Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ७. Rigveda, Mandala - 7, Sutta - 101 to 104.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 8, Sutta - 101.

    तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः।
    स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति॥ ७.१०१.०१

    यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे।
    स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे॥ ७.१०१.०२

    स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः।
    पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः॥ ७.१०१.०३

    यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः।
    त्रयः कोशास उपसेचनासो मध्वः श्चोतन्त्यभितो विरप्शम्॥ ७.१०१.०४

    इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत्।
    मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः॥ ७.१०१.०५

    स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च।
    तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः॥ ७.१०१.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 8, Sutta - 102.

    पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे।
    स नो यवसमिच्छतु॥ ७.१०२.०१

    यो गर्भमोषधीनां गवां कृणोत्यर्वताम्।
    पर्जन्यः पुरुषीणाम्॥ ७.१०२.०२

    तस्मा इदास्ये हविर्जुहोता मधुमत्तमम्।
    इळां नः संयतं करत्॥ ७.१०२.०३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 8, Sutta - 103.

    संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः।
    वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः॥ ७.१०३.०१

    दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम्।
    गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति॥ ७.१०३.०२

    यदीमेनाँ उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम्।
    अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति॥ ७.१०३.०३

    अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम्।
    मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम्॥ ७.१०३.०४

    यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः।
    सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु॥ ७.१०३.०५

    गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम्।
    समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः॥ ७.१०३.०६

    ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः।
    संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव॥ ७.१०३.०७

    ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम्।
    अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित्॥ ७.१०३.०८

    देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते।
    संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम्॥ ७.१०३.०९

    गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि।
    गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः॥ ७.१०३.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala -8,Sutta - 104.

    इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः।
    परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः॥ ७.१०४.०१

    इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवाँ इव।
    ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने॥ ७.१०४.०२

    इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम्।
    यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः॥ ७.१०४.०३

    इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम्।
    उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः॥ ७.१०४.०४

    इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः।
    तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम्॥ ७.१०४.०५

    इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना।
    यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम्॥ ७.१०४.०६

    प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः।
    इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा॥ ७.१०४.०७

    यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः।
    आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता॥ ७.१०४.०८

    ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः।
    अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे॥ ७.१०४.०९

    यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम्।
    रिपुः स्तेनः स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च॥ ७.१०४.१०

    परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः।
    प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम्॥ ७.१०४.११

    सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते।
    तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत्॥ ७.१०४.१२

    न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्।
    हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते॥ ७.१०४.१३

    यदि वाहमनृतदेव आस मोघं वा देवाँ अप्यूहे अग्ने।
    किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम्॥ ७.१०४.१४

    अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य।
    अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह॥ ७.१०४.१५

    यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह।
    इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट॥ ७.१०४.१६

    प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना।
    वव्राँ अनन्ताँ अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः॥ ७.१०४.१७

    वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन।
    वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे॥ ७.१०४.१८

    प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि।
    प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन॥ ७.१०४.१९

    एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्।
    शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः॥ ७.१०४.२०

    इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम्।
    अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः॥ ७.१०४.२१

    उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम्।
    सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र॥ ७.१०४.२२

    मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना।
    पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान्॥ ७.१०४.२३

    इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम्।
    विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम्॥ ७.१०४.२४

    प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्।
    रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः॥ ७.१०४.२५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 8, Sutta - 104.

    No comments

    Post Top Ad

    Post Bottom Ad