Header Ads

  • Breaking News

    ऋग्वेदः मण्डलं ६. Rigveda, Mandala - 6, Sutta - 01 To 10.



    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 01.

    त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता।
    त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै॥ ६.००१.०१

    अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन्।
    तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन्॥ ६.००१.०२

    वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन्।
    रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम्॥ ६.००१.०३

    पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम्।
    नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ॥ ६.००१.०४

    त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम्।
    त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम्॥ ६.००१.०५

    सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान्।
    तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम॥ ६.००१.०६

    तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः।
    त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन॥ ६.००१.०७

    विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम्।
    प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम्॥ ६.००१.०८

    सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम्।
    य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः॥ ६.००१.०९

    अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः।
    वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम॥ ६.००१.१०

    आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः।
    बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि॥ ६.००१.११

    नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः।
    पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु॥ ६.००१.१२

    पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम्।
    पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे॥ ६.००१.१३

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 02.

    त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे।
    त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि॥ ६.००२.०१

    त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते।
    त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः॥ ६.००२.०२

    सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते।
    यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे॥ ६.००२.०३

    ऋधद्यस्ते सुदानवे धिया मर्तः शशमते।
    ऊती ष बृहतो दिवो द्विषो अंहो न तरति॥ ६.००२.०४

    समिधा यस्त आहुतिं निशितिं मर्त्यो नशत्।
    वयावन्तं स पुष्यति क्षयमग्ने शतायुषम्॥ ६.००२.०५

    त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः।
    सूरो न हि द्युता त्वं कृपा पावक रोचसे॥ ६.००२.०६
    अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः।

    रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः॥ ६.००२.०७

    क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः।
    परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः॥ ६.००२.०८

    त्वं त्या चिदच्युताग्ने पशुर्न यवसे।
    धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः॥ ६.००२.०९

    वेषि ह्यध्वरीयतामग्ने होता दमे विशाम्।
    समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः॥ ६.००२.१०

    अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः।
    वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम॥ ६.००२.११

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 03.

    अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे।
    यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः॥ ६.००३.०१

    ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश।
    एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः॥ ६.००३.०२

    सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः।
    हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः॥ ६.००३.०३

    तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा।
    विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत्॥ ६.००३.०४

    स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम्।
    चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः॥ ६.००३.०५

    स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः।
    नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन्॥ ६.००३.०६

    दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत्।
    घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी॥ ६.००३.०७

    धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः।
    शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत्॥ ६.००३.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 04.

    यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि।
    एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान्॥ ६.००४.०१

    स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात्।
    विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः॥ ६.००४.०२

    द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः।
    वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि॥ ६.००४.०३

    वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम्।
    स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः॥ ६.००४.०४

    नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून्।
    तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत्॥ ६.००४.०५

    आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा।
    चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन्॥ ६.००४.०६

    त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने।
    इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः॥ ६.००४.०७

    नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः।
    ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः॥ ६.००४.०८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 05.

    हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम्।
    य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक्॥ ६.००५.०१

    त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः।
    क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके॥ ६.००५.०२

    त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम्।
    अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि॥ ६.००५.०३

    यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात्।
    तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान्॥ ६.००५.०४

    यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत्।
    स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति॥ ६.००५.०५

    स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान्।
    यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म॥ ६.००५.०६

    अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम्।
    अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते॥ ६.००५.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 06.

    प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः।
    वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति॥ ६.००६.०१

    स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः।
    यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन्॥ ६.००६.०२

    वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति।
    तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः॥ ६.००६.०३

    ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः।
    अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः॥ ६.००६.०४

    अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना।
    शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि॥ ६.००६.०५

    आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ।
    स बाधस्वाप भया सहोभिः स्पृधो वनुष्यन्वनुषो नि जूर्व॥ ६.००६.०६

    स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम्।
    चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व॥ ६.००६.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 07.

    मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम्।
    कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः॥ ६.००७.०१

    नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त।
    वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः॥ ६.००७.०२

    त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः।
    वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि॥ ६.००७.०३

    त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते।
    तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः॥ ६.००७.०४

    वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष।
    यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम्॥ ६.००७.०५

    वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना।
    तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः॥ ६.००७.०६

    वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः।
    परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता॥ ६.००७.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 08.

    पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः।
    वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये॥ ६.००८.०१

    स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत।
    व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत्॥ ६.००८.०२

    व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः।
    वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम्॥ ६.००८.०३

    अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम्।
    आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः॥ ६.००८.०४

    युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम्।
    पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा॥ ६.००८.०५

    अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यम्।
    वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः॥ ६.००८.०६

    अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन्।
    रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारीः स्तवानः॥ ६.००८.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 09.

    अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः।
    वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि॥ ६.००९.०१

    नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः।
    कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा॥ ६.००९.०२

    स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति।
    य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन्॥ ६.००९.०३

    अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु।
    अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः॥ ६.००९.०४

    ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः।
    विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु॥ ६.००९.०५

    वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत्।
    वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये॥ ६.००९.०६

    विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम्।
    वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः॥ ६.००९.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं ६.
    Rigveda, Mandala - 6, Sutta - 10.

    पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम्।
    पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः॥ ६.०१०.०१

    तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः।
    स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते॥ ६.०१०.०२

    पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः।
    चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति॥ ६.०१०.०३

    आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा।
    अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः॥ ६.०१०.०४

    नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि।
    ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान्॥ ६.०१०.०५

    इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान्।
    भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ॥ ६.०१०.०६

    वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः॥ ६.०१०.०७

    Rigveda, Mandala - 6, Sutta - 10.

    No comments

    Post Top Ad

    Post Bottom Ad