Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 86 to 90. Astro Classes

    Rig Veda, Mandala - 09, Sukta - 86.

    प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना।

    दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते॥ ९.०८६.०१

    प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक्।

    धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः॥ ९.०८६.०२

    अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम्।

    वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे॥ ९.०८६.०३

    प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि।

    प्रान्तरृषयः स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः॥ ९.०८६.०४

    विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः।

    व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि॥ ९.०८६.०५

    उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः।

    यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति॥ ९.०८६.०६

    यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम्।

    सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत्॥ ९.०८६.०७

    राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः।

    अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः॥ ९.०८६.०८

    दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः।

    इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति॥ ९.०८६.०९

    ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः।

    दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः॥ ९.०८६.१०

    अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः।

    हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा॥ ९.०८६.११

    अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति।

    अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा॥ ९.०८६.१२

    अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा।

    तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते॥ ९.०८६.१३

    द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः।

    स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति॥ ९.०८६.१४

    सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे।

    पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः॥ ९.०८६.१५

    प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम्।

    मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा॥ ९.०८६.१६

    प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः।

    सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः॥ ९.०८६.१७

    आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम्।

    या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम्॥ ९.०८६.१८

    वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः।

    क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः॥ ९.०८६.१९

    मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत्।

    त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे॥ ९.०८६.२०

    अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत्।

    अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः॥ ९.०८६.२१

    पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ।

    सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि॥ ९.०८६.२२

    अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन्।

    त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप॥ ९.०८६.२३

    त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः।

    त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम्॥ ९.०८६.२४

    अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः।

    अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत॥ ९.०८६.२५

    इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे।

    गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति॥ ९.०८६.२६

    असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः।

    क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः॥ ९.०८६.२७

    तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि।

    अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि॥ ९.०८६.२८

    त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि।

    त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः॥ ९.०८६.२९

    त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे।

    त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे॥ ९.०८६.३०

    प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः।

    सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम्॥ ९.०८६.३१

    स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे।

    नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम्॥ ९.०८६.३२

    राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत्।

    सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः॥ ९.०८६.३३

    पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया।

    गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि॥ ९.०८६.३४

    इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि।

    इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः॥ ९.०८६.३५

    सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम्।

    अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे॥ ९.०८६.३६

    ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः।

    तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः॥ ९.०८६.३७

    त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि।

    स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे॥ ९.०८६.३८

    गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः।

    त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते॥ ९.०८६.३९

    उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते।

    राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत्॥ ९.०८६.४०

    स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि।

    ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात्॥ ९.०८६.४१

    सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः।

    द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि॥ ९.०८६.४२

    अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते।

    सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते॥ ९.०८६.४३

    विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति।

    अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः॥ ९.०८६.४४

    अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः।

    हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः॥ ९.०८६.४५

    असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति।

    अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः॥ ९.०८६.४६

    प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः।

    यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि॥ ९.०८६.४७

    पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम्।

    जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः॥ ९.०८६.४८

    Rig Veda, Mandala - 09, Sukta - 87.

    प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष।

    अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति॥ ९.०८७.०१

    स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः।

    पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥ ९.०८७.०२

    ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन।

    स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम्॥ ९.०८७.०३

    एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः।

    सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात्॥ ९.०८७.०४

    एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि।

    पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः॥ ९.०८७.०५

    परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः।

    अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष॥ ९.०८७.०६

    एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा।

    तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा॥ ९.०८७.०७

    एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद।

    दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा॥ ९.०८७.०८

    उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः।

    पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत्॥ ९.०८७.०९

    Rig Veda, Mandala - 09, Sukta - 88.

    अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि।

    त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम्॥ ९.०८८.०१

    स ईं रथो न भुरिषाळयोजि महः पुरूणि सातये वसूनि।

    आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त॥ ९.०८८.०२

    वायुर्न यो नियुत्वाँ इष्टयामा नासत्येव हव आ शम्भविष्ठः।

    विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम॥ ९.०८८.०३

    इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित्।

    पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः॥ ९.०८८.०४

    अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु।

    जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम्॥ ९.०८८.०५

    एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः।

    वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशाँ असृग्रन्॥ ९.०८८.०६

    शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट्।

    आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः॥ ९.०८८.०७

    राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम।

    शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम॥ ९.०८८.०८

    Rig Veda, Mandala - 09, Sukta - 89.

    प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः।

    सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः॥ ९.०८९.०१

    राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम्।

    अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम्॥ ९.०८९.०२

    सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम्।

    शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा॥ ९.०८९.०३

    मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम्।

    स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति॥ ९.०८९.०४

    चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः।

    ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः॥ ९.०८९.०५

    विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य।

    असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय॥ ९.०८९.०६

    वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व।

    शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम॥ ९.०८९.०७
    Rig Veda, Mandala - 09, Sukta - 90.

    प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत्।

    इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः॥ ९.०९०.०१

    अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः।

    वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि॥ ९.०९०.०२

    शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि।

    तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून्॥ ९.०९०.०३

    उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरंधी।

    अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान्॥ ९.०९०.०४

    मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम्।

    मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय॥ ९.०९०.०५

    एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व।

    इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः॥ ९.०९०.०६

    No comments

    Post Top Ad

    Post Bottom Ad