Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 66 to 70. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 66.

    पवस्व विश्वचर्षणेऽभि विश्वानि काव्या।

    सखा सखिभ्य ईड्यः॥ ९.०६६.०१

    ताभ्यां विश्वस्य राजसि ये पवमान धामनी।

    प्रतीची सोम तस्थतुः॥ ९.०६६.०२

    परि धामानि यानि ते त्वं सोमासि विश्वतः।

    पवमान ऋतुभिः कवे॥ ९.०६६.०३

    पवस्व जनयन्निषोऽभि विश्वानि वार्या।

    सखा सखिभ्य ऊतये॥ ९.०६६.०४

    तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते।

    पवित्रं सोम धामभिः॥ ९.०६६.०५

    तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते।

    तुभ्यं धावन्ति धेनवः॥ ९.०६६.०६

    प्र सोम याहि धारया सुत इन्द्राय मत्सरः।

    दधानो अक्षिति श्रवः॥ ९.०६६.०७

    समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः।

    विप्रमाजा विवस्वतः॥ ९.०६६.०८

    मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि।

    रेभो यदज्यसे वने॥ ९.०६६.०९

    पवमानस्य ते कवे वाजिन्सर्गा असृक्षत।

    अर्वन्तो न श्रवस्यवः॥ ९.०६६.१०

    अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये।

    अवावशन्त धीतयः॥ ९.०६६.११

    अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः।

    अग्मन्नृतस्य योनिमा॥ ९.०६६.१२

    प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः।

    यद्गोभिर्वासयिष्यसे॥ ९.०६६.१३

    अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः।

    इन्दो सखित्वमुश्मसि॥ ९.०६६.१४

    आ पवस्व गविष्टये महे सोम नृचक्षसे।

    एन्द्रस्य जठरे विश॥ ९.०६६.१५

    महाँ असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः।

    युध्वा सञ्छश्वज्जिगेथ॥ ९.०६६.१६

    य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः।

    भूरिदाभ्यश्चिन्मंहीयान्॥ ९.०६६.१७

    त्वं सोम सूर एषस्तोकस्य साता तनूनाम्।

    वृणीमहे सख्याय वृणीमहे युज्याय॥ ९.०६६.१८

    अग्न आयूंषि पवस आ सुवोर्जमिषं च नः।

    आरे बाधस्व दुच्छुनाम्॥ ९.०६६.१९

    अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः।

    तमीमहे महागयम्॥ ९.०६६.२०

    अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्।

    दधद्रयिं मयि पोषम्॥ ९.०६६.२१

    पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम्।

    सूरो न विश्वदर्शतः॥ ९.०६६.२२

    स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः।

    इन्दुरत्यो विचक्षणः॥ ९.०६६.२३

    पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत्।

    कृष्णा तमांसि जङ्घनत्॥ ९.०६६.२४

    पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत।

    जीरा अजिरशोचिषः॥ ९.०६६.२५

    पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः।

    हरिश्चन्द्रो मरुद्गणः॥ ९.०६६.२६

    पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः।

    दधत्स्तोत्रे सुवीर्यम्॥ ९.०६६.२७

    प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम्।

    पुनान इन्दुरिन्द्रमा॥ ९.०६६.२८

    एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः।

    इन्द्रं मदाय जोहुवत्॥ ९.०६६.२९

    यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः।

    तेन नो मृळ जीवसे॥ ९.०६६.३०

    Rig Veda, Mandala - 09, Sukta - 67.

    त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे।

    पवस्व मंहयद्रयिः॥ ९.०६७.०१

    त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः।

    इन्द्राय सूरिरन्धसा॥ ९.०६७.०२

    त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत्।

    द्युमन्तं शुष्ममुत्तमम्॥ ९.०६७.०३

    इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया।

    हरिर्वाजमचिक्रदत्॥ ९.०६७.०४

    इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा।

    वि वाजान्सोम गोमतः॥ ९.०६७.०५

    आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम्।

    भरा सोम सहस्रिणम्॥ ९.०६७.०६

    पवमानास इन्दवस्तिरः पवित्रमाशवः।

    इन्द्रं यामेभिराशत॥ ९.०६७.०७

    ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः।

    आयुः पवत आयवे॥ ९.०६७.०८

    हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम्।

    अभि गिरा समस्वरन्॥ ९.०६७.०९

    अविता नो अजाश्वः पूषा यामनियामनि।

    आ भक्षत्कन्यासु नः॥ ९.०६७.१०

    अयं सोमः कपर्दिने घृतं न पवते मधु।

    आ भक्षत्कन्यासु नः॥ ९.०६७.११

    अयं त आघृणे सुतो घृतं न पवते शुचि।

    आ भक्षत्कन्यासु नः॥ ९.०६७.१२

    वाचो जन्तुः कवीनां पवस्व सोम धारया।

    देवेषु रत्नधा असि॥ ९.०६७.१३

    आ कलशेषु धावति श्येनो वर्म वि गाहते।

    अभि द्रोणा कनिक्रदत्॥ ९.०६७.१४

    परि प्र सोम ते रसोऽसर्जि कलशे सुतः।

    श्येनो न तक्तो अर्षति॥ ९.०६७.१५

    पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः॥ ९.०६७.१६

    असृग्रन्देववीतये वाजयन्तो रथा इव॥ ९.०६७.१७

    ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत॥ ९.०६७.१८

    ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि।

    दधत्स्तोत्रे सुवीर्यम्॥ ९.०६७.१९

    एष तुन्नो अभिष्टुतः पवित्रमति गाहते।

    रक्षोहा वारमव्ययम्॥ ९.०६७.२०

    यदन्ति यच्च दूरके भयं विन्दति मामिह।

    पवमान वि तज्जहि॥ ९.०६७.२१

    पवमानः सो अद्य नः पवित्रेण विचर्षणिः।

    यः पोता स पुनातु नः॥ ९.०६७.२२

    यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा।

    ब्रह्म तेन पुनीहि नः॥ ९.०६७.२३

    यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः।

    ब्रह्मसवैः पुनीहि नः॥ ९.०६७.२४

    उभाभ्यां देव सवितः पवित्रेण सवेन च।

    मां पुनीहि विश्वतः॥ ९.०६७.२५

    त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः।

    अग्ने दक्षैः पुनीहि नः॥ ९.०६७.२६

    पुनन्तु मां देवजनाः पुनन्तु वसवो धिया।

    विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा॥ ९.०६७.२७

    प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः।

    देवेभ्य उत्तमं हविः॥ ९.०६७.२८

    उप प्रियं पनिप्नतं युवानमाहुतीवृधम्।

    अगन्म बिभ्रतो नमः॥ ९.०६७.२९

    अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम।

    आखुं चिदेव देव सोम॥ ९.०६७.३०

    यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम्।

    सर्वं स पूतमश्नाति स्वदितं मातरिश्वना॥ ९.०६७.३१

    पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम्।

    तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम्॥ ९.०६७.३२
    Rig Veda, Mandala - 09, Sukta - 68.

    प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः।

    बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे॥ ९.०६८.०१

    स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः।

    तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम्॥ ९.०६८.०२

    वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता।

    मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे॥ ९.०६८.०३

    स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम्।

    अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः॥ ९.०६८.०४

    सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः।

    यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम्॥ ९.०६८.०५

    मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः।

    तं मर्जयन्त सुवृधं नदीष्वाँ उशन्तमंशुं परियन्तमृग्मियम्॥ ९.०६८.०६

    त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम्।

    अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये॥ ९.०६८.०७

    परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः।

    यो धारया मधुमाँ ऊर्मिणा दिव इयर्ति वाचं रयिषाळमर्त्यः॥ ९.०६८.०८

    अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति।

    अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम्॥ ९.०६८.०९

    एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व।

    अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम्॥ ९.०६८.१०
    Rig Veda, Mandala - 09, Sukta - 69.
    इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि।

    उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते॥ ९.०६९.०१

    उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि।

    पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति॥ ९.०६९.०२

    अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते।

    हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते॥ ९.०६९.०३

    उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम्।

    अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत॥ ९.०६९.०४

    अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत।

    दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम्॥ ९.०६९.०५

    सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते।

    तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन॥ ९.०६९.०६

    सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत।

    शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः॥ ९.०६९.०७

    आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम्।

    यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः॥ ९.०६९.०८

    एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ।

    सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ॥ ९.०६९.०९

    इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः।

    भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः॥ ९.०६९.१०
    Rig Veda, Mandala - 09, Sukta - 70.

    त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि।

    चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत॥ ९.०७०.०१

    स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे।

    तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः॥ ९.०७०.०२

    ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु।

    येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत॥ ९.०७०.०३

    स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा।

    व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ॥ ९.०७०.०४

    स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः।

    वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः॥ ९.०७०.०५

    स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः।

    जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः॥ ९.०७०.०६

    रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः।

    आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी॥ ९.०७०.०७

    शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि।

    जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः॥ ९.०७०.०८

    पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश।

    पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते॥ ९.०७०.०९

    हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व।

    नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निदः स्पः॥ ९.०७०.१०

    No comments

    Post Top Ad

    Post Bottom Ad