Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 31 to 35. Astro classe.

    Rig Veda, Mandala - 09, Sukta - 31.

    प्र सोमासः स्वाध्यः पवमानासो अक्रमुः।

    रयिं कृण्वन्ति चेतनम्॥ ९.०३१.०१

    दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः।

    भवा वाजानां पतिः॥ ९.०३१.०२

    तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः।

    सोम वर्धन्ति ते महः॥ ९.०३१.०३

    आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्।

    भवा वाजस्य संगथे॥ ९.०३१.०४

    तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम्।

    वर्षिष्ठे अधि सानवि॥ ९.०३१.०५

    स्वायुधस्य ते सतो भुवनस्य पते वयम्।

    इन्दो सखित्वमुश्मसि॥ ९.०३१.०६

    Rig Veda, Mandala - 09, Sukta - 32.

    प्र सोमासो मदच्युतः श्रवसे नो मघोनः।

    सुता विदथे अक्रमुः॥ ९.०३२.०१

    आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः।

    इन्दुमिन्द्राय पीतये॥ ९.०३२.०२

    आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम्।

    अत्यो न गोभिरज्यते॥ ९.०३२.०३

    उभे सोमावचाकशन्मृगो न तक्तो अर्षसि।

    सीदन्नृतस्य योनिमा॥ ९.०३२.०४

    अभि गावो अनूषत योषा जारमिव प्रियम्।

    अगन्नाजिं यथा हितम्॥ ९.०३२.०५

    अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च।

    सनिं मेधामुत श्रवः॥ ९.०३२.०६

    Rig Veda, Mandala - 09, Sukta - 33.

    प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः।

    वनानि महिषा इव॥ ९.०३३.०१

    अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया।

    वाजं गोमन्तमक्षरन्॥ ९.०३३.०२

    सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः।

    सोमा अर्षन्ति विष्णवे॥ ९.०३३.०३

    तिस्रो वाच उदीरते गावो मिमन्ति धेनवः।

    हरिरेति कनिक्रदत्॥ ९.०३३.०४

    अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः।

    मर्मृज्यन्ते दिवः शिशुम्॥ ९.०३३.०५

    रायः समुद्राँश्चतुरोऽस्मभ्यं सोम विश्वतः।

    आ पवस्व सहस्रिणः॥ ९.०३३.०६

    Rig Veda, Mandala - 09, Sukta - 34.

    प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति।

    रुजद्दृळ्हा व्योजसा॥ ९.०३४.०१

    सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः।

    सोमो अर्षति विष्णवे॥ ९.०३४.०२

    वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः।

    दुहन्ति शक्मना पयः॥ ९.०३४.०३

    भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः।

    सं रूपैरज्यते हरिः॥ ९.०३४.०४

    अभीमृतस्य विष्टपं दुहते पृश्निमातरः।

    चारु प्रियतमं हविः॥ ९.०३४.०५

    समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः।

    धेनूर्वाश्रो अवीवशत्॥ ९.०३४.०६

    Rig Veda, Mandala - 09, Sukta - 35.

    आ नः पवस्व धारया पवमान रयिं पृथुम्।

    यया ज्योतिर्विदासि नः॥ ९.०३५.०१

    इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय।

    रायो धर्ता न ओजसा॥ ९.०३५.०२

    त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः।

    क्षरा णो अभि वार्यम्॥ ९.०३५.०३

    प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः।

    व्रता विदान आयुधा॥ ९.०३५.०४

    तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि।

    सोमं जनस्य गोपतिम्॥ ९.०३५.०५

    विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः।

    पुनानस्य प्रभूवसोः॥ ९.०३५.०६

    No comments

    Post Top Ad

    Post Bottom Ad