Header Ads

  • Breaking News

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.Rig Veda, Mandala - 08, Sukta - 36 to 40.

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 036.

    अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०१
    प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०२
    ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०३
    जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०४
    जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०५
    अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो।
    यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते॥ ८.०३६.०६
    श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः।
    प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन्॥ ८.०३६.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 037.

    प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०१
    सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०२
    एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०३
    सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०४
    क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०५
    क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः।
    माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः॥ ८.०३७.०६
    श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः।
    प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन्॥ ८.०३७.०७

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 038.

    यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु।
    इन्द्राग्नी तस्य बोधतम्॥ ८.०३८.०१
    तोशासा रथयावाना वृत्रहणापराजिता।
    इन्द्राग्नी तस्य बोधतम्॥ ८.०३८.०२
    इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः।
    इन्द्राग्नी तस्य बोधतम्॥ ८.०३८.०३
    जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती।
    इन्द्राग्नी आ गतं नरा॥ ८.०३८.०४
    इमा जुषेथां सवना येभिर्हव्यान्यूहथुः।
    इन्द्राग्नी आ गतं नरा॥ ८.०३८.०५
    इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम।
    इन्द्राग्नी आ गतं नरा॥ ८.०३८.०६
    प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू।
    इन्द्राग्नी सोमपीतये॥ ८.०३८.०७
    श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम्।
    इन्द्राग्नी सोमपीतये॥ ८.०३८.०८
    एवा वामह्व ऊतये यथाहुवन्त मेधिराः।
    इन्द्राग्नी सोमपीतये॥ ८.०३८.०९
    आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे।
    याभ्यां गायत्रमृच्यते॥ ८.०३८.१०

    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 039.

    अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै।
    अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे॥ ८.०३९.०१
    न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम्।
    न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे॥ ८.०३९.०२
    अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि।
    स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे॥ ८.०३९.०३
    तत्तदग्निर्वयो दधे यथायथा कृपण्यति।
    ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे॥ ८.०३९.०४
    स चिकेत सहीयसाग्निश्चित्रेण कर्मणा।
    स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे॥ ८.०३९.०५
    अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम्।
    अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे॥ ८.०३९.०६
    अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा।
    स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे॥ ८.०३९.०७
    यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु।
    तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे॥ ८.०३९.०८
    अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः।
    स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे॥ ८.०३९.०९
    त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि।
    त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे॥ ८.०३९.१०


    ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.
    Rig Veda, Mandala - 08, Sukta - 040.

    इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम्।
    येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे॥ ८.०४०.०१
    नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम्।
    स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे॥ ८.०४०.०२
    ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः।
    ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे॥ ८.०४०.०३
    अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा।
    ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे॥ ८.०४०.०४
    प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत।
    या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे॥ ८.०४०.०५
    अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय।
    वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे॥ ८.०४०.०६
    यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा।
    अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे॥ ८.०४०.०७
    या नु श्वेताववो दिव उच्चरात उप द्युभिः।
    इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे॥ ८.०४०.०८
    पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः।
    वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे॥ ८.०४०.०९
    तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम्।
    उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे॥ ८.०४०.१०
    तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम्।
    उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे॥ ८.०४०.११
    एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि।
    त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम्॥ ८.०४०.१२

    Rig Veda, Mandala - 08. ऋग्वेदः वैदिकस्वरविरहितः मण्डलं - ८.

    No comments

    Post Top Ad

    Post Bottom Ad