Header Ads

  • Breaking News

    Rig Veda, Mandala - 09, Sukta - 101 to 105. Astro Classes.

    Rig Veda, Mandala - 09, Sukta - 101.

    पुरोजिती वो अन्धसः सुताय मादयित्नवे।

    अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्॥ ९.१०१.०१

    यो धारया पावकया परिप्रस्यन्दते सुतः।

    इन्दुरश्वो न कृत्व्यः॥ ९.१०१.०२

    तं दुरोषमभी नरः सोमं विश्वाच्या धिया।

    यज्ञं हिन्वन्त्यद्रिभिः॥ ९.१०१.०३

    सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः।

    पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः॥ ९.१०१.०४

    इन्दुरिन्द्राय पवत इति देवासो अब्रुवन्।

    वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा॥ ९.१०१.०५

    सहस्रधारः पवते समुद्रो वाचमीङ्खयः।

    सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे॥ ९.१०१.०६

    अयं पूषा रयिर्भगः सोमः पुनानो अर्षति।

    पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे॥ ९.१०१.०७

    समु प्रिया अनूषत गावो मदाय घृष्वयः।

    सोमासः कृण्वते पथः पवमानास इन्दवः॥ ९.१०१.०८

    य ओजिष्ठस्तमा भर पवमान श्रवाय्यम्।

    यः पञ्च चर्षणीरभि रयिं येन वनामहै॥ ९.१०१.०९

    सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः।

    मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः॥ ९.१०१.१०

    सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि।

    इषमस्मभ्यमभितः समस्वरन्वसुविदः॥ ९.१०१.११

    एते पूता विपश्चितः सोमासो दध्याशिरः।

    सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते॥ ९.१०१.१२

    प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः।

    अप श्वानमराधसं हता मखं न भृगवः॥ ९.१०१.१३

    आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः।

    सरज्जारो न योषणां वरो न योनिमासदम्॥ ९.१०१.१४

    स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी।

    हरिः पवित्रे अव्यत वेधा न योनिमासदम्॥ ९.१०१.१५

    अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि।

    कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम्॥ ९.१०१.१६


    Rig Veda, Mandala - 09, Sukta - 102.

    क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम्।

    विश्वा परि प्रिया भुवदध द्विता॥ ९.१०२.०१

    उप त्रितस्य पाष्योरभक्त यद्गुहा पदम्।

    यज्ञस्य सप्त धामभिरध प्रियम्॥ ९.१०२.०२

    त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम्।

    मिमीते अस्य योजना वि सुक्रतुः॥ ९.१०२.०३

    जज्ञानं सप्त मातरो वेधामशासत श्रिये।

    अयं ध्रुवो रयीणां चिकेत यत्॥ ९.१०२.०४

    अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः।

    स्पार्हा भवन्ति रन्तयो जुषन्त यत्॥ ९.१०२.०५

    यमी गर्भमृतावृधो दृशे चारुमजीजनन्।

    कविं मंहिष्ठमध्वरे पुरुस्पृहम्॥ ९.१०२.०६

    समीचीने अभि त्मना यह्वी ऋतस्य मातरा।

    तन्वाना यज्ञमानुषग्यदञ्जते॥ ९.१०२.०७

    क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः।

    हिन्वन्नृतस्य दीधितिं प्राध्वरे॥ ९.१०२.०८

    Rig Veda, Mandala - 09, Sukta - 103.

    प्र पुनानाय वेधसे सोमाय वच उद्यतम्।

    भृतिं न भरा मतिभिर्जुजोषते॥ ९.१०३.०१

    परि वाराण्यव्यया गोभिरञ्जानो अर्षति।

    त्री षधस्था पुनानः कृणुते हरिः॥ ९.१०३.०२

    परि कोशं मधुश्चुतमव्यये वारे अर्षति।

    अभि वाणीरृषीणां सप्त नूषत॥ ९.१०३.०३

    परि णेता मतीनां विश्वदेवो अदाभ्यः।

    सोमः पुनानश्चम्वोर्विशद्धरिः॥ ९.१०३.०४

    परि दैवीरनु स्वधा इन्द्रेण याहि सरथम्।

    पुनानो वाघद्वाघद्भिरमर्त्यः॥ ९.१०३.०५

    परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः।

    व्यानशिः पवमानो वि धावति॥ ९.१०३.०६

    Rig Veda, Mandala - 09, Sukta - 104.

    सखाय आ नि षीदत पुनानाय प्र गायत।

    शिशुं न यज्ञैः परि भूषत श्रिये॥ ९.१०४.०१

    समी वत्सं न मातृभिः सृजता गयसाधनम्।

    देवाव्यं मदमभि द्विशवसम्॥ ९.१०४.०२

    पुनाता दक्षसाधनं यथा शर्धाय वीतये।

    यथा मित्राय वरुणाय शंतमः॥ ९.१०४.०३

    अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत।

    गोभिष्टे वर्णमभि वासयामसि॥ ९.१०४.०४

    स नो मदानां पत इन्दो देवप्सरा असि।

    सखेव सख्ये गातुवित्तमो भव॥ ९.१०४.०५

    सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम्।

    अपादेवं द्वयुमंहो युयोधि नः॥ ९.१०४.०६


    Rig Veda, Mandala - 09, Sukta - 105.

    तं वः सखायो मदाय पुनानमभि गायत।

    शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः॥ ९.१०५.०१

    सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते।

    देवावीर्मदो मतिभिः परिष्कृतः॥ ९.१०५.०२

    अयं दक्षाय साधनोऽयं शर्धाय वीतये।

    अयं देवेभ्यो मधुमत्तमः सुतः॥ ९.१०५.०३

    गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व।

    शुचिं ते वर्णमधि गोषु दीधरम्॥ ९.१०५.०४

    स नो हरीणां पत इन्दो देवप्सरस्तमः।

    सखेव सख्ये नर्यो रुचे भव॥ ९.१०५.०५

    सनेमि त्वमस्मदाँ अदेवं कं चिदत्रिणम्।

    साह्वाँ इन्दो परि बाधो अप द्वयुम्॥ ९.१०५.०६

    No comments

    Post Top Ad

    Post Bottom Ad