Header Ads

  • Breaking News

    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८. Rig Veda, Mandala - 08, Sukta - 91 to 95.

    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 091.

    कन्या वारवायती सोममपि स्रुताविदत्।
    अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा॥ ८.०९१.०१
    असौ य एषि वीरको गृहंगृहं विचाकशद्।
    इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्॥ ८.०९१.०२
    आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि।
    शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव॥ ८.०९१.०३
    कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत्।
    कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै॥ ८.०९१.०४
    इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय।
    शिरस्ततस्योर्वरामादिदं म उपोदरे॥ ८.०९१.०५
    असौ च या न उर्वरादिमां तन्वं मम।
    अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि॥ ८.०९१.०६
    खे रथस्य खेऽनसः खे युगस्य शतक्रतो।
    अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम्॥ ८.०९१.०७


    Rig Veda, Mandala - 08, Sukta - 092.
    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.

    पान्तमा वो अन्धस इन्द्रमभि प्र गायत।
    विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम्॥ ८.०९२.०१
    पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम्।
    इन्द्र इति ब्रवीतन॥ ८.०९२.०२
    इन्द्र इन्नो महानां दाता वाजानां नृतुः।
    महाँ अभिज्ञ्वा यमत्॥ ८.०९२.०३
    अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः।
    इन्दोरिन्द्रो यवाशिरः॥ ८.०९२.०४
    तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये।
    तदिद्ध्यस्य वर्धनम्॥ ८.०९२.०५
    अस्य पीत्वा मदानां देवो देवस्यौजसा।
    विश्वाभि भुवना भुवत्॥ ८.०९२.०६
    त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम्।
    आ च्यावयस्यूतये॥ ८.०९२.०७
    युध्मं सन्तमनर्वाणं सोमपामनपच्युतम्।
    नरमवार्यक्रतुम्॥ ८.०९२.०८
    शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम।
    अवा नः पार्ये धने॥ ८.०९२.०९
    अतश्चिदिन्द्र ण उपा याहि शतवाजया।
    इषा सहस्रवाजया॥ ८.०९२.१०
    अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे।
    जयेम पृत्सु वज्रिवः॥ ८.०९२.११
    वयमु त्वा शतक्रतो गावो न यवसेष्वा।
    उक्थेषु रणयामसि॥ ८.०९२.१२
    विश्वा हि मर्त्यत्वनानुकामा शतक्रतो।
    अगन्म वज्रिन्नाशसः॥ ८.०९२.१३
    त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः।
    न त्वामिन्द्राति रिच्यते॥ ८.०९२.१४
    स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा।
    धियाविड्ढि पुरंध्या॥ ८.०९२.१५
    यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः।
    तेन नूनं मदे मदेः॥ ८.०९२.१६
    यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः।
    य ओजोदातमो मदः॥ ८.०९२.१७
    विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः।
    विश्वासु दस्म कृष्टिषु॥ ८.०९२.१८
    इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः।
    अर्कमर्चन्तु कारवः॥ ८.०९२.१९
    यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः।
    इन्द्रं सुते हवामहे॥ ८.०९२.२०
    त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत।
    तमिद्वर्धन्तु नो गिरः॥ ८.०९२.२१
    आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः।
    न त्वामिन्द्राति रिच्यते॥ ८.०९२.२२
    विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे।
    य इन्द्र जठरेषु ते॥ ८.०९२.२३
    अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन्।
    अरं धामभ्य इन्दवः॥ ८.०९२.२४
    अरमश्वाय गायति श्रुतकक्षो अरं गवे।
    अरमिन्द्रस्य धाम्ने॥ ८.०९२.२५
    अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि।
    अरं ते शक्र दावने॥ ८.०९२.२६
    पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः।
    अरं गमाम ते वयम्॥ ८.०९२.२७
    एवा ह्यसि वीरयुरेवा शूर उत स्थिरः।
    एवा ते राध्यं मनः॥ ८.०९२.२८
    एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः।
    अधा चिदिन्द्र मे सचा॥ ८.०९२.२९
    मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते।
    मत्स्वा सुतस्य गोमतः॥ ८.०९२.३०
    मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन्।
    त्वा युजा वनेम तत्॥ ८.०९२.३१
    त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः।
    त्वमस्माकं तव स्मसि॥ ८.०९२.३२
    त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान्।
    सखाय इन्द्र कारवः॥ ८.०९२.३३


    Rig Veda, Mandala - 08, Sukta - 093.
    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.

    उद्घेदभि श्रुतामघं वृषभं नर्यापसम्।
    अस्तारमेषि सूर्य॥ ८.०९३.०१
    नव यो नवतिं पुरो बिभेद बाह्वोजसा।
    अहिं च वृत्रहावधीत्॥ ८.०९३.०२
    स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।
    उरुधारेव दोहते॥ ८.०९३.०३
    यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य।
    सर्वं तदिन्द्र ते वशे॥ ८.०९३.०४
    यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे।
    उतो तत्सत्यमित्तव॥ ८.०९३.०५
    ये सोमासः परावति ये अर्वावति सुन्विरे।
    सर्वाँस्ताँ इन्द्र गच्छसि॥ ८.०९३.०६
    तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे।
    स वृषा वृषभो भुवत्॥ ८.०९३.०७
    इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः।
    द्युम्नी श्लोकी स सोम्यः॥ ८.०९३.०८
    गिरा वज्रो न सम्भृतः सबलो अनपच्युतः।
    ववक्ष ऋष्वो अस्तृतः॥ ८.०९३.०९
    दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः।
    त्वं च मघवन्वशः॥ ८.०९३.१०
    यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम्।
    न देवो नाध्रिगुर्जनः॥ ८.०९३.११
    अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः।
    उभे सुशिप्र रोदसी॥ ८.०९३.१२
    त्वमेतदधारयः कृष्णासु रोहिणीषु च।
    परुष्णीषु रुशत्पयः॥ ८.०९३.१३
    वि यदहेरध त्विषो विश्वे देवासो अक्रमुः।
    विदन्मृगस्य ताँ अमः॥ ८.०९३.१४
    आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम्।
    अजातशत्रुरस्तृतः॥ ८.०९३.१५
    श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम्।
    आ शुषे राधसे महे॥ ८.०९३.१६
    अया धिया च गव्यया पुरुणामन्पुरुष्टुत।
    यत्सोमेसोम आभवः॥ ८.०९३.१७
    बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः।
    शृणोतु शक्र आशिषम्॥ ८.०९३.१८
    कया त्वं न ऊत्याभि प्र मन्दसे वृषन्।
    कया स्तोतृभ्य आ भर॥ ८.०९३.१९
    कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत्।
    वृत्रहा सोमपीतये॥ ८.०९३.२०
    अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम्।
    प्रयन्ता बोधि दाशुषे॥ ८.०९३.२१
    पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये।
    अपां जग्मिर्निचुम्पुणः॥ ८.०९३.२२
    इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे।
    अच्छावभृथमोजसा॥ ८.०९३.२३
    इह त्या सधमाद्या हरी हिरण्यकेश्या।
    वोळ्हामभि प्रयो हितम्॥ ८.०९३.२४
    तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो।
    स्तोतृभ्य इन्द्रमा वह॥ ८.०९३.२५
    आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे।
    स्तोतृभ्य इन्द्रमर्चत॥ ८.०९३.२६
    आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो।
    स्तोतृभ्य इन्द्र मृळय॥ ८.०९३.२७
    भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो।
    यदिन्द्र मृळयासि नः॥ ८.०९३.२८
    स नो विश्वान्या भर सुवितानि शतक्रतो।
    यदिन्द्र मृळयासि नः॥ ८.०९३.२९
    त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे।
    यदिन्द्र मृळयासि नः॥ ८.०९३.३०
    उप नो हरिभिः सुतं याहि मदानां पते।
    उप नो हरिभिः सुतम्॥ ८.०९३.३१
    द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः।
    उप नो हरिभिः सुतम्॥ ८.०९३.३२
    त्वं हि वृत्रहन्नेषां पाता सोमानामसि।
    उप नो हरिभिः सुतम्॥ ८.०९३.३३
    इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम्।
    वाजी ददातु वाजिनम्॥ ८.०९३.३४


    Rig Veda, Mandala - 08, Sukta - 094.
    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.

    गौर्धयति मरुतां श्रवस्युर्माता मघोनाम्।
    युक्ता वह्नी रथानाम्॥ ८.०९४.०१
    यस्या देवा उपस्थे व्रता विश्वे धारयन्ते।
    सूर्यामासा दृशे कम्॥ ८.०९४.०२
    तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः।
    मरुतः सोमपीतये॥ ८.०९४.०३
    अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः।
    उत स्वराजो अश्विना॥ ८.०९४.०४
    पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः।
    त्रिषधस्थस्य जावतः॥ ८.०९४.०५
    उतो न्वस्य जोषमाँ इन्द्रः सुतस्य गोमतः।
    प्रातर्होतेव मत्सति॥ ८.०९४.०६
    कदत्विषन्त सूरयस्तिर आप इव स्रिधः।
    अर्षन्ति पूतदक्षसः॥ ८.०९४.०७
    कद्वो अद्य महानां देवानामवो वृणे।
    त्मना च दस्मवर्चसाम्॥ ८.०९४.०८
    आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः।
    मरुतः सोमपीतये॥ ८.०९४.०९
    त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे।
    अस्य सोमस्य पीतये॥ ८.०९४.१०
    त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे।
    अस्य सोमस्य पीतये॥ ८.०९४.११
    त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे।
    अस्य सोमस्य पीतये॥ ८.०९४.१२


    Rig Veda, Mandala - 08, Sukta - 095.
    ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.

    आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः।
    अभि त्वा समनूषतेन्द्र वत्सं न मातरः॥ ८.०९५.०१
    आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः।
    पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम्॥ ८.०९५.०२
    पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम्।
    त्वं हि शश्वतीनां पती राजा विशामसि॥ ८.०९५.०३
    श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति।
    सुवीर्यस्य गोमतो रायस्पूर्धि महाँ असि॥ ८.०९५.०४
    इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत्।
    चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम्॥ ८.०९५.०५
    तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः।
    पुरूण्यस्य पौंस्या सिषासन्तो वनामहे॥ ८.०९५.०६
    एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना।
    शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु॥ ८.०९५.०७
    इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः।
    शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः॥ ८.०९५.०८
    इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे।
    शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि॥ ८.०९५.०९

    Rig Veda, Mandala - 08. ऋग्वेदः, वैदिकस्वरविरहितः, मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad