Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 21 To 30.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 21.

    इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते।
    धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या॥ ६.०२१.०१

    तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम्।
    यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम्॥ ६.०२१.०२

    स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार।
    कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः॥ ६.०२१.०३

    यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु।
    कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता॥ ६.०२१.०४

    इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः।
    ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि॥ ६.०२१.०५

    तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः।
    अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम्॥ ६.०२१.०६

    अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ।
    तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व॥ ६.०२१.०७

    स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः।
    त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ॥ ६.०२१.०८

    प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य।
    प्र पूषणं विष्णुमग्निं पुरंधिं सवितारमोषधीः पर्वताँश्च॥ ६.०२१.०९

    इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः।
    श्रुधी हवमा हुवतो हुवानो न त्वावाँ अन्यो अमृत त्वदस्ति॥ ६.०२१.१०

    नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः।
    ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय॥ ६.०२१.११

    स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः।
    ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम्॥ ६.०२१.१२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 22.

    य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः।
    यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान्॥ ६.०२२.०१

    तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः।
    नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम्॥ ६.०२२.०२

    तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः।
    यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै॥ ६.०२२.०३

    तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र।
    कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः॥ ६.०२२.०४

    तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः।
    तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ॥ ६.०२२.०५

    अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन।
    अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन्॥ ६.०२२.०६

    तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै।
    स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि॥ ६.०२२.०७

    आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा।
    तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च॥ ६.०२२.०८

    भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।
    धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः॥ ६.०२२.०९

    आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम्।
    यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि॥ ६.०२२.१०

    स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो।
    न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥ ६.०२२.११

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 23.

    सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे।
    यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि॥ ६.०२३.०१

    यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ।
    यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून्॥ ६.०२३.०२

    पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती।
    कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित्॥ ६.०२३.०३

    गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः।
    कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः॥ ६.०२३.०४

    अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः।
    सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत्॥ ६.०२३.०५

    ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः।
    सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः॥ ६.०२३.०६

    स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र।
    एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम्॥ ६.०२३.०७

    स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु।
    प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः॥ ६.०२३.०८

    तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम्।
    कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति॥ ६.०२३.०९

    एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः।
    असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता॥ ६.०२३.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 24.

    वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी।
    अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः॥ ६.०२४.०१

    ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः।
    वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम्॥ ६.०२४.०२

    अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः।
    वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः॥ ६.०२४.०३

    शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः।
    वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन्॥ ६.०२४.०४

    अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः।
    मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति॥ ६.०२४.०५

    वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः।
    तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः॥ ६.०२४.०६

    न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति।
    वृद्धस्य चिद्वर्धतामस्य तनूः स्तोमेभिरुक्थैश्च शस्यमाना॥ ६.०२४.०७

    न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान्।
    अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै॥ ६.०२४.०८

    गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान्।
    स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम्॥ ६.०२४.०९

    सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः।
    अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः॥ ६.०२४.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 25.

    या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति।
    ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र॥ ६.०२५.०१

    आभिः स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र।
    आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः॥ ६.०२५.०२

    इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे।
    त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः॥ ६.०२५.०३

    शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते।
    तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते॥ ६.०२५.०४

    नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध।
    इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि॥ ६.०२५.०५

    स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते।
    वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते॥ ६.०२५.०६

    अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता।
    अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः॥ ६.०२५.०७

    अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये।
    अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये॥ ६.०२५.०८

    एवा नः स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः।
    विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम्॥ ६.०२५.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 26.

    श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः।
    सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः॥ ६.०२६.०१

    त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ।
    त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन्॥ ६.०२६.०२

    त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क्।
    त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन्॥ ६.०२६.०३

    त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम्।
    त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः॥ ६.०२६.०४

    त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि।
    अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती॥ ६.०२६.०५

    त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप्।
    त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन्॥ ६.०२६.०६

    अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः।
    त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ॥ ६.०२६.०७

    वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः।
    प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम्॥ ६.०२६.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 27.

    किमस्य मदे किम्वस्य पीताविन्द्रः किमस्य सख्ये चकार।
    रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः॥ ६.०२७.०१

    सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार।
    रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः॥ ६.०२७.०२

    नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म।
    न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते॥ ६.०२७.०३

    एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः।
    वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार॥ ६.०२७.०४

    वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन्।
    वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त्॥ ६.०२७.०५

    त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या।
    वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन्॥ ६.०२७.०६

    यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा।
    स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन्॥ ६.०२७.०७

    द्वयाँ अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट्।
    अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम्॥ ६.०२७.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 28.

    आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे।
    प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः॥ ६.०२८.०१

    इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति।
    भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम्॥ ६.०२८.०२

    न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति।
    देवाँश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह॥ ६.०२८.०३

    न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि।
    उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः॥ ६.०२८.०४

    गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः।
    इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम्॥ ६.०२८.०५

    यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम्।
    भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु॥ ६.०२८.०६

    प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः।
    मा वः स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः॥ ६.०२८.०७

    उपेदमुपपर्चनमासु गोषूप पृच्यताम्।
    उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये॥ ६.०२८.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 29.

    इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः।
    महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम्॥ ६.०२९.०१

    आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः।
    आ रश्मयो गभस्त्योः स्थूरयोराध्वन्नश्वासो वृषणो युजानाः॥ ६.०२९.०२

    श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान्।
    वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ॥ ६.०२९.०३

    स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः।
    इन्द्रं नरः स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः॥ ६.०२९.०४

    न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा।
    आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती॥ ६.०२९.०५

    एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा।
    एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून्॥ ६.०२९.०६

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 30.

    भूय इद्वावृधे वीर्यायँ एको अजुर्यो दयते वसूनि।
    प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे॥ ६.०३०.०१

    अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति।
    दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात्॥ ६.०३०.०२

    अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र।
    नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि॥ ६.०३०.०३

    सत्यमित्तन्न त्वावाँ अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान्।
    अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम्॥ ६.०३०.०४

    त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य।
    राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम्॥ ६.०३०.०५

    Rigveda, Mandala - 6, Sutta - 30.

    No comments

    Post Top Ad

    Post Bottom Ad