Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 36 to 40. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 36.

    असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः।

    कार्ष्मन्वाजी न्यक्रमीत्॥ ९.०३६.०१

    स वह्निः सोम जागृविः पवस्व देववीरति।

    अभि कोशं मधुश्चुतम्॥ ९.०३६.०२

    स नो ज्योतींषि पूर्व्य पवमान वि रोचय।

    क्रत्वे दक्षाय नो हिनु॥ ९.०३६.०३

    शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः।

    पवते वारे अव्यये॥ ९.०३६.०४

    स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा।

    पवतामान्तरिक्ष्या॥ ९.०३६.०५

    आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि।

    वीरयुः शवसस्पते॥ ९.०३६.०६

    Rig Veda, Mandala - 09, Sukta - 37.

    स सुतः पीतये वृषा सोमः पवित्रे अर्षति।

    विघ्नन्रक्षांसि देवयुः॥ ९.०३७.०१

    स पवित्रे विचक्षणो हरिरर्षति धर्णसिः।

    अभि योनिं कनिक्रदत्॥ ९.०३७.०२

    स वाजी रोचना दिवः पवमानो वि धावति।

    रक्षोहा वारमव्ययम्॥ ९.०३७.०३

    स त्रितस्याधि सानवि पवमानो अरोचयत्।

    जामिभिः सूर्यं सह॥ ९.०३७.०४

    स वृत्रहा वृषा सुतो वरिवोविददाभ्यः।

    सोमो वाजमिवासरत्॥ ९.०३७.०५

    स देवः कविनेषितोऽभि द्रोणानि धावति।

    इन्दुरिन्द्राय मंहना॥ ९.०३७.०६
    Rig Veda, Mandala - 09, Sukta - 38.

    एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति।

    गच्छन्वाजं सहस्रिणम्॥ ९.०३८.०१

    एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः।

    इन्दुमिन्द्राय पीतये॥ ९.०३८.०२

    एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः।

    याभिर्मदाय शुम्भते॥ ९.०३८.०३

    एष स्य मानुषीष्वा श्येनो न विक्षु सीदति।

    गच्छञ्जारो न योषितम्॥ ९.०३८.०४

    एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः।

    य इन्दुर्वारमाविशत्॥ ९.०३८.०५

    एष स्य पीतये सुतो हरिरर्षति धर्णसिः।

    क्रन्दन्योनिमभि प्रियम्॥ ९.०३८.०६

    Rig Veda, Mandala - 09, Sukta - 39.

    आशुरर्ष बृहन्मते परि प्रियेण धाम्ना।

    यत्र देवा इति ब्रवन्॥ ९.०३९.०१

    परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः।

    वृष्टिं दिवः परि स्रव॥ ९.०३९.०२

    सुत एति पवित्र आ त्विषिं दधान ओजसा।

    विचक्षाणो विरोचयन्॥ ९.०३९.०३

    अयं स यो दिवस्परि रघुयामा पवित्र आ।

    सिन्धोरूर्मा व्यक्षरत्॥ ९.०३९.०४

    आविवासन्परावतो अथो अर्वावतः सुतः।

    इन्द्राय सिच्यते मधु॥ ९.०३९.०५

    समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः।

    योनावृतस्य सीदत॥ ९.०३९.०६

    Rig Veda, Mandala - 09, Sukta - 40.

    पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः।

    शुम्भन्ति विप्रं धीतिभिः॥ ९.०४०.०१

    आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः।

    ध्रुवे सदसि सीदति॥ ९.०४०.०२

    नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः।

    आ पवस्व सहस्रिणम्॥ ९.०४०.०३

    विश्वा सोम पवमान द्युम्नानीन्दवा भर।

    विदाः सहस्रिणीरिषः॥ ९.०४०.०४

    स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम्।

    जरितुर्वर्धया गिरः॥ ९.०४०.०५

    पुनान इन्दवा भर सोम द्विबर्हसं रयिम्।

    वृषन्निन्दो न उक्थ्यम्॥ ९.०४०.०६

    No comments

    Post Top Ad

    Post Bottom Ad