Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 16 to 20. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 16.

    प्र ते सोतार ओण्यो रसं मदाय घृष्वये।

    सर्गो न तक्त्येतशः॥ ९.०१६.०१

    क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा।

    गोषामण्वेषु सश्चिम॥ ९.०१६.०२

    अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज।

    पुनीहीन्द्राय पातवे॥ ९.०१६.०३

    प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति।

    क्रत्वा सधस्थमासदत्॥ ९.०१६.०४

    प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत।

    महे भराय कारिणः॥ ९.०१६.०५

    पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः।

    शूरो न गोषु तिष्ठति॥ ९.०१६.०६

    दिवो न सानु पिप्युषी धारा सुतस्य वेधसः।

    वृथा पवित्रे अर्षति॥ ९.०१६.०७

    त्वं सोम विपश्चितं तना पुनान आयुषु।

    अव्यो वारं वि धावसि॥ ९.०१६.०८

    Rig Veda, Mandala - 09, Sukta - 17.
    प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः।

    सोमा असृग्रमाशवः॥ ९.०१७.०१

    अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव।

    इन्द्रं सोमासो अक्षरन्॥ ९.०१७.०२

    अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति।

    विघ्नन्रक्षांसि देवयुः॥ ९.०१७.०३

    आ कलशेषु धावति पवित्रे परि षिच्यते।

    उक्थैर्यज्ञेषु वर्धते॥ ९.०१७.०४

    अति त्री सोम रोचना रोहन्न भ्राजसे दिवम्।

    इष्णन्सूर्यं न चोदयः॥ ९.०१७.०५

    अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः।

    दधानाश्चक्षसि प्रियम्॥ ९.०१७.०६

    तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः।

    मृजन्ति देवतातये॥ ९.०१७.०७

    मधोर्धारामनु क्षर तीव्रः सधस्थमासदः।

    चारुरृताय पीतये॥ ९.०१७.०८

    Rig Veda, Mandala - 09, Sukta - 18.

    परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः।

    मदेषु सर्वधा असि॥ ९.०१८.०१

    त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः।

    मदेषु सर्वधा असि॥ ९.०१८.०२

    तव विश्वे सजोषसो देवासः पीतिमाशत।

    मदेषु सर्वधा असि॥ ९.०१८.०३

    आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे।

    मदेषु सर्वधा असि॥ ९.०१८.०४

    य इमे रोदसी मही सं मातरेव दोहते।

    मदेषु सर्वधा असि॥ ९.०१८.०५

    परि यो रोदसी उभे सद्यो वाजेभिरर्षति।

    मदेषु सर्वधा असि॥ ९.०१८.०६

    स शुष्मी कलशेष्वा पुनानो अचिक्रदत्।

    मदेषु सर्वधा असि॥ ९.०१८.०७

    Rig Veda, Mandala - 09, Sukta - 19.

    यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु।

    तन्नः पुनान आ भर॥ ९.०१९.०१

    युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती।

    ईशाना पिप्यतं धियः॥ ९.०१९.०२

    वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि।

    हरिः सन्योनिमासदत्॥ ९.०१९.०३

    अवावशन्त धीतयो वृषभस्याधि रेतसि।

    सूनोर्वत्सस्य मातरः॥ ९.०१९.०४

    कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत्।

    याः शुक्रं दुहते पयः॥ ९.०१९.०५

    उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु।

    पवमान विदा रयिम्॥ ९.०१९.०६

    नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर।

    दूरे वा सतो अन्ति वा॥ ९.०१९.०७

    Rig Veda, Mandala - 09, Sukta - 20.

    प्र कविर्देववीतयेऽव्यो वारेभिरर्षति।

    साह्वान्विश्वा अभि स्पृधः॥ ९.०२०.०१

    स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति।

    पवमानः सहस्रिणम्॥ ९.०२०.०२

    परि विश्वानि चेतसा मृशसे पवसे मती।

    स नः सोम श्रवो विदः॥ ९.०२०.०३

    अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम्।

    इषं स्तोतृभ्य आ भर॥ ९.०२०.०४

    त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ।

    पुनानो वह्ने अद्भुत॥ ९.०२०.०५

    स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः।

    सोमश्चमूषु सीदति॥ ९.०२०.०६

    क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि।

    दधत्स्तोत्रे सुवीर्यम्॥ ९.०२०.०७

    No comments

    Post Top Ad

    Post Bottom Ad