ऋग्वेदः, मण्डलं ७. Rigveda, Mandala - 7, Sutta - 91 to 100.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 91.
कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन्।
ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण॥ ७.०९१.०१
उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः।
इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम्॥ ७.०९१.०२
पीवोअन्नाँ रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः।
ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः॥ ७.०९१.०३
यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः।
शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम्॥ ७.०९१.०४
नियुवाना नियुतः स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक्।
इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे॥ ७.०९१.०५
या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते।
आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः॥ ७.०९१.०६
अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः।
वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः॥ ७.०९१.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 92.
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार।
उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम्॥ ७.०९२.०१
प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै।
प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः॥ ७.०९२.०२
प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे।
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः॥ ७.०९२.०३
ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः।
घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान्॥ ७.०९२.०४
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम्।
वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः॥ ७.०९२.०५
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 93.
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम्।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा॥ ७.०९३.०१
ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा।
क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः॥ ७.०९३.०२
उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते॥ ७.०९३.०३
गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम्।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः॥ ७.०९३.०४
सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते।
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन॥ ७.०९३.०५
इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम्।
नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः॥ ७.०९३.०६
सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः।
यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु॥ ७.०९३.०७
एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान्।
मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः॥ ७.०९३.०८
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 94.
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः।
अभ्राद्वृष्टिरिवाजनि॥ ७.०९४.०१
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः।
ईशाना पिप्यतं धियः॥ ७.०९४.०२
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये।
मा नो रीरधतं निदे॥ ७.०९४.०३
इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे।
धिया धेना अवस्यवः॥ ७.०९४.०४
ता हि शश्वन्त ईळत इत्था विप्रास ऊतये।
सबाधो वाजसातये॥ ७.०९४.०५
ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे।
मेधसाता सनिष्यवः॥ ७.०९४.०६
इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा।
मा नो दुःशंस ईशत॥ ७.०९४.०७
मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य।
इन्द्राग्नी शर्म यच्छतम्॥ ७.०९४.०८
गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे।
इन्द्राग्नी तद्वनेमहि॥ ७.०९४.०९
यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः।
सप्तीवन्ता सपर्यवः॥ ७.०९४.१०
उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा।
आङ्गूषैराविवासतः॥ ७.०९४.११
ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम्।
आभोगं हन्मना हतमुदधिं हन्मना हतम्॥ ७.०९४.१२
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 95.
प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः।
प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः॥ ७.०९५.०१
एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात्।
रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय॥ ७.०९५.०२
स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु।
स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत॥ ७.०९५.०३
उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन्।
मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः॥ ७.०९५.०४
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व।
तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम्॥ ७.०९५.०५
अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः।
वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः॥ ७.०९५.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 96.
बृहदु गायिषे वचोऽसुर्या नदीनाम्।
सरस्वतीमिन्महया सुवृक्तिभिः स्तोमैर्वसिष्ठ रोदसी॥ ७.०९६.०१
उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः।
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम्॥ ७.०९६.०२
भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती।
गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत्॥ ७.०९६.०३
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः।
सरस्वन्तं हवामहे॥ ७.०९६.०४
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः।
तेभिर्नोऽविता भव॥ ७.०९६.०५
पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः।
भक्षीमहि प्रजामिषम्॥ ७.०९६.०६
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 97.
यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति।
इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च॥ ७.०९७.०१
आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः।
यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव॥ ७.०९७.०२
तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे।
इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा॥ ७.०९७.०३
स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति।
कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान्॥ ७.०९७.०४
तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः।
शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम॥ ७.०९७.०५
तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति।
सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः॥ ७.०९७.०६
स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः।
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः॥ ७.०९७.०७
देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा।
दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा॥ ७.०९७.०८
इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि।
अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः॥ ७.०९७.०९
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य।
धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः॥ ७.०९७.१०
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 98.
अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम्।
गौराद्वेदीयाँ अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन्॥ ७.०९८.०१
यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि।
उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान्॥ ७.०९८.०२
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच।
एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ॥ ७.०९८.०३
यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान्।
यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम॥ ७.०९८.०४
प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार।
यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य॥ ७.०९८.०५
तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य।
गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः॥ ७.०९८.०६

धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः॥ ७.०९८.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 99.
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति।
उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से॥ ७.०९९.०१
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप।
उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः॥ ७.०९९.०२
इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या।
व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः॥ ७.०९९.०३
उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम्।
दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु॥ ७.०९९.०४
इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम्।
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान्॥ ७.०९९.०५
इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती।
ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र॥ ७.०९९.०६
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम्।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः॥ ७.०९९.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
Rigveda, Mandala - 7, Sutta - 100.
नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत्।
प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात्॥ ७.१००.०१
त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः।
पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः॥ ७.१००.०२
त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा।
प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम॥ ७.१००.०३
वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन्।
ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार॥ ७.१००.०४
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान्।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके॥ ७.१००.०५
किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ॥ ७.१००.०६

वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः॥ ७.१००.०७
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 7, Sutta - 100.

No comments