Header Ads

  • Breaking News

    ऋग्वेदः, मण्डलं ७.Rigveda, Mandala - 7, Sutta - 81 to 90.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 7, Sutta - 81.

    प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः।
    अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी॥ ७.०८१.०१

    उदुस्रियाः सृजते सूर्यः सचाँ उद्यन्नक्षत्रमर्चिवत्।
    तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि॥ ७.०८१.०२

    प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि।
    या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः॥ ७.०८१.०३

    उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे।
    तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः॥ ७.०८१.०४

    तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम्।
    यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै॥ ७.०८१.०५

    श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजाँ अस्मभ्यं गोमतः।
    चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः॥ ७.०८१.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 82.

    इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम्।
    दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः॥ ७.०८२.०१

    सम्राळन्यः स्वराळन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू।
    विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः॥ ७.०८२.०२

    अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम्।
    इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः॥ ७.०८२.०३

    युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः।
    ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे॥ ७.०८२.०४

    इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना।
    क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते॥ ७.०८२.०५

    महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम्।
    अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः॥ ७.०८२.०६

    न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन।
    यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः॥ ७.०८२.०७

    अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः।
    युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम्॥ ७.०८२.०८

    अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा।
    यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु॥ ७.०८२.०९

    अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः।
    अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे॥ ७.०८२.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 83.

    युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः।
    दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम्॥ ७.०८३.०१

    यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम्।
    यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम्॥ ७.०८३.०२

    सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत्।
    अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम्॥ ७.०८३.०३

    इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम्।
    ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः॥ ७.०८३.०४

    इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः।
    युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि॥ ७.०८३.०५

    युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये।
    यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह॥ ७.०८३.०६

    दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः।
    सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु॥ ७.०८३.०७

    दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम्।
    श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः॥ ७.०८३.०८

    वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा।
    हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम्॥ ७.०८३.०९

    अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः।
    अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे॥ ७.०८३.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 84.

    आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः।
    प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति॥ ७.०८४.०१

    युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः।
    परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम्॥ ७.०८४.०२

    कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता।
    उपो रयिर्देवजूतो न एतु प्र णः स्पार्हाभिरूतिभिस्तिरेतम्॥ ७.०८४.०३

    अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम्।
    प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि॥ ७.०८४.०४

    इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना।
    सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः॥ ७.०८४.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 85.

    पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत्।
    घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके॥ ७.०८५.०१

    स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति।
    युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः॥ ७.०८५.०२

    आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः।
    कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति॥ ७.०८५.०३

    स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान्।
    आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान्॥ ७.०८५.०४

    इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना।
    सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः॥ ७.०८५.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 86.

    धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी।
    प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम॥ ७.०८६.०१

    उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि।
    किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम्॥ ७.०८६.०२

    पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम्।
    समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते॥ ७.०८६.०३

    किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम्।
    प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम्॥ ७.०८६.०४

    अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः।
    अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम्॥ ७.०८६.०५

    न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः।
    अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता॥ ७.०८६.०६

    अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः।
    अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति॥ ७.०८६.०७

    अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु।
    शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः॥ ७.०८६.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 87.

    रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम्।
    सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः॥ ७.०८७.०१

    आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान्।
    अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि॥ ७.०८७.०२

    परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके।
    ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म॥ ७.०८७.०३

    उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति।
    विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन्॥ ७.०८७.०४

    तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः।
    गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम्॥ ७.०८७.०५

    अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान्।
    गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा॥ ७.०८७.०६

    यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः।
    अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः॥ ७.०८७.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 88.

    प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व।
    य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम्॥ ७.०८८.०१

    अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि।
    स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात्॥ ७.०८८.०२

    आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम्।
    अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम्॥ ७.०८८.०३

    वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः।
    स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः॥ ७.०८८.०४

    क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित्।
    बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते॥ ७.०८८.०५

    य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते।
    मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्रः स्तुवते वरूथम्॥ ७.०८८.०६

    ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत्।
    अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः॥ ७.०८८.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 89.

    मो षु वरुण मृन्मयं गृहं राजन्नहं गमम्।
    मृळा सुक्षत्र मृळय॥ ७.०८९.०१

    यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः।
    मृळा सुक्षत्र मृळय॥ ७.०८९.०२

    क्रत्वः समह दीनता प्रतीपं जगमा शुचे।
    मृळा सुक्षत्र मृळय॥ ७.०८९.०३

    अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम्।
    मृळा सुक्षत्र मृळय॥ ७.०८९.०४

    यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि।
    अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः॥ ७.०८९.०५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७.
    Rigveda, Mandala - 7, Sutta - 90.

    प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः।
    वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय॥ ७.०९०.०१

    ईशानाय प्रहुतिं यस्त आनट् छुचिं सोमं शुचिपास्तुभ्यं वायो।
    कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य॥ ७.०९०.०२

    राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम्।
    अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके॥ ७.०९०.०३

    उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः।
    गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः॥ ७.०९०.०४

    ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति।
    इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते॥ ७.०९०.०५

    ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः।
    इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः॥ ७.०९०.०६

    अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः।
    वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः॥ ७.०९०.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ७. Rigveda, Mandala - 7, Sutta - 90.

    No comments

    Post Top Ad

    Post Bottom Ad