्यजलेन स्वाहान्तं हृदाऽभिषिञ्चेत्। एवं कृते पूर्वपूजासमाप्तौ लिङ्गपीठविन्यस्तमन्त्रोपसंहारानन्तरं लिङ्गपीठयोरासक्ताः पूजकस्य भुक्तिमुक्तिप्रतिबन्धकविघ्ना निरस्ता भवन्ति लिङ्गञ्च हृदयाम्बुस्नपनेन शुद्धं पुनः मन्त्रविन्यासयोग्यं भवति । इति लिङ्गशुद्धिः ॥
ततश्शिवशक्तिभ्यां नम इति लिङ्गमुद्रां प्रदर्श्य आसनमूर्तिमूलै रष्टपुष्पिकयावा संपूज्य धूपदीपौ प्रदर्श्य सुवर्णरजतताम्रमयशङ्खशुक्तिगोश्रॄङ्गान्यतमपात्रेण चतुरङ्गुळदीर्घया गोशृङ्गाग्रप्रमाणया धारयाऽभिषिच्य हस्तयन्त्रोद्भवतैलेन गोधृतेनवाऽभ्यज्य पिष्टचूर्णादिभिर्विरूक्ष्यकोष्णतोयेनाभिषिच्य शिरसि पुष्पमारोप्य पञ्चगव्यप्रत्येकपञ्चामृतफलरससंयुक्तपञ्चामृतैरन्तरान्तराशिरश्शिखानेत्रैः पुष्पधूपदीपसमर्पणपूर्वक मस्रमन्त्रेण घण्टां ताडयन्नभिषिञ्चेत् । एवं फलोदकादिभिस्सिञ्चेत्। तत्र फलोदकं नाम सुगन्धिजलं वित्वक्पनसनारिकेळखण्ड सत्वग्दाडीमीबीजपूरपुन्नाग-लिकुचनारङ्गचूतकदळीफलोपेतमुदकम् । यवनीवारव्रीहिमुद्गसिद्धार्थ सौगन्धिकहेमशालिबीजसहितमुदकं बीजोदकं । तेनाभिषिच्य मूलबीजेन गन्धपुष्पधूपदीपैरर्चयेत् ।स्फटिकमुक्ताफलमाणिक्कविद्रुमगोमेदकपुष्यराग गारुडेन्द्रनीलसहितमुदकं रत्नोदकं । तेनाभिषिच्य वर्णमन्त्रेण गन्धादिभिरर्चयेत् । चन्दनागरुकस्तूरी कुङ्कुमकर्पूरमन-श्शिलैलाकुष्ठतक्कोललवङ्गोशीरचम्पकमुकुळचूर्णसहितमुदकं गन्धोदकं । तेनाभिषिच्य गन्धपूष्पधूपदीपनैवेद्यानि नाममन्त्रेण समर्पयेत् । चम्पकमल्लिकाकेतकी-पाटलकुन्दपुन्नागनन्द्यावर्तजातीमन्दारकरवीरपद्मोत्पलगिरिपुष्प-युक्तंह्नीबेरदमनकादिमिश्रितमुदकं पुष्पोदकं । तेनाभिषिच्य शिवमन्त्रेण गन्धपुष्पधूपदीपं दद्यात् । ततो नाममन्त्रं समुच्चरन्शुद्धेनान्नेन शनैश्शनैरभिषिच्य तदन्नंलिङ्गमभितस्थितं लिङ्काकृतिं कृत्वा गन्धपुष्पधूपदीपपायसांश्च तांबूलादिचदत्वा तदन्नं प्रक्षाळ्यलिङ्गमूर्ध्नि मूलबीजं न्यस्य गन्धपुष्पधूपदीपं दत्वा ब्रह्ममन्त्रैरालभ्य धेनुमुद्रां ब्रध्नीयात् । इदमन्नाभिषेचन-मपमृत्युनिवारकम्। अयंआयुरारोग्यराजराष्ट्राभिवृद्धिदं सकलवशीकरणं सर्वशान्तिकं च । ततो जलार्चनं च कुर्यात् । निरीक्षणादिसंस्कृतेन शुद्धजलेन हेमरजतताम्र-यज्ञावृक्षजान्यतमपात्रं प्रपूर्य तन्मध्ये लिङ्गं संस्थाय दूर्वादलाक्ष्तान्दत्वा गन्धपुष्प-धूपदीपैरर्चयेत्। इदं जलार्चनं । ततस्समुद्धृत्य संमृज्य पूर्ववत् स्नाननैवेद्यं विन्यस्य नाळिकेरेक्षुरसादिभिरपि यथासंभवमभिषिञ्चेत् । शिवस्य घॄताभ्यङ्गेन वर्षकोटि-सहस्रार्जितं पापं नश्यति । मासं घृताभिषेकेण त्रिसप्तकुलोपेतस्य शिवपदप्राप्ति-र्भवति। करयन्त्रोद्भवतोलतैलाभिषेकेण शिवपदप्राप्तिर्भवति। क्षीराभिषेकेणायुत-सालङ्कारगोदानफलप्राप्तिर्भवति। दधिस्त्रपनेन सर्वपापक्षयपूर्वकं शिवलोकप्राप्ति-र्भवति । मधुस्रपनेन सर्वपापक्षयपूर्वकं वह्निलोकप्राप्तिर्भवति। इक्षुरसस्रपनेन विद्याधरलोकप्राप्तिर्भवति । कर्पूरगरुतोयेन शिवपदप्राप्तिः । गन्धचन्दततोयेन गन्धर्वलोकस्य पुष्पोदकेन सूर्यलोकस्य हैमोदकेन कुबेरलोकस्य रत्नोदकेन इन्द्रलोकस्य कुशोदकेन ब्रह्मलोकस्य प्राप्तिरित्यादि द्रष्टव्यं । तत्र द्रव्यालाभे वस्रपूर्तन शुद्धेन तोयेनाभिषिञ्चेत् । तेनापि सर्वकामसमृद्धवरुणलोकप्राप्तिरुक्ता।
त्तोधाराभिषेचनं कुर्यात्। तच्चात्मार्थपूजायां द्वादशङ्गुळविस्तारमेकाङ्गुळोत्सेधं यवत्रयघनमुत्तमम्। सप्ताङ्गुळविस्तारमर्धाङ्गुळोत्सेधं यवद्वयपात्रघनं मध्यंअं । पञ्चाङ्गुळविस्तारं पादाङ्गुळोसेधं यवमात्रघनमधमं । तत्सुवर्णेन रजतेन ताम्रेण वा चतुरश्रं वृत्तं कर्तव्यं । चतुरश्रं चेन्नवकोष्ठानि विलिख्य मध्यकोष्ठस्य मध्येरन्ध्रमेकं परितोष्टौ मद्ध्यकोष्ठस्यैव रेखायां महादिक्षु चत्वारि पूर्वदिकोष्ठेषु प्रत्येकं द्वादशरन्ध्राणि चेत्येव मुत्तमपात्रस्यैकाधिकान्यष्टोत्तरशतं रन्ध्राणि कुर्यात् । मद्ध्य्कोष्ठस्यंअद्ध्यरन्ध्रमेकं परितोवाष्टौ पूर्वादिकोष्ठेषु त्रीणित्रीणि रन्ध्रणीत्येवं मद्ध्यंअ पात्रस्य पञ्चिविंशतिरन्ध्रमेकं कुर्यात् । वृतं चेदष्टदळपद्मं विलिख्य कर्णिकाया मद्ध्ये परितश्च नवरन्ध्राणि प्रतिदळं द्वादशरन्ध्राणि दळेभ्यो बर्हिर्वृत्ते महादिक्षु चत्वारि चोत्तमपात्रस्य कुर्यात् । इतरपात्रयोरष्टदळपद्मे चतुरश्रवत् द्रव्यणि द्रष्टव्यानि । एवं भूतं पात्रं देवस्योपरि हस्तधृतं कृत्वा शङ्खजलेनापूर्य हस्ताभ्यां धारयन् मूलेन धारा-भिरभिषिञ्चेत्। एवमभिषेकार्थानिप्राक्संस्कृतपञ्चगव्यादिव्यादिव्यतिरिक्तानि तैलादि-न्यस्रेणसंप्रोक्ष्यकवचेनावकुण्ठ्यास्रेण संरक्ष्य हृदयबीजेनाभिषेचने विनियोजयेत् । एवं प्रपञ्चेनाभिषेकं कर्तुमशक्तश्शुद्धजलेनाभिषेचयेत् । ततो मूलेन मन्त्रपुष्पं दत्वा मन्त्रान्नं निवेद्य शुद्धमृदुवाससा शनैस्संमृज्य पद्मपीठे स्थापयेत् । तत उत्थाय शिवं प्रदक्षिणीकृत्य निर् ऋतिकोणस्थितवास्त्वधिपति ब्रह्मस्थानादुत्तररूपं शिवमन्दिरस्य वायुकोणं गत्वा तत्र श्यामवर्णं दन्ताक्षसूत्रपाशाङ्कुशान्करैः पुष्करेण बीजपूरञ्च धारयन्तं दक्षिणाभिमुखमुपविष्टं गणपतिमावाहनादिसर्वोपचारैस्संपूज्य "शिवार्चनं गणेशान निर्विघ्नं कुरुमेसदे"ति प्रार्थयेत् । ततः प्राग्भागे शिवखेटकस्योत्तरदिशारूपे श्रीफलकमलाभयधारिणीं त्रिणेत्रां शिवशक्तिरूपां दक्षिणाभिमुखीमुपविष्टां महाल्क्ष्मीं तथैव संपूज्य मातश्शिवार्चनद्रव्यसमृद्धिं कुरुमेसदेति प्रार्थयेत् । ततः प्राग्भागे शिवमन्दिरस्येशानकोणरूपे सदाशिवानन्तश्रीकण्ठाम्बिकागुहविष्णुधातृरूपान् प्रसन्न-वदनान्योगपट्ठधरान्व्याख्या मुद्राक्षसूत्रविराजितकरद्वयान् गौरवर्णान्दक्षिणामुखमुप-विष्टान्सप्तगुरून्वा शिवादिस्वरूपगुरुपर्यन्तान्सर्वान्गुरून्वा तथैव सर्वोपचारैस्संपूज्य शिवादिगुरुवो मह्य मनुज्ञां दातुमर्हथ । शिवार्चनं करिष्येहं युष्मद्द् र्शितमार्गतः इति प्रार्थयेत् ॥ गुरुस्थाने श्रीगुरुपादुकाभ्यां नम इति पादुकेवा पूजयित्वा गणपरिमहा-लक्स्मीगुरुपादुकानां पूजानन्तरं सर्वान्प्रणम्य क्षितितलनिहितनिश्चलजानुः बद्धांजलिः गणनाथाम्बिके स्वामिपादिके मां जगद्गुरो । यजन्तमनुजानीत यथासंपन्नकारकमिति युगपत्प्रार्थयेत् । अथ तेभ्यस्सकाशात्पुत्र शिवं यजस्वेति अनुज्ञालाभं भावयित्व देवस्याग्रेयकोणे दक्षिणभागेवा रुचिराद्यासने स्थितः प्रत्येकं दशमात्रैः पूरक कुंभकरेचकैस्सहितं प्राणायाममत्रयं कृत्वा स्वेष्टफलाभिसन्धिपूर्वकं यथाशक्तिशिवार्चनं करिष्ये इति सङ्कल्प्य पूजामारभेत् ।
तत्र प्रथमं शिवार्चनं । तच्चकन्दाळग्रन्थिदळकेसरकर्णिसरकर्णिकाविभक्तकमलरूपं क्षित्यादिशुद्धविद्यान्तद्वात्रिंशत्तत्वपर्यन्तोच्छ्रायं उपरिस्थितयामूर्त्यासह निवृत्यादिशान्तिकलापर्यन्तोच्छ्रायं । तदुपरिशान्त्यतीतकलाप्रमणोविद्यादेहः । तत्स्वरूपपरिज्ञानार्थं निवृत्यादिकलाप्रमाणं तदन्तर्गततत्वस्वरूपञ्चविविच्यते । निवृत्यादिकलाशत-कोटियोजनप्रमाणब्रह्माण्डरूपा तत्रैकं पृथिवीतत्वं । तदुपरि सहस्रकोटियोजन प्रामाणा प्रतिष्ठाकला । तत्र जलादिभूतचतुष्टयगन्धादितन्मात्र-पञ्चककर्मेन्द्रियपञ्चक-ज्ञानेन्द्रियपञ्चकमनोहङ्कारबुद्धिप्रकृतिरूपाणि त्रयोविंशतितत्वानि। तदुपरि अयुत-कोटियोजनप्रमाणाविद्याकला। तत्र पुरुषरागनियति कलाविद्याकालमायारूपाणिसप्ततत्वाति। तदुपरि लक्षकोटियोजनप्रमाणाशान्तिकला। तत्र शुद्धविद्यामहेश्वरश्चेति द्वेतत्वे। तदुपरि दशलक्षकोटियोजनप्रमाणाशान्त्यतीतकला। तत्र सदाशिव-शक्तिश्चेति द्वेतत्वे । तदुपरि अप्रमेयं शिवतत्वं निवृत्तिकलात्मकं प्रथिवीतत्वं यावत्कन्दं प्रतिष्ठाकलाविद्याकलान्तर्गतानि जलादिकालान्तन्येकोनत्रिंशत्तत्वानि यावन्नाळः । जलादिकालान्ततत्वेषु स्थितानि पञ्चसप्ततिभुवनानि कण्टकाः तत्तद्भुवनान्तर्गतप्राणिनां बुद्धिधर्माः पञ्चाशुद्भुवननाळान्तर्गतसूत्राणि । विद्याकलायामेव कालस्योपरि स्थितं मायातत्वं पद्मनाळग्रन्थिः । शान्तिकलायां स्थितं शुद्धविद्यात-त्वदळकेसरकर्णिकात्मकं पद्मं शुद्धविद्याया उपरि स्थितं महेश्वरतत्वं यावत् शिवस्य सूक्ष्ममूर्तिः शान्त्यतीतकलायां स्थितं सदाशिवशक्तितत्वद्वयं यावद्विद्यादेहः। नाळे स्थितानि भुवनानि च जलानलवायुगगनाहङ्कारबुद्धिप्रकृतिषु प्रत्येकमष्टावष्टौभुवनानीति षट्पञ्चाशत् पुरुषे षट्रागे पञ्च नियतौ द्वे कलायां द्वे विद्यायांद्वे काले द्वे इति पुरुषादिकालान्तेषु भुवनानि एकोनविंशतिरित्येवं पञ्चसप्ततिभुवनानि कण्टकाः । तमोमिहमहामोहतामिस्रान्धतामिस्ररूपाः पञ्तविपर्ययाः । ऊहश्शब्दोध्ययनं दुःखत्रयविघातस्मुहृत्प्राप्तिर्दानं चेत्यष्टौसिद्धयः । आध्यात्मिकाः प्रकृत्युपादानकाल- भागाख्याश्च । तिस्रो विषयाः परमकृताबाह्याः पञ्चेति नवचतुष्टयः अन्धत्वमूक त्वादय एकादशेन्द्रियविधाः अनूहादयस्सप्तदशप्रगुक्तसिद्धिबुद्धि-विधाश्चेत्यष्टाविंश- तिशक्तयः इति पञ्चाशद्भावाः नाळसूत्राणि । अत्र कन्दनाळ दियोजनप्रमाणसमये मातान्तरं प्रदर्श्यते । निवॄत्तिकलात्मकं पृथिवीतत्वं पूर्ववच्छतकोटियोजनमेव। पृथिवीतत्वाद्दशगुणं जलं जलतत्वाद्दशगुणोवह्निः , वह्नितत्वाद्दशगुणो वायुः वायोर्दशगुणं व्योम, ततोदशगुणोऽहङ्काराद्दशगुणा बुद्धिः बुद्धे र्दशगुणं गुण तत्वम् । एवं गुणतत्वपर्यन्तं दशंसख्ययावृद्धिः । अतः परं मायातत्वपर्यन्तं शत सड्ख्यया वृद्धिः गुणतत्वाच्छतगुणा प्रकृतिः प्रकृतेश्शतगुणोरागः । रागाच्छतगुणा नियतिः नियतेश्शतगुणा विद्या। ततश्शतगुणा कला। ततश्शतगुणःकालः । ततश्शतगुणा माया। शुद्धाविद्येश्वरसदाशिवानां सहस्रसङ्ख्ययावृद्धिः मायायास्सहस्रगुणा शुद्धविद्या। शुद्धविद्यायास्सहस्रगुण ईश्वरः ईश्वरात् सहस्रगुणस्सदाशिव इति । ततो लक्षसङ्ख्ययावृद्धिः सदाशिवतत्वाल्लाक्ष्गुणा शक्तिरिति । ततश्शिव-तत्वमप्रमेयं । इदं च मतं प्रकृतेः पूर्वं गुणतत्वमङ्गीकृत्य प्रकृतेनन्तरं पुरुषतत्व-मनङ्गीकृत्य च प्रवृत्तम् । तथाचाहुः(श्लो)क्ष्मातत्वं शतकोटियोजनमपः प्रारभ्यगौणान्तकं पङक्त्या दद्गणनात्तथा प्रकृतितो मायावसानं शतात् । साहस्राच्च सदा शिवावधि ततश्श्क्त्यन्तकं लक्षत स्तस्योर्द्ध्वं सशिवोऽपमेयविभवो बिन्दोरधिष्ठायकःइति ॥ एवंसति नाळः कियद्योजनसंख्यो जात इति चेत असंख्ययोजन एव। तथाऽपि किञ्चित्प्रकारमारोप्य योजनसङ्खया प्रदर्श्यते एकत्वमारभ्य उत्तरोत्तरं दशगुणवृद्धौ क्रियंआणायां विंशतितमं स्थानंं परार्धसङ्ख्या । स सर्वान्तिमसङ्खया। विंशतेश्च स्थानानामेतानि नामानि। एकं दश शतं सहस्र मयुतं लक्षं प्रयुतं कोटिरर्बदं पद्मं खर्वं निखर्वं बृन्दं महापद्मं शङ्खो महाशङ्ख स्समुद्रो महासमुद्रो मध्यं परार्द्ध इति ॥ तथाचाहुः-एकं पङ्किशते सहस्रमयुतं लक्षं प्रपूर्वायुतं कोटिश्चार्बुदकञ्च पद्मक मथो खर्वं निखर्वं तथा । बॄन्दं चैव महासरोजमपरश्शङ्ख स्समुद्रोऽन्तिमो मध्यं चैव परार्धसं ज्ञक मिमां सङ्ख्यां विदुः पण्डिताः इति ॥ एवञ्च शतकोटि सङ्ख्या मेकत्वस्थाने निवेश्य जलतत्वादीनां सङ्ख्याक्रियते । शतकोटिर्नाम् पद्मसङ्ख्या। ततश्च पद्मयोजनं पृथिवीतत्वम् । एकयोजनं जलतत्वं , दशयोजनं तेज स्तत्वं , शतयोजनं वायुतत्वं , सहस्त्रयोजनं गगनतत्वं , अयुतयोजनमहङ्कारतत्वं , लक्ष्योजना बुद्धिः, प्रयुतयोजनं गुणतत्वं , कोटियोजनं ततः परं शतसंख्यया वर्द्धनीयत्वात् एकान्तरितसंख्याग्राह्या । यथा-प्रकृतिः पद्मयोजना, रागो निखर्वयोजनः, नियतिर्महापद्मयोजना, विद्यामहाशङ्खयोजना, कलासमुद्रयोजना, कालः परार्धयोजना इति । एवञ्च जलादिकालान्ततत्वसमुदायरूपो नाळो दशशत सहस्त्रायुत लक्षप्रयुत कोटिपद्म निखर्वमहापद्म महाश्ङ्खमहासमुद्रपरार्धाख्यत्रयोदशसङ्ख्यासमुदयसङ्ख्येय-योजनापरिमितोभवति। पद्मसङ्ख्याया मेकतत्वरूपता मनारोप्य परार्धाधिके सङ्ख्यासद्भावमारोप्य गणनेतु नाळः खर्व निखर्व बृन्द महापद्म शङ्ख महाशङ्क समुद्रमध्यदशगुणितपरार्ध सहस्रगुणितपरार्ध लक्षगुणितपरार्ध कोटिगुणिपरार्धरूप-त्रयोदशसङ्ख्यासमुदायसङ्ख्येयोजनोच्छ्रायो भवति ।नाळान्तर्गतानामपि भुवनाना माधारणं गन्धादिपञ्चक कर्मेन्द्रियपञ्चक ग्न्येन्द्रियपञ्चकमनसां पृथग्योजनसङ्ख्या नास्तीति मताश्रयाणां तेषु योजनसङ्ख्या नगणिता। अथ तेषामपि (भुवनाधारतय) पृथग्योजनसङ्ख्यामाश्रित्य मातान्तरं प्रदर्श्यते ॥
पद्मयोजनपरिमाणात् भूतत्वाज्जलादिमनोन्तानां विंशतेस्तत्वाना मुत्तरोत्तरं दशगुणा वृद्धिः । अहङ्कारबुद्ध्योश्शतगुणा । प्रकृतेस्सहस्रगुणा । पुरुषस्यायुत-गुणा। नियतिकालयोर्लक्षगुणा। रागविद्याकलानां दशलक्षगुणा। मायायाः कोटिगुणा। शुद्धविद्यायाः दशकोटिगुणा । ईश्वरस्य शतकोटिगुणा । सदाशिवस्य सहस्रकोटिगुणा शक्तेरयुतकोटिगुणा । शिवतत्वस्य नास्ति योजनसङ्ख्या इति। पुरुषमायामध्यवर्तितत्वानां पञ्चानामूर्ध्वाधरभावे क्रमभेदमाश्रित्येदं मतान्तरं प्रवृत्तम् । अस्मिन्मते क्षित्यादिमनोंतानि एकविंशतितत्वान्युत्तरोत्तरं दशगुणवृद्ध्या क्रमा देकदशश्त सहस्रायुत लक्ष प्रयुतकोट्यर्बुद पद्मखर्व निखर्व बृन्दमहापद्मशङ्कमहाशङ्ख समुद्र महासमुद्र मद्ध्य परार्ध दशपरार्ध योजनानि। अहङ्कारबुद्धी शत-गुणवृध्या क्रमात् सहस्रगुणित लक्षगुणित परार्धयोजने । प्रकृतिस्सहस्रगुण-वृद्ध्याऽर्बुदगुणितपरार्धयोजना। पुरुषस्ततोऽयुतगुणवृद्ध्याबृन्दगुणितपरार्धयोजनः । नियतिकालौ लक्षगुणवृद्ध्या क्रमात् महासमुद्रगुणितसहस्र परार्धगुणितपरार्धयोजनौ। रगविद्याकलास्तु दशलक्षगुणवृद्ध्या क्रमात् पद्मपरार्धगुणितमहाशङ्क परार्धगुणित-शत परार्धहतपरार्धगुणित परार्धयोजनाः । एवंचास्मिन्पक्षे जलादि कलान्त तत्व समुदायरूपो नाळो दशादिशतपरार्धाहृत परार्धगुणितपरार्धपर्यन्तैकोनत्रिं शत्संख्या- समुदाय संख्येय योजनापरिमितो भवति । अस्मिन्तत्ववृद्ध्याश्रयणेनप्रवृत्ते पक्षद्वयेऽपि नाळात् ग्रन्थेः पज्मस्य चातिदैर्घ्यं स्यात् । तथाहि-अत्र प्रथमपक्षे तावत् नाळान्तर्गतेषु तत्वेषु कालएकः परार्धयोजनः । कलातच्छतांशपरिमितैव । विद्या नियतिपूर्वकपूर्वतत्वानि तच्छतांशपरिमितानीति नाळः किञ्चिदधिकैकपरार्धयोजनः । मायारूपोग्रन्थिस्तु शतगुणितपरार्धयोजनः । कालाच्छतगुणत्वान्मायायाः पद्मं लक्षगुणितपरार्धयोजनम् । पद्मरूपायाश्शुद्धविद्याया मायापेक्षया सहस्रगुणितत्वा दित्थं पक्षान्तरेऽपि ग्रन्थिपद्मयोजनदैर्घ्यं स्यात् । एवं कन्दप्रभृति नाळापेक्षयाग्रन्थेः पद्म स्यच दैर्घ्यं न लौकिकपद्मच्छायानुकारि नवनाभिकन्दादिहृत्प्रदेशान्तर्हृत्पद्मच्छाया- नुकारि। अतः कलावृद्धिपक्षाश्रयणमेव शिवासनपद्मभावनाया मनुकूलम् ।इदञ्च कमलं अनन्तासनसिंहासन योगासन पद्मासन विमलासनरूप पञ्चासनगर्भम् । तत्र पृथिवीतत्वपरिमितकन्द एवाधारशक्तिः जलादि कालान्त तत्वपरिमितो नाळ एव तदुपरिस्थितपद्ममुकुळसहितस्सन् आधारशक्तिरूप क्षीरोदसमुत्थितफणामणि-मण्डलसहित भुजङ्गमाकृतिशालि विद्येश्वराष्टकान्तर्गतानन्तरुद्रैतदुभय मनन्तासु-मुच्यते नाळाद्यवधि जलतत्वप्रभृति गुणतत्वपर्यन्तं नाळं परितःस्थितं सिंहासनम्। तत उपरि ग्रन्थिपर्यन्तं योगासनम्। तदुपरि दळकेसररूपं पद्मासनम् । कर्णिकैव विमलासनम् । कर्णिकोपरिस्थितगुणत्रय मण्डलत्रायतत्वत्रयात्मकं वा यद्यप्यनन्तः सहस्रफणामण्डितः सर्पत्वेनोक्त इति तस्य भोगदण्ड एवोर्द्ध्वाकारस्थितो नाळः , सङ्कुचितं तत्फणामण्डलमेवात्र मुकुळं, नतु तद्व्यतिरेकेण पद्ममस्ति, तथाऽपि तदेव विकासध्यानदशाया मष्टदळपद्मरूपेण भावनीयंइति पद्मासनमुच्यते । यद्वावृत्ताकारं कोटिसूर्याभं सिंहासनादधस्थित मनन्तभोगिरूप मनन्तपङ्कजरूपं नाळा दन्यदेवानन्तासनं वृत्ताकारमुपर्यपरिस्थितानन्त वासुकि तक्षक कार्कोटक पद्म महापद्म शङ्खगुळिकाख्याष्टमहानागरूपं वा । अथवा एवमनन्तासनं भावनीयं सिह्मांसनस्याधस्तादृषसिह्मभूतकुञ्जराकार धर्मादिपादचतुष्टयस्य अधर्मादिफालकचतु-ष्टयस्य मञ्चस्योपरि फणपश्चकेन पुच्छेन च सहितःफणामद्ध्ये पुरुषाकारः क्षौ म- वस्रपरीधान स्सर्वाभरणभूषितः वराभयधरकरद्वयो नागराजः । तंपरितः पूर्वादिदिक्षु अनन्ताद्याः गुळिकान्ता एकफणाः कृताञ्जलिपुटा नागराजा ईक्षमाणा महानागाः नागरजस्यशिरसिप्रफल्लाष्टदळयुक्तं अनन्तपङ्कजमिति । अत्रादिमपक्षमेवावलंब्य शिवासनस्यार्चनाक्रमः प्रदर्श्यते।
हामाधारश्क्त्ये नमह शतकोटियोजनप्रमाणब्रह्माण्डाकारपृथिवीतत्वपरिमाण शिवासानपद्मकन्दरूपां धवळवर्णां पाशाङ्कुशाभयवरधारिणी माघारशक्तिं पूजयामि । अनन्तासनाय नमः । ज्लादिकलान्ततत्वपरिमाणनाळरूपं मायाग्रन्थिसहित मेका-दशसहस्रकोटियोजनोच्छ्रायंवा दशशतसहस्रायुत लक्षप्रयुत कोट्यर्बुद पद्मखर्वनिखर्व बृन्दमहापद्म शङ्खमहाशङ्खसमुद्र महासमुद्र् मध्यपरार्ध दशशतगुणितपरार्ध-सहस्रगुणितपरार्धलक्षगुणितपरार्धार्बुदगुणित बृन्दगुणितपरार्ध महासमुद्रगुणितपरार्ध सहस्रपरार्ध गुणितपरार्ध पद्मपरार्ध गुणित परार्धा गुणितपरार्ध महाशङ्खपरार्धगुणित-परार्ध शतपरार्धाहतपरार्धगुणितपरार्ध पद्मपरार्धाहतपरार्धगुणितपरार्धरूपत्रिंशत्स-ङ्ख्यागुणित पद्मसंङ्ख्यासमुदाय सङ्येययोजनोच्छ्रायं वातदुपरि सहस्रफणामण्डल-रूपाब्जमुकुळालंकृत मेकवक्त्रं चतुर्भुजं हृदये नमस्कारमुद्रासहित मनन्तरुद्ररूपम-नन्तासनं पूजयामि। हां शिवासनपद्मनाळकण्टकेभ्यो नमः । पृथिवीकन्दोद्गत-शिवासानपद्मनाळावयवेभ्यो जलादिकलान्तत्वाश्रितामरेशप्रभासनैमिशपुष्कराषा-डिण्डिमुण्डि भारभूतल शुद्धीश्वर हरिश्चन्द्र श्रीशैल जप्येश्वर आम्रातकेश्वर मद्ध्य-मेश्वर महाकाल केदार भैरव गया कुरुक्षेत्र नाखल कनकखल विमलेश्वर अट्टहास महेन्द्र भीमेश्वर अविमुक्त वस्रांपदरुद्रकोटि महाळय गोकर्ण भद्रकर्ण स्वर्णाक्षस्थाणु च्छगलण्ड द्विरण्ड महाकोट मण्डलेश्वर काळाञ्जन शङ्कुकर्ण स्थूलेश्वर स्थलेश्वर पैशाच राक्षस यक्षगन्धर्व ऎन्द्र सौ म्य प्राजापत्य ब्राह्माकृतकृत भैरव ब्रह्मवैष्णवकौ मार नाल श्रीकण्ठ वामदेव भीमोग्र भव ईशान एकवीर प्रचण्ड उमापति अज अनन्त एकशिव कोध चण्ड द्युति संवर्त शूर पञ्चान्तक एकवीर शिखेद नामधेय सप्ततिभुवनरूपान् कण्टकान्पूजयामि । हां सूत्रेभ्यो नमः । पञ्चविपर्यायाष्ट- सिद्धि नवतुष्ट्यष्टाविंशति शक्तिरूप पञ्चाशद्भावनामात्मकानि शिवासनपद्मनाल सूत्राणि पूजयामि॥
एवमनन्तासनात्मकनालपूजानन्तरं नाळं परितः स्थितं सिह्मसनं योगासनञ्च पूजयेत्। हां धर्माय नमः । शिवासनस्याग्नेयकोणे पादरूपं सिंहाकारं जलदिगुणतत्वपर्यन्तोन्नतं आग्नेयाभिमुखं विवृतास्यं परिवृत्तकन्धरं वायव्यकोणसिंहावलोकिनं कोटिसिंहपरिवारितं कर्पूवर्णं धर्म पूजयामि । हां ज्ञानाय नमः । शिवसिंहानस्य नैर् ऋतकोणपादरूपं सिंहाकारं जलादिगुणपर्यन्तोन्नतं नैर् ऋताभिमुखं विवृतास्यं परिवृत्तकन्धरं ईशानकोणसिंहावलोकितं कोटिसिंहपरिवारितं कुङ्कुमवर्णं ज्ञानं पूजयामि । हां वैराग्याय नमः । शिवसिंहासनस्य वायव्यकोणपादरूपं सिंहाकारं जलादिगुणतत्वपर्यन्तोन्नतं वायव्याभिमुखं विवृतास्यं परिवृत्तकन्धर माग्रेय कोणसिंहा वलोकिनं कोटिसिंहपरिवारितं सुवर्णवर्णं वैराग्यं पूजयामि । हामैश्वर्याय नमः । शिवसिंहासनस्येशानकोणपादरूपं सिंहाकारभैशानभिमुखं जलदिगुणतत्वपर्यन्तोन्नतं विवृतास्यं पूर्ववृत्तकन्धरं नैर् ऋतकोणसिंहावलोकिनं कोटिसिंह्मपरिवारितं मेघवर्णमैश्वर्यं पुरुषाकारं दक्षिणशिरसमुत्तरपाद मधोमुख मधर्मं पूजयामि। हामज्ञानाय नमः। शिवसिंहासनस्य दक्षिणफलकरूपं श्वेतरक्तवर्णं पुरुषाकारं पूर्वशिरःपश्चिमपादं अधोमुखमज्ञानं पूजयामि । हां अवैराग्याय नमः । शिवसिंहासनस्य पश्चिमफलकरूपं रक्तपीतवर्णं पुरुषाकारं उत्तरशिरसं दक्षिणपाद मधोमुख मवैराग्यं पूजयामि। हामनैश्वर्याय नमः । शिवसिंहासनस्य उत्तरफलकरूपं पीतकृष्णवर्णं पुरुषाकारं पश्चिमशिरसं पूर्वपाद मधोमुख मनैश्वर्यं पूजयामि। तदन्तरं हां शिवसिंहासनाय नमः इतिसमस्तं सिंहासनं संपूज्य योगासनं पूजयेत्।
तस्य श्वेतरक्तपीतकृण्णवर्णानि भूतरूपाणि कृतत्रेताद्वापरकलियुगान्याग्नेयादि पादत्वेन अव्यक्तनियतिकलाकालान् स्फटिककाळमेघदाडिमीपुष्पभिन्नाञ्जनवर्णान्पूर्वादिफलकत्वेन चाभ्यर्च्य हां शिवयोगासनमध्यफलकरूपाय श्रीमहविष्णवे नमः इति मध्ये नीलवर्ण्ं त्रिणेत्रं शङ्खचक्रवराभयकरं विष्णुं पूजयेत् । ततो रजोगुणा-रुणाय तमोगुणतूलभरितायंआयारूपाय अधश्छदाय नमः। इति योगासनस्य ऊद्धवं मेखलायाअधोभागप्रसारितं शयनीयरूपमधश्छदनं नैर् ॠतकोणे संपूज्य । हां सत्वगव्रणधवलिताय शुद्धमायारूपोद्ध्र्वच्छदनाय नमः। इति मेखलाया उपरि शयनीयोत्तरच्छदनरूप मूर्द्ध्वच्छदनं नैर् ऋतकोणेच संपूज्य हां शिवयोगासनायनम इति समस्तं योगासनं पूजयेत्। योगासनविमलासने विना त्र्यासनात्मकमेव शिवासनमिति पक्षे शिवासनमेव मायाग्रन्थिपर्यन्तोन्नतं भावयित्वा तत्पादफलकार्च-नानन्तर माग्रेयादिकोणेषु स्थित तदीयफलकद्वय सन्धानकीलत्वेन कृतयुगादिचतुष्टय मभ्यर्च्य तन्मध्ये फलकत्वेनैव श्रीमहाविष्णुं पूजयित्वाऽधश्छदनमूर्द्ध्वच्छदनञ्च पूजयेत् । ततोऽनन्द्तफणामण्डलरूपं पद्ममुकुळं विकसितं भावयित्वा तस्य दळकेसरा नर्चयेत्। हां शिवासनपद्मदळेभ्योनमः । अष्टविद्येश्वररूपाणि धवळवर्णानि शिवासनपद्मस्य दळानि पूजयामि । हां केसरेभ्यो नमः । मूले सुवर्ण-वर्णानि मद्ध्ये विद्रुमवर्णानि मुक्ताफलाकृतिशिरोलङ्कृतानि चतुष्षष्टिकलारूपाणि
वामादिशक्तिसहिताष्टरुद्ररूपाणिवा केसराणा मष्टरुद्ररूपत्व-पक्षे अष्टावष्टौ केसराण्येकैकरुद्रत्वेन भावनीयानि । अथवा फणारूपदलसहस्र-युक्तस्य अनन्तपङ्कजस्य केसराण्यपि सहस्रं सन्ति। तानि सर्वाणि पञ्चविंशत्युत्तर-शतसङ्ख्य्याऽष्टधा विभज्य वामाद्यष्टरुद्ररूपेण पूजनीयानि। कर्णिकासहितान्यष्टावे-ववा केसराणि तथा पूजनीयानि। अयं न्यायोऽष्टविद्येश्वररूपतया पूजनीयेषु दळेष्वपि योजनीयः हां कर्णिकायै नमः विमलां शक्तिरूपां कनकवर्णां शिवासन-पद्मकर्णिकां पूजयामि। हां बीजेभ्योनमः । वामादिनवशक्तिरूपाणि वा पञ्चाशद्वर्ण-रूपाणि वा शिवासनपद्मकर्णिकाबीजानि पूजयामि। ततस्सर्वावयवयुक्तं पद्मं विभा-व्य हां पद्मासनाय नमः इति संपूज्य हां पद्ममुद्रायै नमः इति पद्ममुद्रां प्रदर्शयेत्। ततः पूर्वादिप्रादक्षिण्येनाष्टस्वष्टसु केसरेषु वामादीरष्टौ शक्तीरेकैकाशः पूजयेत्। वामायै नमः ज्येष्ठायैनमः। रौद्रयै नमः काल्यै नमः कलविकारिण्यैनमः । बलविकारिण्यै नमः । बलप्रमथिन्यै नमः सर्वभूतदमन्यै नमः । अरुणवक्त्रा श्चामरधारिणी श्शिवासनन्यस्तैकहस्ता शिशवाभिमुख्येन केसरेषु स्थिता वादिशक्तीः पूजयामि। मनोन्मन्यै नमः । स्फटिकवर्णं पाशाङ्कुशाभयवरधारिणीं शिवासनपद्म कर्णिकायामीशानदिशि मध्ये ईशानदिशि वा स्थितां मनोन्मनीं पूजयामि । तत स्साधिपतिकानि सूर्यसोमाग्निशक्तिमण्डलान्युपर्युपरि पूजतेत्। हां सूर्यंअण्डलाय नमः । कोटिसूर्यप्रतीकाशं शिवपद्मासनदळाग्रव्यापकं सूर्यंअण्डलं पूजयामि । हां सूर्यंअण्डलाधिपतये ब्रह्मणे नमः । पञ्चमक्त्रं चतुर्बाहुं प्रतिवक्त्रं त्रिलोचनम् । तप्त-चामीकराभासं नमोमुद्रासमन्वितम्। सृष्टिकारण कारणमात्मतत्वरूपिणं सूर्य-मण्डलाधिपतिं ब्रह्माणं पूजयामि । हां सोममण्डलायनमः । शिवासनपद्मकेसराग्र-व्यापकं कोटिशीतांशुशीतळं सोममण्डलं पूजयामि। हां सोममण्डलाधिपतये विष्णवे नमः । मेघश्यामं शङ्खचक्रनमस्कारमुद्रान्वितकरचतुष्टयं स्थितिकारण कारणं सोममण्डलाधिपतिं विष्णुं पूजयामि । हां अग्निमण्डलाय नमः । शिवासन-पद्मकर्णिकाग्रव्यापकं वह्निमण्डलं पूजयामि। हां वह्निमण्डलाधिपतये रुद्रायनमः। माणिक्कवर्णं शूलानलनमोमुद्रान्वितकरचतुष्टयं लयकारण कारणं शिवतत्वरूपिणं वह्निमण्डलाधिपतिं रुद्रं पूजयामि। विमलासनं कर्णिकाव्यतिरिक्तमिति पक्षे आग्रेयद्यैशानान्तं गुणत्रयं दक्षिणाद्युत्तरान्तं मण्डलत्रयं नैऋत्यादिवायव्यान्तं तत्वत्रयञ्च पूजयित्वा हां विमलासनाय नमः इति समस्तमिदं विमलासनं पूजयेत्॥
तदनन्तरं मध्ये हां शक्तिमण्डलाय नमः। धवळवर्णं मण्डलत्रयव्यापक मिच्छाशक्तिरूपशक्तिमण्डलं पूजयामि । हां शक्तिमण्डलाधिपतये महेश्वराय नमः।स्फटिकवर्णमष्टहस्तं खड्गत्रिशूलबाणाक्षमाला कमण्डल्वभयकरारविन्दधारिणं शक्तिमण्डलाधिपतिं महेश्वरं पूजयामि । ततस्समस्तं शिवासनं विभाव्य तदुपरि हां शिवासनायनम इति ज्ञानशक्त्यात्मकं शिवासनं पूजयेत् । अस्यामासनपरंपराया माधारशक्तिमात्मार्थपूजायां ब्रह्मशिलास्थानीये पद्मपीठे पूजयित्वाऽनन्तभृति शक्ति-मण्डलान्तं लिङ्गवेदिकाया मुपर्युपरि लिङ्गनाभिपर्यन्तं पूजयेत्। एवं प्रत्येकं शिवासनावयवपूजनाशक्तौ साङ्गोपाङ्ग शिवासनं विभाव्य हां शिवासनायनम इत्येवं पूजयेत्। अयंअनेकासनगर्भसिवासनार्चनप्रकारः यद्वा-आवाहने पद्ममनन्तं स्नाने विमलमर्चने योगासनं नैवेद्ये वस्रादिष्वन्येषुपचारेषु सिंहासनञ्च कल्पयेत्। अथवा सिह्मासनं स्नाने अनन्तं वस्रे पद्ममाभरणगन्धपुष्पेषु विमलं नैवीद्ये योगमन्योप-चारेषुच कल्पयेत् । एवं शिवासनं संपूज्य हां हं हां शिवमूर्तयेनम इति लिङ्गनाभेर्महेश्वरतत्वात्मिकां शिवस्य मूर्ति स्थिरविद्युन्निभां दण्डाकारा मविभक्तावयवां संपूज्य लिङ्गदैर्घ्य होमीशानमूर्ध्ने नम इत्तत्स्थानेष्वष्टत्रिंशत्कला न्यसेत् । शूद्रश्शशिन्यादिशक्तीरेव न्यसेत् । ततश्श्रीकण्ठादिन्यासञ्च विद्ध्यात् । एवं सदाशिवदेह-सिद्ध्यर्थं न्यासान्कृत्वा हां हौं विद्यादेहायनम इति विभक्तावयवं सदाशिवं विद्यादेहं पूजयित्वा तत्स्वरूपं प्रपञ्चेन ध्यायेत् ॥
क्षित्यादिशुद्धविद्यान्ते कन्दनाळदळैर्युते ।
कर्णिकाकेसरैर्युक्ते सूर्यबिंबादि-भूषिते ॥
ईश्वरान्तिकया मूर्त्या स्थिरविद्युत्प्रकाशया ।
अविभक्तावयवया भ्राजमा-नोपरिस्थले ॥
क्षित्यादीश्वरतत्वान्ते मूर्त्याकथितया सह ।
नानापट्टकुटीकोटीयोजनोन्नतशालिनि ।
पद्मेस्थितं महापद्मकोटियोजनसंमितम् ।
बद्धपद्मासनासीनं समुपासेत्सदाशिवम् ॥
यद्वा कूटाङ्गकोटी कटकनटनटीं नाट्य नव्यान्नपान
ध्याना विद्यानकानीनकमितशतकोट्युन्नतैर्योजनौघैः।
तेजोमूर्त्यन्तकन्दप्रभृतिषु दशधा सप्तधाच प्रभिन्नैः
सङ्ख्यातव्यप्रमाणै स्सरसिरुहवरे योगपीठे निषण्णम्॥
दशोत्तरप्रयुतपरार्ध-योजनां विवृद्धकाविषयपरार्धयोजनां ।
समुन्नातिं समुपगतं समाश्रये सदाशिवं सरसिरुहासने स्थितम्॥
पद्मं कन्देऽथ नाळे क्रमिकदशगुणा विंशतौ तस्य वृद्धि
र्येकैकद्वित्रिषुस्या च्छतमुखदशलक्षान्तभङ्ग्याऽथ वृद्धिः ।
ग्रन्थौ कोट्याथ पद्मप्रभृतिषु दशकोट्येति संख्याभिराभिः
संख्यातै र्योजनौघै र्महिमजुषि महायोपीठे स्थितं वा॥
तदुपरि शतकोटियोजनौघ
प्रथित महेश्वरतत्वमानमूर्तेः ।
लसितमुपरि तत्सहस्रकोट्या
तदयुतकोटिदिशाच वृद्धिभाजम् ॥
पञ्चवक्रं दशभुजं प्रतिवक्त्रं त्रिलोचनम्।
दक्षिणे शूलवज्रासिपरश्वभयंउद्रिकाः ॥
वामेच दधतं नागपाशघण्टानलङ्कुशान्।
अथवा वरखट्वाङ्गशूलाभीपञ्चकम्॥
रुचकं डररुं सर्पं नीलाम्भोजाक्षमालिकाम्।
अस्योर्द्ध्ववक्त्रं देवस्य बालभावमनोहरम्॥
प्रसन्नमूर्द्ध्वाभिमुखं निर्मलं स्फटिकप्रभम्।
पूर्ववक्त्रं महेशस्य निष्टप्ताष्टापदप्रभम् ॥
गर्वेण स्तिमितं सौ म्यं संप्राप्तनवयौवनम्।
दक्षिणं वदनं शंभोर्नीलाञ्जनचयप्रभम्॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयं ।
दंष्ट्राकराळं दुर्धर्षं स्फुरिताधरपल्लवम् ॥
चन्द्रापीडज्वलत्केशं विसलत्प्रौढयौवनम्।
उत्तरं वक्त्र मीशस्य नवविद्रुमसुप्रभम् ॥
ललाटतिलकोपेतं नीलाळकविभूषितम् ।
प्रलोभनं त्रिनयनं चन्द्राभरणभास्वरम्॥
पार्वतीवदनाकारसलीलभ्रुलतान्वितम्।
पश्चिमं चण्डसङ्काशं नृपलक्षणलक्षितम् ॥
चन्द्रावतंसरुचिरं ध्यानस्तिमितलोचनम् ।
इति ध्यात्वा पुनरपि ध्यायेद्देवं सदाशिवम्॥
इच्छाज्ञानक्रियारूपविलसल्लोचनत्रयं॥
ज्ञानचन्द्रकालचूडं दशदिग्बाहुमण्डलम् ।
पञ्चब्रह्मात्मवदनं पञ्चसादाख्यवक्त्रकम् ॥
श्रीमत्पञ्चाक्षराकारवदनांसोरुशोभितम् ।
समस्ततन्त्ररूपं च वर्णब्रह्मकलामयं ॥
निवृत्या जानुपर्यन्त मानाभेश्च प्रतिष्ठया॥
आकण्ठं विद्यया सिद्ध माललाटं तु शान्तया।
तदूर्द्ध्वं शान्त्यतीताख्यकलया परिकल्पितम् ॥
एवं पञ्चकलारूप मिदं सादशिवं वपुः॥
चतुर्मुखी तटिद्वर्णा निवृत्तिर्वज्रधारिणी ।
एकवक्त्रा शशाङ्काभा प्रतिष्ठा पद्मधारिणी ॥
अग्निवर्णा त्रिवदना विद्या शक्तिलसत्करा।
कृष्णवर्णा चतुर्वक्त्रा शान्तिर्ध्व जविधारिणी।
पाशभॄत्पञ्चवदना शान्यतीता शशिप्रभा।
सर्वाः पद्माक्षमालाभ्या मभयेन विराजिताः॥
चतुर्भुजा स्त्रिणेत्राश्च पीनोन्नतपयोधराः ।
आसां पश्चाध्वगर्भत्वात् षडध्वात्मा सदाशिवः ।
मन्त्राध्वाज पदाध्वाच वर्णाध्वा भुवनाध्वकः ।
तत्वाध्वा च कलाध्वा च षडध्वान इमे मताः ॥
चतुर्विंशत्युत्तरं यद्भुवनानां शतद्वयं ।
भुवनाध्वा स सञ्चिन्त्यो रोमबून्दात्मना विभोः॥
पञ्चाशद्रुद्ररूपैस्तु वर्णे र्वर्णाध्वकल्पना ।
असौ त्वगात्मना चिन्त्यो देवदेवस्य शूलिनः ॥
रुधिरात्मा तु मन्त्राद्ध्वा विचिन्त्यः पार्वतीपतेः ।
पदाध्वा चिन्तनीयस्स्यात् सिरामांसतया प्रभोः ॥
पृथिव्यादीनिषट्रिं त्रशत् तत्वान्यागमवेदिभिः ।
उक्तान्यंईभिस्तत्वाध्वा शुक्लमज्जास्थिरूपभृत्॥
नास्य देहेऽस्थि रुधिरं न मांसं नास्तिकिञ्चन ।
प्रतिबिम्ब मिवादर्शे शक्रचापमिवांबरे॥
ज्योतिर्मयतया सिद्ध मिदं सादाशिवं वपुः ।
तथाऽपि कल्पनामात्रं कलावाऽप्यध्वनामिदम्॥
ब्रह्मस्वीशेन मूर्धानं पुरुषेण चतुर्मुखीम् ।
हृदयादीन्यघोरेण गुह्यादीनि तु वामतः ॥
सद्योजातेनतु ध्यायेत् पादादीनि जगत्पतेः।
पञ्चवक्त्राः स्मृतास्सर्वे दशदोर्दण्डभूषिताः ॥
खड्गखेडधनुर्बाणकमण्डल्वक्षसूत्रिणः ।
वस्राभयोपेतकरा श्शूलपङ्कजपाणयः ॥
अघोरो घोर एतेषु तदन्ये सौ म्यविग्रहाः।
एवं ध्यात्वा सदेशस्य पञ्चब्रह्मात्मतां विभोः।
तत्तद्बूह्मकलाभेदे र्विचिन्त्याङ्गानि कल्पयेत् ।
ईशानस्य कलाः पञ्च मूर्द्धात्मकतां गताः ।
चतुर्मुखतया ध्येया श्चतस्रः पुरुषस्य ताः ।
अष्टावघोरस्य कला स्समस्ता जगतीपतेः॥
हृत्कण्ठोऽम्सौ नाभिकुक्षी पृष्ठं वक्ष इतीरिताः ।
वामदेवस्य तु कलास्रयोदशशिवोदिताः ।
जुह्योरुजानुजङ्घास्फिक्कटिः पार्श्वे तथा मताः ।
सद्योजातस्यतु कला वसुसंख्याः प्रकीर्तिताः ।
पादौ करौ नासिके च शिरोबाहू च ता मताः।
अष्टत्रिंशत्कला देवाः तिणेत्राश्च चतुर्मुखाः ॥
वराभयपरश्वेणविलसत्करपङ्कजाः।
तत्तद्बाह्यसमाकारवर्णायुधभृतोऽथवा॥
एतेषां वामभागेषु शशिन्याद्याश्च शक्तयः ।
पाशाङ्कुशाभयवरै र्ध्यातव्यास्सुस्मिताननाः ॥
श्रीकण्ठप्रमुखान्रुद्रान्वर्णरूपान्सशक्तिकान् ।
प्रभोरवयवान्ध्यायेत्न्यासविन्यासवर्त्मना ॥
स्मरेत्सशक्तिकान् रुद्रा नर्धनारीश्वराकृतीन्॥
सिन्दूरकाञ्चनप्रख्य वामदक्षिणपार्श्वकान् ॥
पाशाङ्कुशाक्षवलय वरमुद्राविराजितान् ।
प्रसन्नवक्त्रकमला न्विश्ववाच्छितदायकान्।
कामिकं पादकमलं योगजं गुल्फयो र्युगम् ।
चिन्त्यं पादाङ्गुळीरूपं कारणं प्रसृतिद्वयं ॥
अजितं जानुनोर्युग्मं दीप्तमूरुद्वयं विभोः ।
गुह्यबीजात्मकं सूक्ष्मं सहस्रंभ्रुकुटीतटम् ।
पृष्ठभार्गोऽशुमानस्य नाभिश्रीसुप्रभेदकम् ।
विजयं जठरं प्राहुर्निश्वासं हृदयात्मकम् ।
स्वायंभुवं स्तनद्वन्द्व मनलं लोचनत्रयं ।
वीरागमः कण्ठदेशो रौरवं श्रवणद्वयं ।
मकुटं मकुटं तन्त्रं बाहवो विमलागमः ।
चन्द्रज्ञान मुरश्शंभो र्बिम्बं वदनपङ्कजम् ।
जिह्वा प्रोद्गीत मीशस्य लळितं गण्डयोर्द्वयं ।
सिद्धं ललाटफालकं सन्तानं कुण्डलद्वयं ॥
यग्न्योपवीतं शर्वोक्तं हारस्रक्पारमेश्वरम्।
किरणं रत्नभूषास्य वातुलं वसनात्मकम् ।
एवं तन्त्रात्मकं रूपमीश्वरस्य विचिन्त्येत् ।
शिवज्ञाजप्रदं पुंसां शिवधर्मप्रवर्तकम् ।
विशुद्धशिवसादाख्यं विद्युदृन्दमिवांबरे।
विश्वतत्स्फुरितज्योति र्विद्यादूर्द्ध्वं मुखं विभोः ॥
अमूर्ति मथ सादाख्यं मूलस्तम्भ इति श्रुतम् ।
ज्योतिस्तम्भमयं लिङ्गं स्मरेदस्योत्तरं मुखम् ।
ज्योतिर्ल्लिङ्गैकभागोत्थमेकवक्त्त्रं त्रिलोचनम्।
मूर्तिसादाख्य मित्युक्तं ध्यायेत्पश्चिममाननम् ॥
शूलञ्च परशुं वज्र मभीतिं दक्षिणैः करैः।
पाशं वह्निञ्च घण्टाञ्च वरं वामैः करैरपि ॥
दधानं कर्तृसादाख्यं चतुर्वक्त्रांबुजोज्वलम्।
लिङ्गमध्ये समुद्भुतं संस्मेरद्दक्षिणाननम् ॥
पञ्चवक्त्रं दशभुजं पीठं लिङ्गे समुद्गतम् ।
प्रसिद्धं कर्तृसादाख्यं पुरारेःपूर्वमाननम् ॥
पञ्चब्रह्माण्यूर्ध्वपूर्वदक्षिणोत्तरपश्चिमान् ।
वक्त्रपद्मान्विभोर्ध्यायेदीशानप्रभृति क्रमात् ॥
हृदयं हृदये शुभ्रं शिरश्शिरसि पिङ्गळम् ।
शिखां शिखापदे रक्तां कवचं पार्श्वयोः स्थितम्॥
नेत्रेतु श्यामळं नेत्रं करेऽस्र मसितं स्मरेत् ।
चतुर्भुजास्रिणेत्राश्च जटामकुटमण्डिताः ॥
वराभये कपालञ्च शूलश्च दधतं करैः।
अङ्कदेवाःस्मृतास्सौंयनेत्राग्रेतूग्रविग्रहे ।
त्रिशूलस्त्रिगुणः प्राहुः परशुस्सत्यनिष्ठिताः ।
खड्गप्रतापोवज्रश्च शंभोश्शक्तिरभेद्यता।
वह्नेस्संहारिणी शक्तिश्शक्तिर्नागे प्रधृष्यता ॥
मलमाया कर्मपाशो घण्टानादस्वरूपिणी अभयं
पालिनी शक्ति र्नियंअंत्वंकुशं विदुः।
इच्छाज्ञानक्रियारूपा स्त्रिशूलं शक्तयोमताः ।
उक्ता स्ताएव खट्वाङ्गं शुद्धतत्वप्रवर्तिकाः ॥
बीजपूरमिति प्रोक्ता जगद्बीजप्रवर्तिका।
डमरुक्षोभसंपन्नमायातत्वप्रवर्तिका ॥
काकोदरः कला मुख्या कार्यजातप्रवर्तिका।
मनः प्रवर्तिकाशक्तिरिन्दीवरतया मता॥
अक्षमालातु सा ग्न्येया इन्द्रियाणां प्रवर्तिका।
शक्त्यायुधात्मिका शक्ति र्दुष्टसंहारकारिणी ॥
वरो भोगप्रदा शक्ति रभयं मोक्षदायिका।
इत्थं दशायुधधरं कोटिशीतांशुशीतळम् ।
द्वात्रिंशल्लक्षणोपेतं सर्वाभरणभूषितम् ।
पडूत्यङ्गुळपरिच्छिन्नजटामकुटमण्डितम् ॥
तत्सव्यकोटिविन्यस्तत्र्यङ्गुळार्धेन्दुशेखरम् ।
तद्वामकोटिविश्रान्तबिंद्वाकृत्यंअरापगम् ॥
त्रिपुण्ड्रार्धेन्दुभूयन्त्रदीपचन्द्राकृतिं क्रमात् ।
ईशानद्यै र्मुखं पुण्ड्रान्धारयन्तमजांतिमैः।
ध्यायेत्तद्वामभागेतु दिव्यरूपां मवोन्मनीम् ।
जपाकुसुमसङ्काशां शुभ्रवस्रविभूषिताम् ।
सर्वाभरणसंपूर्णां पीनोरुजघनस्तनीम् ।
सहस्रपद्मनीलाब्जवरदाभयधारिणीम् ।
एवं मनोन्मनीयुक्तं साक्षाद्देवं सदाशिवम् ।
लिङ्गेऽपि भावयन्नग्रे लिङ्गबुर्द्धि परित्यजेत् ।
नेत्रत्रयेषु विन्यस्य हौं नेत्रेभ्य इति क्रमात् ।
आवाहयेत्परशिवं सदैवं हृदयांबुजे॥अथावाहनक्रमः -
अप्रमेय मनिर्देश्य मनुपम मनामयं ।
सूक्ष्मं सर्वगतं नित्यं ध्रुव मव्यय मीश्वरम् ॥
भवन्तं भवताऽऽदिष्टो मन्त्रेणाभिनमाम्यहम् ॥
इति विज्ञाप्य ऋजूर्द्ध्वकायो मनश्चक्षुर्निरोधनपूर्वक मिडया वायुमापूर्य कुंभकं कृत्वा हॄदि पुष्पसंपूर्ण मञ्जलिं निधाय द्दढमावाहनमुद्रां बद्धवा स्वशरीरे मूलाधारस्थितं मन्त्रमयं परमशिवं ज्योतिस्समाकृष्य मूलाधारप्रभृति स्थितं हकार मतिलङ्घ्य हृदय-पर्यन्तं नीत्वा हृत्कण्ठताल्वदिस्थानस्थित पृथिव्यादिपाशजालब्रह्मादिकारणेश्वर-सहिताकारदिद्वादश्कलाश्च क्रमेण तत्तदनुसन्धानपूर्वक मतिलङ्घ्य द्वादशान्तपर्यन्त-मुच्चारयन्नेव पुष्पाञ्जलिमपि द्वादशान्तपर्यन्तंनीत्वा मन्त्रमयं ज्योतिर्द्वादशान्तस्थित-प्रमशिवेन संयोज्य अविश्रन्तं परमामृतस्यन्दिबिन्दुरूपं तत आनीय भ्रूमध्यगत-शिवमण्डरविश्रन्तं शिववण्डरविश्रान्तं संभाव्य शरदिन्दुसहस्रवद्भाव्य हृद्देशेऽञ्जलिं धारयन् वायुमपि पिङ्गळया विरेच्य वायुना सह परमशिवं ज्योतिः पुष्पाञ्जलिमध्यप्रापितं विभाव्य हां हौं शिवायनम इति सदाशिवस्य ब्रह्मरंध्रे योजयेत् उक्तार्थविशदीकरणाय मूलमन्त्र तदीयहकार तत्कलाद्वादशस्थानानि प्रदर्श्यन्ते ॥
यद्देहमध्यस्थानं मूलाधारं ततः प्रभृति ब्रह्मरन्ध्रपर्यन्तं ताळचतुष्टयप्रमाणं देहान्तर्गतम् । ततऊर्द्ध्वं तालप्रमाणं शिखास्थानम् । तत्र मूलाधासस्थितचतुर्दळकमलकर्णिकायां प्रासादमन्त्रस्योत्थानम् । ततः प्रभृति नाभिपर्यन्तं मृणाळसूक्ष्मेविद्युत्प्रभो हकारः । नाभेरूर्द्ध्वं द्वादशाङ्गुल-पर्यन्तं विद्युद्दयुति रकारयुक्तो हकारः ततः पञ्चचतुरङ्गौलप्रमाणं हृत्पद्मम्। तत आरभ्य शिखाग्रपर्यन्तं द्वादशकलास्थानानि । तत्रचतुरङ्गुल व्याप्तिमानौकार स्त्रिमात्र-स्समूढाङ्गारपुञ्जद्युतिः । सच निवृत्तिकलया पृथिव्यादिप्रकृत्यन्तैः चतुर्विंशतितत्वैश्च सहितेन ब्रह्मणाऽधिष्ठितः तदूर्द्ध्वं कण्ठस्थानस्थिताष्टाङ्गुलप्रमाणा षोडशदळपद्म व्याप्तिमा नूकारः द्विमात्र स्समसमयसमुदितचन्द्रसूर्यद्युतिः । स प्रतिष्ठाकलया पुरुषादिकालान्तैष्षड्भिस्तत्वैश्च सहितेन विष्णुनाऽधिष्ठितः । तदूर्द्ध्वंतालृमूलस्थित-चतुरङ्गुलप्रमाणचतुर्दलपद्मव्याप्तिमान्मकारः एकमात्रो विद्युद्वर्णः । स विद्याकलया मायातत्वेनच सहितेन रुद्रेणाधिष्ठितः । तदूर्द्ध्वं भ्रुमध्यस्थितद्व्यङुलप्रमाणद्विदल-पद्मव्याप्तिमा न्बिन्दुबृत्ताकारोऽर्द्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्वाभ्याञ्च सहितेन महेश्वरेणाधिष्ठितः । तदूर्द्ध्वं भ्रुमध्यस्थितद्व्यङ्गुलप्रमाणद्विदल-पद्मव्याप्तिमा न्बिन्दुबृत्ताकारोऽर्द्धमात्रो विद्युद्वर्णः शान्तिकलया शुद्धविद्येश्वरतत्वाभ्याञ्च सहितेन महेश्वरेणाधिष्ठितः । तदूर्द्ध्वं ललाटमध्ये अर्धमात्रा ऊर्द्ध्वाग्रा अर्धचन्द्राकृतिः पादमात्रा चन्द्रवर्णा । तदूर्द्ध्वं ललाटे निरोधी । सचोर्ध्वाग्रत्रिकोणाकृति रष्टांशमात्रो धूम्रवर्णः तदूर्द्ध्वं शिरसि नादः सदण्डाकृति रुभयतो-बिन्दुद्वययुक्तः षोडशांशमात्रो माणिक्कवर्णः ततो ब्रह्मरन्ध्रे नादान्तः स दक्षिणामुखहलाकृतिः दक्षिणपार्श्वस्थबिन्दुयुक्तः द्वात्रिंशात्ममात्रो विद्युद्वर्णः । एवं बिन्दुस्थानात् भ्रूमध्या दैकादशाङ्गुलीस्थतब्रह्मरन्ध्रपर्यन्ते स्थाने स्थिताना मर्धचन्द्रनिरोधिनादनादान्तानां चतुर्णामपि शान्त्यतीतकला सदाशिवतत्वाभ्याञ्च सहित स्सदाशिव एवाधिष्ठाता। ब्रह्मरन्ध्रादूर्द्ध्व मेकाङ्कुलस्थानस्थिता शक्ति स्सर्वमुखहलाकृति र्वाम पार्श्वस्थबिन्दुसहिता चतुष्षष्ट्यं शमात्रा । ततः त्र्यङ्गलस्थाने स्थिता व्यापिनी त्रिशूलाकृति र्दक्षिणपार्श्वस्थबिन्दुसहिताऽष्टाविंशत्यधिकशतांशमात्रा। तदूर्द्ध्वं चतुरङ्गुलसमानबिन्दुद्वयान्तर्गतकुब्जरेखायुगलान्तरालस्समञ्जु रेखामधिषट्पञ्चाशदधिक द्विशततमांशमात्रा तदूर्द्ध्वं चतुरङ्गुलस्थितोन्मनीबिन्द्वधिष्ठानकतदूर्ध्वप्रसृत दण्डाकाररेखात्मिका मनोमात्रा। अत्र ब्रह्मरन्ध्रदूर्द्ध्व मेकत्रिचतुरङ्गुलक्रमेण द्वादशाङ्गुलपर्यन्तशिकास्थाने उपर्युपरि स्थिता श्शक्तिव्यापिनी स्समनोन्मनी श्शतकोटि सूर्यप्रभाः अनाहतशिवेनाधिष्ठिताः। ताश्च चतस्रोऽपि मिळिताः परमाकाशा उच्यन्ते। एवमकारश्चतुरङ्गुलः । उकारोऽष्टाङ्गुलः । मकारश्चतुरङ्गुलः । बिन्दुर्द्य्ंगुलमर्धचन्द्र निरोधि नादनादान्ता एकादशाङ्गुळं शक्ति व्यापिनी समनोन्मना द्वादशाङ्गुळ्व्याप्नुवत्येकचह्त्वारिंशदङ्गुलं द्वादशानामपि कलानां व्याप्तिस्थानम् । ततश्च मूलाधारात् द्वादशान्तपर्यन्तमुक्तमानेषु तत्तत्स्थाने हकारमकारयुक्तहकार मौकारमूकारं वृत्ताकारं बिन्दु मूर्द्धाग्रार्धवृत्ताकार मर्धचन्द्र मूर्ध्वत्रिकोणाकारं निरोधिनं बिन्दुद्वय-मध्यगतदण्डाकारं नाददक्षिणपार्श्वस्थित बिन्दुसहितोर्ध्वाग्र दक्षिणामुखहलाकारं नादान्तं वामपार्श्वस्थितबिन्दुसहितोर्ध्वाग्रवाममुखहलाकारं शक्तिं दक्षिणपार्श्वस्थितां बिन्दुसहितोर्ध्वाग्रत्रिशूलाकारां व्यापिनीं बिन्दुद्वयान्तरालगतकिब्जरेखाद्वयंअध्यस्थित-ऋजुरेखाकृतिं समानां बिन्द्वधिष्ठानकोर्ध्वाग्रऋजुरेखाकृतिमुन्मनां च हॄदयादिस्थान-स्थितकलातत्वकारणेश्वरैस्सह क्रमेण पूर्वपूर्वत्यागेन झटिति मनसा विचिन्त्य तदुपरि परमाकाशसरित्समुद्भूतकोटिसूर्यसमप्रभ कोटिशीतांशुशीतळाष्टत्रिंशत्कलात्मक केसरोज्वल प्रणवकर्णिकापञ्चाक्षरबीजाढ्य परमानन्दमधुभरित मुक्तभृङ्गनिषेवित चिच्छक्तिरूप सह्स्रदळकमलमध्यगतं सद्यस्समुद्यदनेककोटि शारदशसाङ्कसङ्काश प्रकाशं परमानन्दजलधिं निष्कलंपरमशिवं मनसाऽवगाहेत। एवं भावनापुरस्सरं परमशिवं मूलेनानीय हृदयंअन्त्रेणावाहनमुद्रया सदाशिवहृदयाम्बुजंप्रापप्यास्थापनमुद्र-यातस्मिसंस्थाय सन्निधानमुद्रया स्वामिमुखीकृत्य स्वागतंते महादेवेति विज्ञाप्य वत्स सुस्वागतमितिदेवेनोक्तं मनसा विभाव्य स्वागतार्घ्यं दत्वा सन्निरोधनमुद्रया सन्निरुध्य स्वामिन्सर्व्जगन्नाथ यावत्पूजावसानकम्। तावत्वं प्रीतिभावेन लिङ्गेऽस्मिन्सन्निधी भव इति हॄद्यंजलिबन्धपूर्वकं संप्रार्थ्य शिवस्यानुमतिं भावयित्वा निरोधार्घ्यं प्रदाय काळकण्ठ्या हुंफडन्तास्त्रेण विघ्नानुत्सार्य शिवं कवचेनावकुण्ट्य हॄदयशिरश्शिखाकवचानि तत्तन्मन्त्रैर्देवस्य हृदयादिस्थानेषु विन्यस्य हृदयादिकराङ्गविन्यासरूपसकळीकरणानन्तरं पुष्पमारोप्य मूलेन परमीकृत्य धेनुमुद्रयाऽमॄती कुर्यात् । अत्रावाहनं शिवस्य सदाशिवदेहप्रापणम् । स्थापनं सदाशिवस्य हुदंबुजे स्थापनम् । सन्निधापनं स्वाभिमुखीकरणम् । सन्निरोधनं यावत्पूजासमाप्ति सन्निधा-नप्रार्थनम् । अवकुण्ठनं भक्तेषु प्रकाशार्थं विघ्नाना मप्राप्त्यर्थं च कवचेनाच्छादनम् ।
सकळीकरणं हृदयादिपञ्चाङ्गन्यसनम् । परमीकरणं शुक्लपीतरक्तासितरक्तवर्णानां हृदयादीनां शिवैकत्वर्णानुसंधानम् । अमृतीकरणं विग्रहस्य शिवस्यचाभेदेन प्रतिपत्तिः ननु विश्वव्यापकस्य शिवस्य कथमभिमतदेशप्रापणरूप मावाहन मुच्यते ।अचिन्त्याद्भुतानन्तशक्तिकस्यशिवस्यव्यापकत्वमव्यापकत्व मप्यस्तीति तच्छिवस्य देशान्तरप्रापणरूप मुपपद्यते । यद्वा-व्यापकस्यापि जीवस्य शरीरावच्छेदोपाधिक-त्वमिवशिवस्यपि मन्त्रतेजोवच्छेदोपाधिवदभिमतदेशान्तरप्राप्तिर्नविरुध्यते । अथवा दारुणिव्याप्तस्याग्रेर्मथनक्रियया क्कचिदभिव्ञ्जनवदभिमतदेशप्रापणभावनारूपयाक्रियया शिवलिङ्गाभिमतदेशे शिवस्याभिव्यञ्जनमेवावहनम् । ननु सर्वत्र नित्योदितचिदा-नन्दप्रकाशरूपस्य परमशिवस्य किमिदमभिव्यञ्जनमुच्यते । यथा स्वयंप्रकाशमान-स्याप्यंगारवह्निपुञ्जस्य भस्मच्छन्नस्य भस्मनिरासकफूत्कारक्रिययाऽभिव्यञनं एवं स्वयंप्रकाशमानस्यापि परमशिवस्य पूजकमनसोविषयान्तरेषु मनोव्यापारेण तं प्रतिच्छन्नस्यानन्यंअनस्कविहितावाहनक्रियापूर्वक मभिमतदेशे लिङ्गादौ यावद्विसर्जनं कर्तव्यस्य तत्तदुपचारसमर्पणार्थ मनुसन्धानसन्तानस्योक्रमण मेवाभिव्यञ्जनम् । अथवा शिवपुराणोक्तप्रकारेण सदाशिवहृदयांबुजे परशिवस्योमासहायचिदानन्दमय-दिव्यविग्रहाविर्भावभावनैवावाहनम् ॥ तत्प्रकारः प्रदर्श्यते॥
लिङ्गे सदाशिवं ध्यात्वा निश्चलेनान्तरात्मना ।
अष्टत्रिंशत्कलान्यासं कृत्वा स्वस्यां तनौ यथा॥
अभ्यर्च्य गन्ध्पुष्पाद्यै स्त्यक्त्वा लिङ्गात्मतामतिम् ।
तस्यां मूर्तौ मूर्तिमन्तं शिवं परमकारणम् ।
प्राणस्थानं सदेश्स्य चिन्तये दंबया सह ॥
ब्रह्मा विष्णुश्च रुद्रश्च तथाऽन्ये च सुरासुराः ।
तपोभि रुग्रै रद्यापि यस्य दर्शनकाङ्किणः ।
यस्मात्सर्वमिदं ब्रह्मविष्णुरुद्रेन्द्रपूर्वकम् ।
सह भूतेन्द्रियैस्सर्वैः प्रथमं संप्रसूयते ॥
कारणानां च योधाता ध्याता परमकारणम् ।
न संप्रसूयतेऽन्यस्मात्कुतश्चन कदाचन ॥
सर्वैश्वर्येण संपूर्णो नाम्ना सर्वेश्वरस्स्वयं ।
सर्वैर्मुमुक्षुभिर्ध्येय श्शंभुराकाशमध्यगः ॥
सर्वोपरि कृतावास स्सर्ववासश्च शाश्वतः ।
षड्विधांय्वमयस्यास्य सर्वस्य जगतः पतिः ॥
उत्तरोत्तरभूताना मुत्तरश्च निरुत्तरः ।
अनन्तमहिमांभोधि रपरिच्छिन्नवैभवः॥
अशेषविषयामोघशुद्धबुद्धिविजृम्भणः ।
आत्मशक्त्यंऋतास्वादप्रमोदभरलालसः ॥
अनन्तानन्दसन्दोहमकरन्दमधुव्रतः ।
अखण्डजगदण्डानां पिण्डीकरणपण्डितः॥
औदर्यवीर्यगाम्भीर्यंआधिर्यंअकरालयः ।
अतुलस्सर्वभूतानां राजराजो महेश्वरः ॥
अप्राकृतशरीरं त मतिमन्मथरूपिणम् ॥
घृतरीतिघनीभूतसच्चिदानन्दविग्रहम् ॥
सर्वलक्षणसंपन्नं सर्वावयवशोभनम् ।
रक्तास्यपाणिचरणं कुन्द्मन्दस्मिताननम् ॥
शुद्धस्फटिकसङ्काशं फुल्लपद्मत्रिलोचनम् ।
चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् ॥
वरदाभयहस्तंच मृगटंकधरं हरम् ।
सर्वोप मानवर्गस्य दवीयांसं विभावयेत् ॥
ततस्संचिन्तयेत्तस्य वामभागे महेश्वरीम् ।
उत्फुल्लोत्पलपत्राभविस्तार्णायतलोचनाम् ॥
पूर्णचन्द्राभवदनां नीलकुञ्चितमूर्द्धजाम् ।
नीलोत्पलदळप्रख्यां चन्द्रार्धकृतशेखराम् ॥
अतिवृत्तघनोत्तुङ्गस्त्रिग्धपीनपयोधराम् ॥
तनुमध्यां पृथुश्रोणिं वीतसूक्ष्मतरांवराम् ॥
सर्वाभरणसंपन्नां माणिक्यतिलकोज्वलाम् ।
विचित्रपुष्पसंकीर्णकेशपाशमनोहराम् ॥
सर्वतोनुगुणाकारां किञ्चिल्लज्जानताननाम् ।
हेमारविन्दं विकसद्दधानां दक्षिणे करे ॥
दण्डवच्चापरं हस्तं न्यस्यासीनां सहासने ।
भुक्तिमुक्तिप्रदां देवीं सच्चिदानन्दरूपिणीम् ॥
सदाशिवेश्वरहरश्रीशद्रुहिणमातरम् ।समस्तगौरीलक्ष्यादिशक्तिचक्रस्य नायिकाम् ॥एवं देवं च देवीं च विचिन्त्य द्व्यष्टहायनौ ।भक्त्योपचारवर्गेण क्रमेण परिपूजयेत् ॥ एवं सदाशिवस्य हृदयाम्बुजे साम्बशिवविग्रहाविर्भावभावनापक्षे तस्य सदा-शिवहृदयाम्बुजे अवस्थापनं स्वाभिमुखीकरणम् इत्यादि सर्वमुपपद्यतेतराम् ।शरीरशरीरिणोरभेदप्रतिपत्तिरूपममृतीकरणं तु साम्बशिवविग्रहाविर्भावपक्ष एवोप-पद्यते । स्वाभिमते लिङ्गादावावाहिते सदाशिवविग्रहे पूजार्थमभिव्यक्तिं प्रार्थयंआनस्य पूजकस्यानुग्रहार्थं शिवाभिन्नसच्चिदानन्द एवाचिन्त्याद्भुततदीयशक्तिमहिम्रा कर कमौक्तिकाद्याकारेण जलबिन्दुरिव सकलावयवसंपूर्णसांबशिवविग्रहाकरेणाभिव्य-ज्यत इति शिवपुराणादिमर्यादा। एवं चिदानन्दाकारपरमशिवविग्रहप्रभाधवळित-रूपादेव नानावर्णाष्टत्रिंशत्कलामयस्यापि सदाशिवविग्रहस्य स्फटिकवर्णत्वभावनोप-पद्यते । सदाशिवस्य तत्पुरुषादिवक्त्रणां पीतनीलसितारुणवर्णत्वं तु पूर्वादिदिक्प-तीनामिन्द्रयंअवरुणकुबेराणां तत्तत्कार्योपयोगिपीतनीलसितारुणवर्णस्थिरीकरणार्थं तत्तद्वर्णानुकरणप्रयुक्तम् ।एवंरूपे परमशिवस्यावाहने क्रियंआणे ऊर्ध्वाभिमुखस्य सदाशिवेशानवक्त्रस्य तत्पुरुषवक्त्रवदाविसर्जनं प्राङ्मुखत्वं भावनीयं । आवाहना-द्यंऋती करणान्तसंस्कारं सांबसदाशिवविग्रहाभिव्यक्तिपक्षे सदाशिवमूर्तिमध्य एव् कर्तव्यं । तत्रेव परमशिवस्यंबिकायाश्च प्रत्येकं पदार्थानुसमयक्रमेण पाद्याद्युपचा-राश्च कर्तव्याः । सदाशिवमूर्तौ परमशिवचैतन्यंआत्रावाहनपक्षे तदावाहनानन्तरं पाद्यादि । मनोन्मनीमूर्तौ अम्बिकां चावाहनादिभिस्संस्कृत्य पाद्याद्युपचारैः पूजयेत्॥

No comments