Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 076 to 80.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 076.

    इमं नु मायिनं हुव इन्द्रमीशानमोजसा।
    मरुत्वन्तं न वृञ्जसे॥ ८.०७६.०१
    अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः।
    वज्रेण शतपर्वणा॥ ८.०७६.०२
    वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत्।
    सृजन्समुद्रिया अपः॥ ८.०७६.०३
    अयं ह येन वा इदं स्वर्मरुत्वता जितम्।
    इन्द्रेण सोमपीतये॥ ८.०७६.०४
    मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम्।
    इन्द्रं गीर्भिर्हवामहे॥ ८.०७६.०५
    इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे।
    अस्य सोमस्य पीतये॥ ८.०७६.०६
    मरुत्वाँ इन्द्र मीढ्वः पिबा सोमं शतक्रतो।
    अस्मिन्यज्ञे पुरुष्टुत॥ ८.०७६.०७
    तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः।
    हृदा हूयन्त उक्थिनः॥ ८.०७६.०८
    पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु।
    वज्रं शिशान ओजसा॥ ८.०७६.०९
    उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः।
    सोममिन्द्र चमू सुतम्॥ ८.०७६.१०
    अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम्।
    इन्द्र यद्दस्युहाभवः॥ ८.०७६.११
    वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्।
    इन्द्रात्परि तन्वं ममे॥ ८.०७६.१२

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 077.

    जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम्।
    क उग्राः के ह शृण्विरे॥ ८.०७७.०१
    आदीं शवस्यब्रवीदौर्णवाभमहीशुवम्।
    ते पुत्र सन्तु निष्टुरः॥ ८.०७७.०२
    समित्तान्वृत्रहाखिदत्खे अराँ इव खेदया।
    प्रवृद्धो दस्युहाभवत्॥ ८.०७७.०३
    एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम्।
    इन्द्रः सोमस्य काणुका॥ ८.०७७.०४
    अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा।
    इन्द्रो ब्रह्मभ्य इद्वृधे॥ ८.०७७.०५
    निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम्।
    इन्द्रो बुन्दं स्वाततम्॥ ८.०७७.०६
    शतब्रध्न इषुस्तव सहस्रपर्ण एक इत्।
    यमिन्द्र चकृषे युजम्॥ ८.०७७.०७
    तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे।
    सद्यो जात ऋभुष्ठिर॥ ८.०७७.०८
    एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा।
    हृदा वीड्वधारयः॥ ८.०७७.०९
    विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः।
    शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम्॥ ८.०७७.१०
    तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः।
    उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा॥ ८.०७७.११

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 078.

    पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर।
    शता च शूर गोनाम्॥ ८.०७८.०१
    आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम्।
    सचा मना हिरण्यया॥ ८.०७८.०२
    उत नः कर्णशोभना पुरूणि धृष्णवा भर।
    त्वं हि शृण्विषे वसो॥ ८.०७८.०३
    नकीं वृधीक इन्द्र ते न सुषा न सुदा उत।
    नान्यस्त्वच्छूर वाघतः॥ ८.०७८.०४
    नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे।
    विश्वं शृणोति पश्यति॥ ८.०७८.०५
    स मन्युं मर्त्यानामदब्धो नि चिकीषते।
    पुरा निदश्चिकीषते॥ ८.०७८.०६
    क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः।
    वृत्रघ्नः सोमपाव्नः॥ ८.०७८.०७
    त्वे वसूनि संगता विश्वा च सोम सौभगा।
    सुदात्वपरिह्वृता॥ ८.०७८.०८
    त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः।
    त्वामश्वयुरेषते॥ ८.०७८.०९
    तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे।
    दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना॥ ८.०७८.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 079.

    अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः।
    ऋषिर्विप्रः काव्येन॥ ८.०७९.०१
    अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम्।
    प्रेमन्धः ख्यन्निः श्रोणो भूत्॥ ८.०७९.०२
    त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः।
    उरु यन्तासि वरूथम्॥ ८.०७९.०३
    त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन्।
    यावीरघस्य चिद्द्वेषः॥ ८.०७९.०४
    अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम्।
    ववृज्युस्तृष्यतः कामम्॥ ८.०७९.०५
    विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत्।
    प्रेमायुस्तारीदतीर्णम्॥ ८.०७९.०६
    सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः।
    भवा नः सोम शं हृदे॥ ८.०७९.०७
    मा नः सोम सं वीविजो मा वि बीभिषथा राजन्।
    मा नो हार्दि त्विषा वधीः॥ ८.०७९.०८
    अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे।
    राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध॥ ८.०७९.०९

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 080.

    नह्यन्यं बळाकरं मर्डितारं शतक्रतो।
    त्वं न इन्द्र मृळय॥ ८.०८०.०१
    यो नः शश्वत्पुराविथामृध्रो वाजसातये।
    स त्वं न इन्द्र मृळय॥ ८.०८०.०२
    किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि।
    कुवित्स्विन्द्र णः शकः॥ ८.०८०.०३
    इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः।
    पुरस्तादेनं मे कृधि॥ ८.०८०.०४
    हन्तो नु किमाससे प्रथमं नो रथं कृधि।
    उपमं वाजयु श्रवः॥ ८.०८०.०५
    अवा नो वाजयुं रथं सुकरं ते किमित्परि।
    अस्मान्सु जिग्युषस्कृधि॥ ८.०८०.०६
    इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम्।
    इयं धीरृत्वियावती॥ ८.०८०.०७
    मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम्।
    अपावृक्ता अरत्नयः॥ ८.०८०.०८
    तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि।
    आदित्पतिर्न ओहसे॥ ८.०८०.०९
    अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः।
    तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात्॥ ८.०८०.१०

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad