ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 081 to 85.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 081.
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय।
महाहस्ती दक्षिणेन॥ ८.०८१.०१
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्।
तुविमात्रमवोभिः॥ ८.०८१.०२
नहि त्वा शूर देवा न मर्तासो दित्सन्तम्।
भीमं न गां वारयन्ते॥ ८.०८१.०३
एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम्।
न राधसा मर्धिषन्नः॥ ८.०८१.०४
प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम्।
अभि राधसा जुगुरत्॥ ८.०८१.०५
आ नो भर दक्षिणेनाभि सव्येन प्र मृश।
इन्द्र मा नो वसोर्निर्भाक्॥ ८.०८१.०६
उप क्रमस्वा भर धृषता धृष्णो जनानाम्।
अदाशूष्टरस्य वेदः॥ ८.०८१.०७
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः।
अस्माभिः सु तं सनुहि॥ ८.०८१.०८
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः।
वशैश्च मक्षू जरन्ते॥ ८.०८१.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 082.
आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन्।
मध्वः प्रति प्रभर्मणि॥ ८.०८२.०१
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः।
पिबा दधृग्यथोचिषे॥ ८.०८२.०२
इषा मन्दस्वादु तेऽरं वराय मन्यवे।
भुवत्त इन्द्र शं हृदे॥ ८.०८२.०३
आ त्वशत्रवा गहि न्युक्थानि च हूयसे।
उपमे रोचने दिवः॥ ८.०८२.०४
तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम्।
प्र सोम इन्द्र हूयते॥ ८.०८२.०५
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः।
वि पीतिं तृप्तिमश्नुहि॥ ८.०८२.०६
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०७
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०८
यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम्।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 083.
देवानामिदवो महत्तदा वृणीमहे वयम्।
वृष्णामस्मभ्यमूतये॥ ८.०८३.०१
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा।
वृधासश्च प्रचेतसः॥ ८.०८३.०२
अति नो विष्पिता पुरु नौभिरपो न पर्षथ।
यूयमृतस्य रथ्यः॥ ८.०८३.०३
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम्।
वामं ह्यावृणीमहे॥ ८.०८३.०४
वामस्य हि प्रचेतस ईशानाशो रिशादसः।
नेमादित्या अघस्य यत्॥ ८.०८३.०५
वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना।
देवा वृधाय हूमहे॥ ८.०८३.०६
अधि न इन्द्रैषां विष्णो सजात्यानाम्।
इता मरुतो अश्विना॥ ८.०८३.०७
प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या।
मातुर्गर्भे भरामहे॥ ८.०८३.०८
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः।
अधा चिद्व उत ब्रुवे॥ ८.०८३.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 084.
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम्।
अग्निं रथं न वेद्यम्॥ ८.०८४.०१
कविमिव प्रचेतसं यं देवासो अध द्विता।
नि मर्त्येष्वादधुः॥ ८.०८४.०२
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः।
रक्षा तोकमुत त्मना॥ ८.०८४.०३
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम्।
वराय देव मन्यवे॥ ८.०८४.०४
दाशेम कस्य मनसा यज्ञस्य सहसो यहो।
कदु वोच इदं नमः॥ ८.०८४.०५
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः।
वाजद्रविणसो गिरः॥ ८.०८४.०६
कस्य नूनं परीणसो धियो जिन्वसि दम्पते।
गोषाता यस्य ते गिरः॥ ८.०८४.०७
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु।
स्वेषु क्षयेषु वाजिनम्॥ ८.०८४.०८
क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः।
अग्ने सुवीर एधते॥ ८.०८४.०९
Rig Veda, Mandala - 08, Sukta - 085.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
आ मे हवं नासत्याश्विना गच्छतं युवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०१
इमं मे स्तोममश्विनेमं मे शृणुतं हवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०२
अयं वां कृष्णो अश्विना हवते वाजिनीवसू।
मध्वः सोमस्य पीतये॥ ८.०८५.०३
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा।
मध्वः सोमस्य पीतये॥ ८.०८५.०४
छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा।
मध्वः सोमस्य पीतये॥ ८.०८५.०५
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना।
मध्वः सोमस्य पीतये॥ ८.०८५.०६
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू।
मध्वः सोमस्य पीतये॥ ८.०८५.०७
त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना।
मध्वः सोमस्य पीतये॥ ८.०८५.०८
नू मे गिरो नासत्याश्विना प्रावतं युवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०९
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 081.
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय।
महाहस्ती दक्षिणेन॥ ८.०८१.०१
विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम्।
तुविमात्रमवोभिः॥ ८.०८१.०२
नहि त्वा शूर देवा न मर्तासो दित्सन्तम्।
भीमं न गां वारयन्ते॥ ८.०८१.०३
एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम्।
न राधसा मर्धिषन्नः॥ ८.०८१.०४
प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम्।
अभि राधसा जुगुरत्॥ ८.०८१.०५
आ नो भर दक्षिणेनाभि सव्येन प्र मृश।
इन्द्र मा नो वसोर्निर्भाक्॥ ८.०८१.०६
उप क्रमस्वा भर धृषता धृष्णो जनानाम्।
अदाशूष्टरस्य वेदः॥ ८.०८१.०७
इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः।
अस्माभिः सु तं सनुहि॥ ८.०८१.०८
सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः।
वशैश्च मक्षू जरन्ते॥ ८.०८१.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 082.
आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन्।
मध्वः प्रति प्रभर्मणि॥ ८.०८२.०१
तीव्राः सोमास आ गहि सुतासो मादयिष्णवः।
पिबा दधृग्यथोचिषे॥ ८.०८२.०२
इषा मन्दस्वादु तेऽरं वराय मन्यवे।
भुवत्त इन्द्र शं हृदे॥ ८.०८२.०३
आ त्वशत्रवा गहि न्युक्थानि च हूयसे।
उपमे रोचने दिवः॥ ८.०८२.०४
तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम्।
प्र सोम इन्द्र हूयते॥ ८.०८२.०५
इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः।
वि पीतिं तृप्तिमश्नुहि॥ ८.०८२.०६
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०७
यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०८
यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम्।
पिबेदस्य त्वमीशिषे॥ ८.०८२.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 083.
देवानामिदवो महत्तदा वृणीमहे वयम्।
वृष्णामस्मभ्यमूतये॥ ८.०८३.०१
ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा।
वृधासश्च प्रचेतसः॥ ८.०८३.०२
अति नो विष्पिता पुरु नौभिरपो न पर्षथ।
यूयमृतस्य रथ्यः॥ ८.०८३.०३
वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम्।
वामं ह्यावृणीमहे॥ ८.०८३.०४
वामस्य हि प्रचेतस ईशानाशो रिशादसः।
नेमादित्या अघस्य यत्॥ ८.०८३.०५
वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना।
देवा वृधाय हूमहे॥ ८.०८३.०६
अधि न इन्द्रैषां विष्णो सजात्यानाम्।
इता मरुतो अश्विना॥ ८.०८३.०७
प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या।
मातुर्गर्भे भरामहे॥ ८.०८३.०८
यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः।
अधा चिद्व उत ब्रुवे॥ ८.०८३.०९
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
Rig Veda, Mandala - 08, Sukta - 084.
प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम्।
अग्निं रथं न वेद्यम्॥ ८.०८४.०१
कविमिव प्रचेतसं यं देवासो अध द्विता।
नि मर्त्येष्वादधुः॥ ८.०८४.०२
त्वं यविष्ठ दाशुषो नॄँः पाहि शृणुधी गिरः।
रक्षा तोकमुत त्मना॥ ८.०८४.०३
कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम्।
वराय देव मन्यवे॥ ८.०८४.०४
दाशेम कस्य मनसा यज्ञस्य सहसो यहो।
कदु वोच इदं नमः॥ ८.०८४.०५
अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः।
वाजद्रविणसो गिरः॥ ८.०८४.०६
कस्य नूनं परीणसो धियो जिन्वसि दम्पते।
गोषाता यस्य ते गिरः॥ ८.०८४.०७
तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु।
स्वेषु क्षयेषु वाजिनम्॥ ८.०८४.०८
क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः।
अग्ने सुवीर एधते॥ ८.०८४.०९
Rig Veda, Mandala - 08, Sukta - 085.
ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
आ मे हवं नासत्याश्विना गच्छतं युवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०१
इमं मे स्तोममश्विनेमं मे शृणुतं हवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०२
अयं वां कृष्णो अश्विना हवते वाजिनीवसू।
मध्वः सोमस्य पीतये॥ ८.०८५.०३
शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा।
मध्वः सोमस्य पीतये॥ ८.०८५.०४
छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा।
मध्वः सोमस्य पीतये॥ ८.०८५.०५
गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना।
मध्वः सोमस्य पीतये॥ ८.०८५.०६
युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू।
मध्वः सोमस्य पीतये॥ ८.०८५.०७
त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना।
मध्वः सोमस्य पीतये॥ ८.०८५.०८
नू मे गिरो नासत्याश्विना प्रावतं युवम्।
मध्वः सोमस्य पीतये॥ ८.०८५.०९
Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
No comments