Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 26 to 30. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 26.

    तममृक्षन्त वाजिनमुपस्थे अदितेरधि।

    विप्रासो अण्व्या धिया॥ ९.०२६.०१

    तं गावो अभ्यनूषत सहस्रधारमक्षितम्।

    इन्दुं धर्तारमा दिवः॥ ९.०२६.०२

    तं वेधां मेधयाह्यन्पवमानमधि द्यवि।

    धर्णसिं भूरिधायसम्॥ ९.०२६.०३

    तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः।

    पतिं वाचो अदाभ्यम्॥ ९.०२६.०४

    तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः।

    हर्यतं भूरिचक्षसम्॥ ९.०२६.०५

    तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम्।

    इन्दविन्द्राय मत्सरम्॥ ९.०२६.०६

    Rig Veda, Mandala - 09, Sukta - 27.

    एष कविरभिष्टुतः पवित्रे अधि तोशते।

    पुनानो घ्नन्नप स्रिधः॥ ९.०२७.०१

    एष इन्द्राय वायवे स्वर्जित्परि षिच्यते।

    पवित्रे दक्षसाधनः॥ ९.०२७.०२

    एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः।

    सोमो वनेषु विश्ववित्॥ ९.०२७.०३

    एष गव्युरचिक्रदत्पवमानो हिरण्ययुः।

    इन्दुः सत्राजिदस्तृतः॥ ९.०२७.०४

    एष सूर्येण हासते पवमानो अधि द्यवि।

    पवित्रे मत्सरो मदः॥ ९.०२७.०५

    एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः।

    पुनान इन्दुरिन्द्रमा॥ ९.०२७.०६

    Rig Veda, Mandala - 09, Sukta - 28.

    एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः।

    अव्यो वारं वि धावति॥ ९.०२८.०१

    एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः।

    विश्वा धामान्याविशन्॥ ९.०२८.०२

    एष देवः शुभायतेऽधि योनावमर्त्यः।

    वृत्रहा देववीतमः॥ ९.०२८.०३

    एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः।

    अभि द्रोणानि धावति॥ ९.०२८.०४

    एष सूर्यमरोचयत्पवमानो विचर्षणिः।

    विश्वा धामानि विश्ववित्॥ ९.०२८.०५

    एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति।

    देवावीरघशंसहा॥ ९.०२८.०६

    Rig Veda, Mandala - 09, Sukta - 29.

    प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा।

    देवाँ अनु प्रभूषतः॥ ९.०२९.०१

    सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा।

    ज्योतिर्जज्ञानमुक्थ्यम्॥ ९.०२९.०२

    सुषहा सोम तानि ते पुनानाय प्रभूवसो।

    वर्धा समुद्रमुक्थ्यम्॥ ९.०२९.०३

    विश्वा वसूनि संजयन्पवस्व सोम धारया।

    इनु द्वेषांसि सध्र्यक्॥ ९.०२९.०४

    रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित्।

    निदो यत्र मुमुच्महे॥ ९.०२९.०५

    एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया।

    द्युमन्तं शुष्ममा भर॥ ९.०२९.०६

    Rig Veda, Mandala - 09, Sukta - 30.

    प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन्।

    पुनानो वाचमिष्यति॥ ९.०३०.०१

    इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत्।

    इयर्ति वग्नुमिन्द्रियम्॥ ९.०३०.०२

    आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम्।

    पवस्व सोम धारया॥ ९.०३०.०३

    प्र सोमो अति धारया पवमानो असिष्यदत्।

    अभि द्रोणान्यासदम्॥ ९.०३०.०४

    अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः।

    इन्दविन्द्राय पीतये॥ ९.०३०.०५

    सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे।

    चारुं शर्धाय मत्सरम्॥ ९.०३०.०६

    No comments

    Post Top Ad

    Post Bottom Ad