Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 11 to 15. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 11.

    उपास्मै गायता नरः पवमानायेन्दवे।

    अभि देवाँ इयक्षते॥ ९.०११.०१

    अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः।

    देवं देवाय देवयु॥ ९.०११.०२

    स नः पवस्व शं गवे शं जनाय शमर्वते।

    शं राजन्नोषधीभ्यः॥ ९.०११.०३

    बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे।

    सोमाय गाथमर्चत॥ ९.०११.०४

    हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन।

    मधावा धावता मधु॥ ९.०११.०५

    नमसेदुप सीदत दध्नेदभि श्रीणीतन।

    इन्दुमिन्द्रे दधातन॥ ९.०११.०६

    अमित्रहा विचर्षणिः पवस्व सोम शं गवे।

    देवेभ्यो अनुकामकृत्॥ ९.०११.०७

    इन्द्राय सोम पातवे मदाय परि षिच्यसे।

    मनश्चिन्मनसस्पतिः॥ ९.०११.०८

    पवमान सुवीर्यं रयिं सोम रिरीहि नः।

    इन्दविन्द्रेण नो युजा॥ ९.०११.०९

    Rig Veda, Mandala - 09, Sukta - 12.

    सोमा असृग्रमिन्दवः सुता ऋतस्य सादने।

    इन्द्राय मधुमत्तमाः॥ ९.०१२.०१

    अभि विप्रा अनूषत गावो वत्सं न मातरः।

    इन्द्रं सोमस्य पीतये॥ ९.०१२.०२

    मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित्।

    सोमो गौरी अधि श्रितः॥ ९.०१२.०३

    दिवो नाभा विचक्षणोऽव्यो वारे महीयते।

    सोमो यः सुक्रतुः कविः॥ ९.०१२.०४

    यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः।

    तमिन्दुः परि षस्वजे॥ ९.०१२.०५

    प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि।

    जिन्वन्कोशं मधुश्चुतम्॥ ९.०१२.०६

    नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः।

    हिन्वानो मानुषा युगा॥ ९.०१२.०७

    अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति।

    विप्रस्य धारया कविः॥ ९.०१२.०८

    आ पवमान धारय रयिं सहस्रवर्चसम्।

    अस्मे इन्दो स्वाभुवम्॥ ९.०१२.०९

    Rig Veda, Mandala - 09, Sukta - 13.

    सोमः पुनानो अर्षति सहस्रधारो अत्यविः।

    वायोरिन्द्रस्य निष्कृतम्॥ ९.०१३.०१

    पवमानमवस्यवो विप्रमभि प्र गायत।

    सुष्वाणं देववीतये॥ ९.०१३.०२

    पवन्ते वाजसातये सोमाः सहस्रपाजसः।

    गृणाना देववीतये॥ ९.०१३.०३

    उत नो वाजसातये पवस्व बृहतीरिषः।

    द्युमदिन्दो सुवीर्यम्॥ ९.०१३.०४

    ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम्।

    सुवाना देवास इन्दवः॥ ९.०१३.०५

    अत्या हियाना न हेतृभिरसृग्रं वाजसातये।

    वि वारमव्यमाशवः॥ ९.०१३.०६

    वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः।

    दधन्विरे गभस्त्योः॥ ९.०१३.०७

    जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत्।

    विश्वा अप द्विषो जहि॥ ९.०१३.०८

    अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः।

    योनावृतस्य सीदत॥ ९.०१३.०९

    Rig Veda, Mandala - 09, Sukta - 14.

    परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः।

    कारं बिभ्रत्पुरुस्पृहम्॥ ९.०१४.०१

    गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः।

    परिष्कृण्वन्ति धर्णसिम्॥ ९.०१४.०२

    आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत।

    यदी गोभिर्वसायते॥ ९.०१४.०३

    निरिणानो वि धावति जहच्छर्याणि तान्वा।

    अत्रा सं जिघ्नते युजा॥ ९.०१४.०४

    नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा।

    गाः कृण्वानो न निर्णिजम्॥ ९.०१४.०५

    अति श्रिती तिरश्चता गव्या जिगात्यण्व्या।

    वग्नुमियर्ति यं विदे॥ ९.०१४.०६

    अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम्।

    पृष्ठा गृभ्णत वाजिनः॥ ९.०१४.०७

    परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा।

    वसूनि याह्यस्मयुः॥ ९.०१४.०८

    Rig Veda, Mandala - 09, Sukta - 15.

    एष धिया यात्यण्व्या शूरो रथेभिराशुभिः।

    गच्छन्निन्द्रस्य निष्कृतम्॥ ९.०१५.०१

    एष पुरू धियायते बृहते देवतातये।

    यत्रामृतास आसते॥ ९.०१५.०२

    एष हितो वि नीयतेऽन्तः शुभ्रावता पथा।

    यदी तुञ्जन्ति भूर्णयः॥ ९.०१५.०३

    एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा।

    नृम्णा दधान ओजसा॥ ९.०१५.०४

    एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः।

    पतिः सिन्धूनां भवन्॥ ९.०१५.०५

    एष वसूनि पिब्दना परुषा ययिवाँ अति।

    अव शादेषु गच्छति॥ ९.०१५.०६

    एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः।

    प्रचक्राणं महीरिषः॥ ९.०१५.०७

    एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः।

    स्वायुधं मदिन्तमम्॥ ९.०१५.०८

    No comments

    Post Top Ad

    Post Bottom Ad