Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 086 to 90.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 086.


    उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः।
    ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम्॥ ८.०८६.०१
    कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्य‍इष्टये।
    ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम्॥ ८.०८६.०२
    युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्य‍इष्टये।
    ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम्॥ ८.०८६.०३
    उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे।
    यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम्॥ ८.०८६.०४
    ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे।
    ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम्॥ ८.०८६.०५


    Rig Veda, Mandala - 08, Sukta - 087.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.


    द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम्।
    मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे॥ ८.०८७.०१
    पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा।
    ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः॥ ८.०८७.०२
    आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत।
    ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु॥ ८.०८७.०३
    पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत्।
    ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम्॥ ८.०८७.०४
    आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः।
    दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा॥ ८.०८७.०५
    वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये।
    ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम्॥ ८.०८७.०६


    Rig Veda, Mandala - 08, Sukta - 088.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.


    तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः।
    अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे॥ ८.०८८.०१
    द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम्।
    क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे॥ ८.०८८.०२
    न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः।
    यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते॥ ८.०८८.०३
    योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना।
    आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन्॥ ८.०८८.०४
    प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि।
    न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ॥ ८.०८८.०५
    नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि।
    अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये॥ ८.०८८.०६


    Rig Veda, Mandala - 08, Sukta - 089.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.


    बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम्।
    येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि॥ ८.०८९.०१
    अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत्।
    देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण॥ ८.०८९.०२
    प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत।
    वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा॥ ८.०८९.०३
    अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत्।
    अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः॥ ८.०८९.०४
    यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय।
    तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम्॥ ८.०८९.०५
    तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः।
    तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम्॥ ८.०८९.०६
    आमासु पक्वमैरय आ सूर्यं रोहयो दिवि।
    घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत्॥ ८.०८९.०७


    Rig Veda, Mandala - 08, Sukta - 090.
    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.


    आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु।
    उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः॥ ८.०९०.०१
    त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत्।
    तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः॥ ८.०९०.०२
    ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता।
    इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि॥ ८.०९०.०३
    त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे।
    स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि॥ ८.०९०.०४
    त्वमिन्द्र यशा अस्यृजीषी शवसस्पते।
    त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता॥ ८.०९०.०५
    तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे।
    महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन्॥ ८.०९०.०६

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad