श्रीमदप्पयदीक्षितविरचितम् श्री गङ्गाधराष्टकम् ।। Shri Gangadhara Ashtakam. Astro Classes.

श्रीमदप्पयदीक्षितविरचितम् - श्री गङ्गाधराष्टकम् ।।
Srimad Appayya Dikshithar's - Shri Gangadhara Ashtakam.  Astro Classes, Silvassa.


क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यंआनान् सुरान्
    ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निश्शङ्कं निजलीलया कबळयन्लोकान् रक्षादरा
    दार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥१॥

क्षीरं स्वादु निपीय मातुलगृहे ग्तवा स्वकीयं गृहं
    क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवा
    नार्तत्राणपसयणस्स भगवान्गङ्गाधरो मे गतिः ॥२॥

मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
    मार्कण्डेयंअपालयत्करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेषऽभीष्टं रथाङ्गन्ददावा
    र्तत्राणपरायणस्स भगवान्गङ्गाधरो मे गतिः ॥३॥

सोढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महात्कौरवं
    दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधय
    त्रार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥४॥

बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
    खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं धातुं समुद्यत्करम् ।
दृष्ट्वानम्यविरिञ्चिरम्यनगरे पूजां त्वदीयाम्भज
    न्नार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥५॥


सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके
    ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणा
    दार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥६॥

श्रौतस्मार्तपथो पराङ्मुखमपि प्रोद्यन्महापाताकं
    विश्वाधीशमपत्यंएव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
    ह्यार्तत्राणपरायणः स भगवान्गङ्गाधरो मे गतिः ॥७॥


गाङ्गं वेगमवाप्य मान्यविबुधैस्सोढुं पुरा या चितो
    दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयन्पावनी
    मार्तत्राणपरायणः स भगवन्गङ्गाधरो मे गतिः ॥८॥

॥ इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

Post a Comment

0 Comments