Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 106 to 109. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 106.

    इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः।
    श्रुष्टी जातास इन्दवः स्वर्विदः॥ ९.१०६.०१

    अयं भराय सानसिरिन्द्राय पवते सुतः।
    सोमो जैत्रस्य चेतति यथा विदे॥ ९.१०६.०२

    अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम्।
    वज्रं च वृषणं भरत्समप्सुजित्॥ ९.१०६.०३

    प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव।
    द्युमन्तं शुष्ममा भरा स्वर्विदम्॥ ९.१०६.०४

    इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः।
    सहस्रयामा पथिकृद्विचक्षणः॥ ९.१०६.०५

    अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः।
    सहस्रं याहि पथिभिः कनिक्रदत्॥ ९.१०६.०६

    पवस्व देववीतय इन्दो धाराभिरोजसा।
    आ कलशं मधुमान्सोम नः सदः॥ ९.१०६.०७

    तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः।
    त्वां देवासो अमृताय कं पपुः॥ ९.१०६.०८

    आ नः सुतास इन्दवः पुनाना धावता रयिम्।
    वृष्टिद्यावो रीत्यापः स्वर्विदः॥ ९.१०६.०९

    सोमः पुनान ऊर्मिणाव्यो वारं वि धावति।
    अग्रे वाचः पवमानः कनिक्रदत्॥ ९.१०६.१०

    धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम्।
    अभि त्रिपृष्ठं मतयः समस्वरन्॥ ९.१०६.११

    असर्जि कलशाँ अभि मीळ्हे सप्तिर्न वाजयुः।
    पुनानो वाचं जनयन्नसिष्यदत्॥ ९.१०६.१२

    पवते हर्यतो हरिरति ह्वरांसि रंह्या।
    अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः॥ ९.१०६.१३

    अया पवस्व देवयुर्मधोर्धारा असृक्षत।
    रेभन्पवित्रं पर्येषि विश्वतः॥ ९.१०६.१४



    Rig Veda, Mandala - 09, Sukta - 107.

    परीतो षिञ्चता सुतं सोमो य उत्तमं हविः।
    दधन्वाँ यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः॥ ९.१०७.०१

    नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः।
    सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम्॥ ९.१०७.०२

    परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः॥ ९.१०७.०३

    पुनानः सोम धारयापो वसानो अर्षसि।
    आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः॥ ९.१०७.०४

    दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत्।
    आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः॥ ९.१०७.०५

    पुनानः सोम जागृविरव्यो वारे परि प्रियः।
    त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः॥ ९.१०७.०६

    सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः।
    त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि॥ ९.१०७.०७

    सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम्।
    अश्वयेव हरिता याति धारया मन्द्रया याति धारया॥ ९.१०७.०८

    अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः।
    समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते॥ ९.१०७.०९

    आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया।
    जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे॥ ९.१०७.१०

    स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः।
    अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः॥ ९.१०७.११

    प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा।
    अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम्॥ ९.१०७.१२

    आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः।
    तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः॥ ९.१०७.१३

    अभि सोमास आयवः पवन्ते मद्यं मदम्।
    समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः॥ ९.१०७.१४

    तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्।
    अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥ ९.१०७.१५

    नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः॥ ९.१०७.१६

    इन्द्राय पवते मदः सोमो मरुत्वते सुतः।
    सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः॥ ९.१०७.१७

    पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति।
    अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत॥ ९.१०७.१८

    तवाहं सोम रारण सख्य इन्दो दिवेदिवे।
    पुरूणि बभ्रो नि चरन्ति मामव परिधीँरति ताँ इहि॥ ९.१०७.१९

    उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि।
    घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम॥ ९.१०७.२०

    मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि।
    रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि॥ ९.१०७.२१

    मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने।
    देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि॥ ९.१०७.२२

    पवस्व वाजसातयेऽभि विश्वानि काव्या।
    त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः॥ ९.१०७.२३

    स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः।
    त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः॥ ९.१०७.२४

    पवमाना असृक्षत पवित्रमति धारया।
    मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च॥ ९.१०७.२५

    अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः।
    जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम्॥ ९.१०७.२६



    Rig Veda, Mandala - 09, Sukta - 108.

    पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः।
    महि द्युक्षतमो मदः॥ ९.१०८.०१

    यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः।
    स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः॥ ९.१०८.०२

    त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः।
    अमृतत्वाय घोषयः॥ ९.१०८.०३

    येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे।
    देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः॥ ९.१०८.०४

    एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः।
    क्रीळन्नूर्मिरपामिव॥ ९.१०८.०५

    य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा।
    अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज॥ ९.१०८.०६

    आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम्।
    वनक्रक्षमुदप्रुतम्॥ ९.१०८.०७

    सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने।
    ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत्॥ ९.१०८.०८

    अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः।
    वि कोशं मध्यमं युव॥ ९.१०८.०९

    आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः।
    वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः॥ ९.१०८.१०

    एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः।
    विश्वा वसूनि बिभ्रतम्॥ ९.१०८.११

    वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः।
    स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा॥ ९.१०८.१२

    स सुन्वे यो वसूनां यो रायामानेता य इळानाम्।
    सोमो यः सुक्षितीनाम्॥ ९.१०८.१३

    यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः।
    आ येन मित्रावरुणा करामह एन्द्रमवसे महे॥ ९.१०८.१४

    इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः।
    पवस्व मधुमत्तमः॥ ९.१०८.१५

    इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः।
    जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः॥ ९.१०८.१६


    Rig Veda, Mandala - 09, Sukta - 109.

    परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय॥ ९.१०९.०१

    इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः॥ ९.१०९.०२

    एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः॥ ९.१०९.०३

    पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम॥ ९.१०९.०४

    शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै॥ ९.१०९.०५

    दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व॥ ९.१०९.०६

    पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः॥ ९.१०९.०७

    नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित्॥ ९.१०९.०८

    इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः॥ ९.१०९.०९

    पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय॥ ९.१०९.१०

    तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय॥ ९.१०९.११

    शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम्॥ ९.१०९.१२

    इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय॥ ९.१०९.१३

    बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान॥ ९.१०९.१४

    पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य॥ ९.१०९.१५

    प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम्॥ ९.१०९.१६

    स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः॥ ९.१०९.१७

    प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः॥ ९.१०९.१८

    असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः॥ ९.१०९.१९

    अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय॥ ९.१०९.२०

    देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति॥ ९.१०९.२१

    इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः॥ ९.१०९.२२

    No comments

    Post Top Ad

    Post Bottom Ad