Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 21 to 25. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 21.

    एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः।

    मत्सरासः स्वर्विदः॥ ९.०२१.०१

    प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः।

    स्वयं स्तोत्रे वयस्कृतः॥ ९.०२१.०२

    वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित्।

    सिन्धोरूर्मा व्यक्षरन्॥ ९.०२१.०३

    एते विश्वानि वार्या पवमानास आशत।

    हिता न सप्तयो रथे॥ ९.०२१.०४

    आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे।

    यो अस्मभ्यमरावा॥ ९.०२१.०५

    ऋभुर्न रथ्यं नवं दधाता केतमादिशे।

    शुक्राः पवध्वमर्णसा॥ ९.०२१.०६

    एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत।

    सतः प्रासाविषुर्मतिम्॥ ९.०२१.०७

    Rig Veda, Mandala - 09, Sukta - 22.

    एते सोमास आशवो रथा इव प्र वाजिनः।

    सर्गाः सृष्टा अहेषत॥ ९.०२२.०१

    एते वाता इवोरवः पर्जन्यस्येव वृष्टयः।

    अग्नेरिव भ्रमा वृथा॥ ९.०२२.०२

    एते पूता विपश्चितः सोमासो दध्याशिरः।

    विपा व्यानशुर्धियः॥ ९.०२२.०३

    एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः।

    इयक्षन्तः पथो रजः॥ ९.०२२.०४

    एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः।

    उतेदमुत्तमं रजः॥ ९.०२२.०५

    तन्तुं तन्वानमुत्तममनु प्रवत आशत।

    उतेदमुत्तमाय्यम्॥ ९.०२२.०६

    त्वं सोम पणिभ्य आ वसु गव्यानि धारयः।

    ततं तन्तुमचिक्रदः॥ ९.०२२.०७

    Rig Veda, Mandala - 09, Sukta - 23.

    सोमा असृग्रमाशवो मधोर्मदस्य धारया।

    अभि विश्वानि काव्या॥ ९.०२३.०१

    अनु प्रत्नास आयवः पदं नवीयो अक्रमुः।

    रुचे जनन्त सूर्यम्॥ ९.०२३.०२

    आ पवमान नो भरार्यो अदाशुषो गयम्।

    कृधि प्रजावतीरिषः॥ ९.०२३.०३

    अभि सोमास आयवः पवन्ते मद्यं मदम्।

    अभि कोशं मधुश्चुतम्॥ ९.०२३.०४

    सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम्।

    सुवीरो अभिशस्तिपाः॥ ९.०२३.०५

    इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः।

    इन्दो वाजं सिषाससि॥ ९.०२३.०६

    अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति।

    जघान जघनच्च नु॥ ९.०२३.०७

    Rig Veda, Mandala - 09, Sukta - 24.
    प्र सोमासो अधन्विषुः पवमानास इन्दवः।

    श्रीणाना अप्सु मृञ्जत॥ ९.०२४.०१

    अभि गावो अधन्विषुरापो न प्रवता यतीः।

    पुनाना इन्द्रमाशत॥ ९.०२४.०२

    प्र पवमान धन्वसि सोमेन्द्राय पातवे।

    नृभिर्यतो वि नीयसे॥ ९.०२४.०३

    त्वं सोम नृमादनः पवस्व चर्षणीसहे।

    सस्निर्यो अनुमाद्यः॥ ९.०२४.०४

    इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि।

    अरमिन्द्रस्य धाम्ने॥ ९.०२४.०५

    पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः।

    शुचिः पावको अद्भुतः॥ ९.०२४.०६

    शुचिः पावक उच्यते सोमः सुतस्य मध्वः।

    देवावीरघशंसहा॥ ९.०२४.०७

    Rig Veda, Mandala - 09, Sukta - 25.
    पवस्व दक्षसाधनो देवेभ्यः पीतये हरे।

    मरुद्भ्यो वायवे मदः॥ ९.०२५.०१

    पवमान धिया हितोऽभि योनिं कनिक्रदत्।

    धर्मणा वायुमा विश॥ ९.०२५.०२

    सं देवैः शोभते वृषा कविर्योनावधि प्रियः।

    वृत्रहा देववीतमः॥ ९.०२५.०३

    विश्वा रूपाण्याविशन्पुनानो याति हर्यतः।

    यत्रामृतास आसते॥ ९.०२५.०४

    अरुषो जनयन्गिरः सोमः पवत आयुषक्।

    इन्द्रं गच्छन्कविक्रतुः॥ ९.०२५.०५

    आ पवस्व मदिन्तम पवित्रं धारया कवे।

    अर्कस्य योनिमासदम्॥ ९.०२५.०६

    No comments

    Post Top Ad

    Post Bottom Ad