Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८. Rig Veda, Mandala - 08, Sukta - 096 to 100.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 096.

    अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः।
    अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः॥ ८.०९६.०१
    अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम्।
    न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार॥ ८.०९६.०२
    इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः।
    शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके॥ ८.०९६.०३
    मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम्।
    मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम्॥ ८.०९६.०४
    आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ।
    प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम्॥ ८.०९६.०५
    तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात्।
    इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम॥ ८.०९६.०६
    वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः।
    मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि॥ ८.०९६.०७
    त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः।
    उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम॥ ८.०९६.०८
    तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष।
    अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन्॥ ८.०९६.०९
    मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः।
    गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत्॥ ८.०९६.१०
    उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम्।
    नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत्॥ ८.०९६.११
    तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास।
    उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत्॥ ८.०९६.१२
    अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः।
    आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त॥ ८.०९६.१३
    द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः।
    नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ॥ ८.०९६.१४
    अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः।
    विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे॥ ८.०९६.१५
    त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र।
    गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः॥ ८.०९६.१६
    त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ।
    त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः॥ ८.०९६.१७
    त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ।
    त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः॥ ८.०९६.१८
    स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान्।
    य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः॥ ८.०९६.१९
    स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम।
    स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता॥ ८.०९६.२०
    स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव।
    कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः॥ ८.०९६.२१


    Rig Veda, Mandala - 08, Sukta - 097.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः।
    स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः॥ ८.०९७.०१
    यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम्।
    यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ॥ ८.०९७.०२
    य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः।
    स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः॥ ८.०९७.०३
    यच्छक्रासि परावति यदर्वावति वृत्रहन्।
    अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावाँ आ विवासति॥ ८.०९७.०४
    यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि।
    यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि॥ ८.०९७.०५
    स नः सोमेषु सोमपाः सुतेषु शवसस्पते।
    मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा॥ ८.०९७.०६
    मा न इन्द्र परा वृणग्भवा नः सधमाद्यः।
    त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक्॥ ८.०९७.०७
    अस्मे इन्द्र सचा सुते नि षदा पीतये मधु।
    कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते॥ ८.०९७.०८
    न त्वा देवास आशत न मर्त्यासो अद्रिवः।
    विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत॥ ८.०९७.०९
    विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे।
    क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम्॥ ८.०९७.१०
    समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये।
    स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः॥ ८.०९७.११
    नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा।
    सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः॥ ८.०९७.१२
    तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि।
    मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री॥ ८.०९७.१३
    त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै।
    त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा॥ ८.०९७.१४
    तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि।
    कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन्॥ ८.०९७.१५


    Rig Veda, Mandala - 08, Sukta - 098.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    इन्द्राय साम गायत विप्राय बृहते बृहत्।
    धर्मकृते विपश्चिते पनस्यवे॥ ८.०९८.०१
    त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः।
    विश्वकर्मा विश्वदेवो महाँ असि॥ ८.०९८.०२
    विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः।
    देवास्त इन्द्र सख्याय येमिरे॥ ८.०९८.०३
    एन्द्र नो गधि प्रियः सत्राजिदगोह्यः।
    गिरिर्न विश्वतस्पृथुः पतिर्दिवः॥ ८.०९८.०४
    अभि हि सत्य सोमपा उभे बभूथ रोदसी।
    इन्द्रासि सुन्वतो वृधः पतिर्दिवः॥ ८.०९८.०५
    त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि।
    हन्ता दस्योर्मनोर्वृधः पतिर्दिवः॥ ८.०९८.०६
    अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे।
    उदेव यन्त उदभिः॥ ८.०९८.०७
    वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि।
    वावृध्वांसं चिदद्रिवो दिवेदिवे॥ ८.०९८.०८
    युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे।
    इन्द्रवाहा वचोयुजा॥ ८.०९८.०९
    त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे।
    आ वीरं पृतनाषहम्॥ ८.०९८.१०
    त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ।
    अधा ते सुम्नमीमहे॥ ८.०९८.११
    त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो।
    स नो रास्व सुवीर्यम्॥ ८.०९८.१२


    Rig Veda, Mandala - 08, Sukta - 099.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः।
    स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि॥ ८.०९९.०१
    मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः।
    तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः॥ ८.०९९.०२
    श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत।
    वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम॥ ८.०९९.०३
    अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः।
    सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥ ८.०९९.०४
    त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः।
    अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः॥ ८.०९९.०५
    अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा।
    विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि॥ ८.०९९.०६
    इत ऊती वो अजरं प्रहेतारमप्रहितम्।
    आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम्॥ ८.०९९.०७
    इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम्।
    समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम्॥ ८.०९९.०८


    Rig Veda, Mandala - 08, Sukta - 100.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात्।
    यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि॥ ८.१००.०१
    दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः।
    असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि॥ ८.१००.०२
    प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति।
    नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम॥ ८.१००.०३
    अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना।
    ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि॥ ८.१००.०४
    आ यन्मा वेना अरुहन्नृतस्यँ एकमासीनं हर्यतस्य पृष्ठे।
    मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः॥ ८.१००.०५
    विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते।
    पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे॥ ८.१००.०६
    प्र नूनं धावता पृथङ्नेह यो वो अवावरीत्।
    नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत्॥ ८.१००.०७
    मनोजवा अयमान आयसीमतरत्पुरम्।
    दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत्॥ ८.१००.०८
    समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः।
    भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम्॥ ८.१००.०९
    यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा।
    चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम॥ ८.१००.१०
    देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति।
    सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु॥ ८.१००.११
    सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे।
    हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः॥ ८.१००.१२

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad