Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 11 To 20.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 11.

    यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति।
    आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः॥ ६.०११.०१

    त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु।
    पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम्॥ ६.०११.०२

    धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै।
    वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ॥ ६.०११.०३

    अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची।
    आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः॥ ६.०११.०४

    वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः।
    अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः॥ ६.०११.०५

    दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः।
    रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः॥ ६.०११.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 12.

    मध्ये होता दुरोणे बर्हिषो राळग्निस्तोदस्य रोदसी यजध्यै।
    अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान॥ ६.०१२.०१

    आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः।
    त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै॥ ६.०१२.०२

    तेजिष्ठा यस्यारतिर्वनेराट् तोदो अध्वन्न वृधसानो अद्यौत्।
    अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु॥ ६.०१२.०३

    सास्माकेभिरेतरी न शूषैरग्निः ष्टवे दम आ जातवेदाः।
    द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः॥ ६.०१२.०४

    अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम्।
    सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट्॥ ६.०१२.०५

    स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः।
    वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः॥ ६.०१२.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 13.

    त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः।
    श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम्॥ ६.०१३.०१

    त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः।
    अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः॥ ६.०१३.०२

    स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्।
    यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि॥ ६.०१३.०३

    यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट्।
    विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः॥ ६.०१३.०४

    ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः।
    कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये॥ ६.०१३.०५

    वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः।
    विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः॥ ६.०१३.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 14.

    अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः।
    भसन्नु ष प्र पूर्व्य इषं वुरीतावसे॥ ६.०१४.०१

    अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः।
    अग्निं होतारमीळते यज्ञेषु मनुषो विशः॥ ६.०१४.०२

    नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः।
    तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम्॥ ६.०१४.०३

    अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम्।
    यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया॥ ६.०१४.०४

    अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति।
    सहावा यस्यावृतो रयिर्वाजेष्ववृतः॥ ६.०१४.०५

    अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः।
    वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम॥ ६.०१४.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 15.

    इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा।
    वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम्॥ ६.०१५.०१

    मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम्।
    स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे॥ ६.०१५.०२

    स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः।
    रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः॥ ६.०१५.०३

    द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम्।
    विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे॥ ६.०१५.०४

    पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना।
    तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः॥ ६.०१५.०५

    अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि।
    उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः॥ ६.०१५.०६

    समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम्।
    विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम्॥ ६.०१५.०७

    त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम्।
    देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे॥ ६.०१५.०८

    विभूषन्नग्न उभयाँ अनु व्रता दूतो देवानां रजसी समीयसे।
    यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव॥ ६.०१५.०९

    तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम।
    स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत्॥ ६.०१५.१०

    तमग्ने पास्युत तं पिपर्षि यस्त आनट् कवये शूर धीतिम्।
    यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया॥ ६.०१५.११

    त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात्।
    सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री॥ ६.०१५.१२

    अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः।
    देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा॥ ६.०१५.१३

    अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा।
    ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य॥ ६.०१५.१४

    अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै।
    अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम॥ ६.०१५.१५

    अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम्।
    कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु॥ ६.०१५.१६

    इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः।
    यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः॥ ६.०१५.१७

    जनिष्वा देववीतये सर्वताता स्वस्तये।
    आ देवान्वक्ष्यमृताँ ऋतावृधो यज्ञं देवेषु पिस्पृशः॥ ६.०१५.१८

    वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम्।
    अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि॥ ६.०१५.१९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 16.

    त्वमग्ने यज्ञानां होता विश्वेषां हितः।
    देवेभिर्मानुषे जने॥ ६.०१६.०१

    स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः।
    आ देवान्वक्षि यक्षि च॥ ६.०१६.०२

    वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा।
    अग्ने यज्ञेषु सुक्रतो॥ ६.०१६.०३

    त्वामीळे अध द्विता भरतो वाजिभिः शुनम्।
    ईजे यज्ञेषु यज्ञियम्॥ ६.०१६.०४

    त्वमिमा वार्या पुरु दिवोदासाय सुन्वते।
    भरद्वाजाय दाशुषे॥ ६.०१६.०५

    त्वं दूतो अमर्त्य आ वहा दैव्यं जनम्।
    शृण्वन्विप्रस्य सुष्टुतिम्॥ ६.०१६.०६

    त्वामग्ने स्वाध्यो मर्तासो देववीतये।
    यज्ञेषु देवमीळते॥ ६.०१६.०७

    तव प्र यक्षि संदृशमुत क्रतुं सुदानवः।
    विश्वे जुषन्त कामिनः॥ ६.०१६.०८

    त्वं होता मनुर्हितो वह्निरासा विदुष्टरः।
    अग्ने यक्षि दिवो विशः॥ ६.०१६.०९

    अग्न आ याहि वीतये गृणानो हव्यदातये।
    नि होता सत्सि बर्हिषि॥ ६.०१६.१०

    तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि।
    बृहच्छोचा यविष्ठ्य॥ ६.०१६.११

    स नः पृथु श्रवाय्यमच्छा देव विवाससि।
    बृहदग्ने सुवीर्यम्॥ ६.०१६.१२

    त्वामग्ने पुष्करादध्यथर्वा निरमन्थत।
    मूर्ध्नो विश्वस्य वाघतः॥ ६.०१६.१३

    तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः।
    वृत्रहणं पुरंदरम्॥ ६.०१६.१४

    तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम्।
    धनंजयं रणेरणे॥ ६.०१६.१५

    एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः।
    एभिर्वर्धास इन्दुभिः॥ ६.०१६.१६

    यत्र क्व च ते मनो दक्षं दधस उत्तरम्।
    तत्रा सदः कृणवसे॥ ६.०१६.१७

    नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो।
    अथा दुवो वनवसे॥ ६.०१६.१८

    आग्निरगामि भारतो वृत्रहा पुरुचेतनः।
    दिवोदासस्य सत्पतिः॥ ६.०१६.१९

    स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना।
    वन्वन्नवातो अस्तृतः॥ ६.०१६.२०

    स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता।
    बृहत्ततन्थ भानुना॥ ६.०१६.२१

    प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया।
    अर्च गाय च वेधसे॥ ६.०१६.२२

    स हि यो मानुषा युगा सीदद्धोता कविक्रतुः।
    दूतश्च हव्यवाहनः॥ ६.०१६.२३

    ता राजाना शुचिव्रतादित्यान्मारुतं गणम्।
    वसो यक्षीह रोदसी॥ ६.०१६.२४

    वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय।
    ऊर्जो नपादमृतस्य॥ ६.०१६.२५

    क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः।
    मर्त आनाश सुवृक्तिम्॥ ६.०१६.२६

    ते ते अग्ने त्वोता इषयन्तो विश्वमायुः।
    तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः॥ ६.०१६.२७

    अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम्।
    अग्निर्नो वनते रयिम्॥ ६.०१६.२८

    सुवीरं रयिमा भर जातवेदो विचर्षणे।
    जहि रक्षांसि सुक्रतो॥ ६.०१६.२९

    त्वं नः पाह्यंहसो जातवेदो अघायतः।
    रक्षा णो ब्रह्मणस्कवे॥ ६.०१६.३०

    यो नो अग्ने दुरेव आ मर्तो वधाय दाशति।
    तस्मान्नः पाह्यंहसः॥ ६.०१६.३१

    त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम्।
    मर्तो यो नो जिघांसति॥ ६.०१६.३२

    भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य।
    अग्ने वरेण्यं वसु॥ ६.०१६.३३

    अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया।
    समिद्धः शुक्र आहुतः॥ ६.०१६.३४

    गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे।
    सीदन्नृतस्य योनिमा॥ ६.०१६.३५

    ब्रह्म प्रजावदा भर जातवेदो विचर्षणे।
    अग्ने यद्दीदयद्दिवि॥ ६.०१६.३६

    उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत।
    अग्ने ससृज्महे गिरः॥ ६.०१६.३७

    उप च्छायामिव घृणेरगन्म शर्म ते वयम्।
    अग्ने हिरण्यसंदृशः॥ ६.०१६.३८

    य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः।
    अग्ने पुरो रुरोजिथ॥ ६.०१६.३९

    आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति।
    विशामग्निं स्वध्वरम्॥ ६.०१६.४०

    प्र देवं देववीतये भरता वसुवित्तमम्।
    आ स्वे योनौ नि षीदतु॥ ६.०१६.४१

    आ जातं जातवेदसि प्रियं शिशीतातिथिम्।
    स्योन आ गृहपतिम्॥ ६.०१६.४२

    अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः।
    अरं वहन्ति मन्यवे॥ ६.०१६.४३

    अच्छा नो याह्या वहाभि प्रयांसि वीतये।
    आ देवान्सोमपीतये॥ ६.०१६.४४

    उदग्ने भारत द्युमदजस्रेण दविद्युतत्।
    शोचा वि भाह्यजर॥ ६.०१६.४५

    वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान्।
    होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत्॥ ६.०१६.४६

    आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि।
    ते ते भवन्तूक्षण ऋषभासो वशा उत॥ ६.०१६.४७

    अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम्।
    येना वसून्याभृता तृळ्हा रक्षांसि वाजिना॥ ६.०१६.४८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 17.

    पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र।
    वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः॥ ६.०१७.०१

    स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम्।
    यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्राँ अभि तृन्धि वाजान्॥ ६.०१७.०२

    एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः।
    आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूँरभि गा इन्द्र तृन्धि॥ ६.०१७.०३

    ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम्।
    महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम्॥ ६.०१७.०४

    येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत्।
    महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात्॥ ६.०१७.०५

    तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः।
    और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान्॥ ६.०१७.०६

    पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः।
    अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य॥ ६.०१७.०७

    अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय।
    अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र॥ ६.०१७.०८

    अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः।
    अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान॥ ६.०१७.०९

    अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम्।
    निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन्॥ ६.०१७.१०

    वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम्।
    पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै॥ ६.०१७.११

    आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम्।
    तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम्॥ ६.०१७.१२

    एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम्।
    सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात्॥ ६.०१७.१३

    स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान्।
    भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र॥ ६.०१७.१४

    अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः॥ ६.०१७.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 18.

    तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः।
    अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम्॥ ६.०१८.०१

    स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी।
    बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा॥ ६.०१८.०२

    त्वं ह नु त्यददमायो दस्यूँरेकः कृष्टीरवनोरार्याय।
    अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः॥ ६.०१८.०३

    सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य।
    उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव॥ ६.०१८.०४

    तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः।
    हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः॥ ६.०१८.०५

    स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये।
    स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु॥ ६.०१८.०६

    स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे।
    स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः॥ ६.०१८.०७

    स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च।
    वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित्॥ ६.०१८.०८

    उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ।
    धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः॥ ६.०१८.०९

    अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा।
    गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च॥ ६.०१८.१०

    आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक्।
    याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः॥ ६.०१८.११

    प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः।
    नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः॥ ६.०१८.१२

    प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै।
    पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ॥ ६.०१८.१३

    अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम्।
    करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः॥ ६.०१८.१४

    अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः।
    कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः॥ ६.०१८.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 19.

    महाँ इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः।
    अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत्॥ ६.०१९.०१

    इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम्।
    अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि॥ ६.०१९.०२

    पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि।
    यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ॥ ६.०१९.०३

    तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम।
    यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः॥ ६.०१९.०४

    धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः।
    सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः॥ ६.०१९.०५

    शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम्।
    विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै॥ ६.०१९.०६

    यस्ते मदः पृतनाषाळमृध्र इन्द्र तं न आ भर शूशुवांसम्।
    येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः॥ ६.०१९.०७

    आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम्।
    येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन्॥ ६.०१९.०८

    आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात्।
    आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे॥ ६.०१९.०९

    नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः।
    ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम्॥ ६.०१९.१०

    मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम्।
    विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम॥ ६.०१९.११

    जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि।
    अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु॥ ६.०१९.१२

    वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम।
    घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः॥ ६.०१९.१३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 20.

    द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान्।
    तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम्॥ ६.०२०.०१

    दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम्।
    अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः॥ ६.०२०.०२

    तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः।
    राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत्॥ ६.०२०.०३

    शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ।
    वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र॥ ६.०२०.०४

    महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः।
    उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ॥ ६.०२०.०५

    प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन्।
    प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति॥ ६.०२०.०६

    वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः।
    सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः॥ ६.०२०.०७

    स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः।
    आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै॥ ६.०२०.०८

    स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ।
    तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम्॥ ६.०२०.०९

    सनेम तेऽवसा नव्य इन्द्र प्र पूरवः स्तवन्त एना यज्ञैः।
    सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन्॥ ६.०२०.१०

    त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय।
    परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम्॥ ६.०२०.११

    त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः।
    प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति॥ ६.०२०.१२

    तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप्।
    दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः॥ ६.०२०.१३

    Rigveda, Mandala - 6, Sutta - 20.

    No comments

    Post Top Ad

    Post Bottom Ad