Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 071.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 071.

    त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः।
    उत द्विषो मर्त्यस्य॥ ८.०७१.०१
    नहि मन्युः पौरुषेय ईशे हि वः प्रियजात।
    त्वमिदसि क्षपावान्॥ ८.०७१.०२
    स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे।
    रयिं देहि विश्ववारम्॥ ८.०७१.०३
    न तमग्ने अरातयो मर्तं युवन्त रायः।
    यं त्रायसे दाश्वांसम्॥ ८.०७१.०४
    यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय।
    स तवोती गोषु गन्ता॥ ८.०७१.०५
    त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय।
    प्र णो नय वस्यो अच्छ॥ ८.०७१.०६
    उरुष्या णो मा परा दा अघायते जातवेदः।
    दुराध्ये मर्ताय॥ ८.०७१.०७
    अग्ने माकिष्टे देवस्य रातिमदेवो युयोत।
    त्वमीशिषे वसूनाम्॥ ८.०७१.०८
    स नो वस्व उप मास्यूर्जो नपान्माहिनस्य।
    सखे वसो जरितृभ्यः॥ ८.०७१.०९
    अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम्।
    अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये॥ ८.०७१.१०
    अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम्।
    द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि॥ ८.०७१.११
    अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे।
    अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे॥ ८.०७१.१२
    अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम्।
    अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम्॥ ८.०७१.१३
    अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम्।
    अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः॥ ८.०७१.१४
    अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे।
    विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम्॥ ८.०७१.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 072.

    हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः।
    विद्वाँ अस्य प्रशासनम्॥ ८.०७२.०१
    नि तिग्ममभ्यंशुं सीदद्धोता मनावधि।
    जुषाणो अस्य सख्यम्॥ ८.०७२.०२
    अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया।
    गृभ्णन्ति जिह्वया ससम्॥ ८.०७२.०३
    जाम्यतीतपे धनुर्वयोधा अरुहद्वनम्।
    दृषदं जिह्वयावधीत्॥ ८.०७२.०४
    चरन्वत्सो रुशन्निह निदातारं न विन्दते।
    वेति स्तोतव अम्ब्यम्॥ ८.०७२.०५
    उतो न्वस्य यन्महदश्वावद्योजनं बृहद्।
    दामा रथस्य ददृशे॥ ८.०७२.०६
    दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः।
    तीर्थे सिन्धोरधि स्वरे॥ ८.०७२.०७
    आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत्।
    खेदया त्रिवृता दिवः॥ ८.०७२.०८
    परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी।
    मध्वा होतारो अञ्जते॥ ८.०७२.०९
    सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम्।
    नीचीनबारमक्षितम्॥ ८.०७२.१०
    अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु।
    अवतस्य विसर्जने॥ ८.०७२.११
    गाव उपावतावतं मही यज्ञस्य रप्सुदा।
    उभा कर्णा हिरण्यया॥ ८.०७२.१२
    आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम्।
    रसा दधीत वृषभम्॥ ८.०७२.१३
    ते जानत स्वमोक्यं सं वत्सासो न मातृभिः।
    मिथो नसन्त जामिभिः॥ ८.०७२.१४
    उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि।
    इन्द्रे अग्ना नमः स्वः॥ ८.०७२.१५
    अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः।
    सूर्यस्य सप्त रश्मिभिः॥ ८.०७२.१६
    सोमस्य मित्रावरुणोदिता सूर आ ददे।
    तदातुरस्य भेषजम्॥ ८.०७२.१७
    उतो न्वस्य यत्पदं हर्यतस्य निधान्यम्।
    परि द्यां जिह्वयातनत्॥ ८.०७२.१८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 073.

    उदीराथामृतायते युञ्जाथामश्विना रथम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०१
    निमिषश्चिज्जवीयसा रथेना यातमश्विना।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०२
    उप स्तृणीतमत्रये हिमेन घर्ममश्विना।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०३
    कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०४
    यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०५
    अश्विना यामहूतमा नेदिष्ठं याम्याप्यम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०६
    अवन्तमत्रये गृहं कृणुतं युवमश्विना।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०७
    वरेथे अग्निमातपो वदते वल्ग्वत्रये।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०८
    प्र सप्तवध्रिराशसा धारामग्नेरशायत।
    अन्ति षद्भूतु वामवः॥ ८.०७३.०९
    इहा गतं वृषण्वसू शृणुतं म इमं हवम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१०
    किमिदं वां पुराणवज्जरतोरिव शस्यते।
    अन्ति षद्भूतु वामवः॥ ८.०७३.११
    समानं वां सजात्यं समानो बन्धुरश्विना।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१२
    यो वां रजांस्यश्विना रथो वियाति रोदसी।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१३
    आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१४
    मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम्।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१५
    अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१६
    अश्विना सु विचाकशद्वृक्षं परशुमाँ इव।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१७
    पुरं न धृष्णवा रुज कृष्णया बाधितो विशा।
    अन्ति षद्भूतु वामवः॥ ८.०७३.१८

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 074.

    विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम्।
    अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः॥ ८.०७४.०१
    यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम्।
    प्रशंसन्ति प्रशस्तिभिः॥ ८.०७४.०२
    पन्यांसं जातवेदसं यो देवतात्युद्यता।
    हव्यान्यैरयद्दिवि॥ ८.०७४.०३
    आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम्।
    यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते॥ ८.०७४.०४
    अमृतं जातवेदसं तिरस्तमांसि दर्शतम्।
    घृताहवनमीड्यम्॥ ८.०७४.०५
    सबाधो यं जना इमेऽग्निं हव्येभिरीळते।
    जुह्वानासो यतस्रुचः॥ ८.०७४.०६
    इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा।
    मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे॥ ८.०७४.०७
    सा ते अग्ने शंतमा चनिष्ठा भवतु प्रिया।
    तया वर्धस्व सुष्टुतः॥ ८.०७४.०८
    सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः।
    दधीत वृत्रतूर्ये॥ ८.०७४.०९
    अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम्।
    यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः॥ ८.०७४.१०
    यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः।
    स पावक श्रुधी हवम्॥ ८.०७४.११
    यं त्वा जनास ईळते सबाधो वाजसातये।
    स बोधि वृत्रतूर्ये॥ ८.०७४.१२
    अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति।
    शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम्॥ ८.०७४.१३
    मां चत्वार आशवः शविष्ठस्य द्रवित्नवः।
    सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम्॥ ८.०७४.१४
    सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम्।
    नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः॥ ८.०७४.१५

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 075.

    युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव।
    नि होता पूर्व्यः सदः॥ ८.०७५.०१
    उत नो देव देवाँ अच्छा वोचो विदुष्टरः।
    श्रद्विश्वा वार्या कृधि॥ ८.०७५.०२
    त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत।
    ऋतावा यज्ञियो भुवः॥ ८.०७५.०३
    अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः।
    मूर्धा कवी रयीणाम्॥ ८.०७५.०४
    तं नेमिमृभवो यथा नमस्व सहूतिभिः।
    नेदीयो यज्ञमङ्गिरः॥ ८.०७५.०५
    तस्मै नूनमभिद्यवे वाचा विरूप नित्यया।
    वृष्णे चोदस्व सुष्टुतिम्॥ ८.०७५.०६
    कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः।
    पणिं गोषु स्तरामहे॥ ८.०७५.०७
    मा नो देवानां विशः प्रस्नातीरिवोस्राः।
    कृशं न हासुरघ्न्याः॥ ८.०७५.०८
    मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः।
    ऊर्मिर्न नावमा वधीत्॥ ८.०७५.०९
    नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः।
    अमैरमित्रमर्दय॥ ८.०७५.१०
    कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम्।
    उरुकृदुरु णस्कृधि॥ ८.०७५.११
    मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा।
    संवर्गं सं रयिं जय॥ ८.०७५.१२
    अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना।
    वर्धा नो अमवच्छवः॥ ८.०७५.१३
    यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा।
    तं घेदग्निर्वृधावति॥ ८.०७५.१४
    परस्या अधि संवतोऽवराँ अभ्या तर।
    यत्राहमस्मि ताँ अव॥ ८.०७५.१५
    विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः।
    अधा ते सुम्नमीमहे॥ ८.०७५.१६

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad